आपस्तम्ब गृह्यसूत्राणि, हरदत्तस्य अनुकूला, सुदर्शनसूरेः तात्पर्यदर्शनम् च/चतुर्थः पटलः

विकिस्रोतः तः

पटलः १

पटलः २

पटलः ३

पटलः ४

पटलः ५

पटलः ६

पटलः ७

पटलः ८



अथ चतुर्थः पटलः
अथ दशमः खण्डः ।
६ उपनयनप्रकरणम्
१ उपनयनस्य कालः ।
उपनयनं व्याख्यास्यामः ॥ आपस्तम्बगृह्यसूत्र १०.१ ॥
टीकाः
अनुकूलावृत्ति १०.१
येन आचार्यकुसमुपनीयते कुमारः<तदुपनयनं> नाम कर्म श्रौतः पुरुषसंस्कारः ।
ऽगर्भाषटमेषु ब्राह्मणमुपनयीतऽइति वक्ष्यमाणेनैवोपनयनाधिकारे सिद्धे प्रतिज्ञाकरणं प्राधान्यख्यापनार्थम् ।
यथा"अग्न्याधेयं व्याख्यास्याम"(आप.श्रौ.५.१.१) इत्यादौ ।
कथं पुनरुपनयनस्य प्राधान्यम्?यस्मादनुपनीतस्य श्रौतस्मार्तेषु सर्वेषु कर्मस्वनधिकारः ।
उपनयने तु गर्भाधानदिभिरसंस्कृतस्यानंधिकारः ।
यत्र ब्रह्मचारिधर्माः सामयाचारिकेषु तत्रैवोपनयनेऽप्युच्यमाने सर्वचरणार्थता स्यात् ।
इष्यते चास्मदीयानामेवायं कल्पः ।
तस्मादत्रोपदेशः ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १०.१
उपनयनमिति कर्मनामधेयम् ।
कुमारस्याचार्यसमीपनयनमस्मिन् कर्मणीति, पङ्कजादिवत् ।
विर्विस्तरार्थः ।
आङ्ब लव दर्थः ।
चक्षिङोऽत्र व्यक्तवागर्थस्य ख्याञादेशात्<व्याख्यास्याम>इति रूपम् ।
तथा चायमर्थः उपनयनाख्यं कर्म वैकल्पिककल्पोक्त्या विस्तृतं बलवत्प्रमाणोपपन्नं असाधारणैश्शब्दैर्वक्ष्याम इति ।
इयं च प्रतिज्ञा श्रोतृजनमनोऽवधारणार्था ।
केचित्दैवादेर्विघ्नात्पूर्वैर्निषेकादिभिरसंस्कृतस्याप्युपनयनं भवत्येव ।
न तूपनयनासंस्कृतस्य उत्तराणि श्रौतस्मार्तानीत्येवमुपनयनप्राधान्यज्ञापनार्था प्रतिज्ञा ।
किञ्चि गृह्योपदिष्टकर्मसु गृहस्थस्यैवाधिकारो न ब्रह्मतारिण इत्येवंरूपं विशेषं ज्ञापयितुमप्रतिज्ञं विवाहमुपदिश्य उपनयनकल्पोपदेशः सप्रतिज्ञः क्रियते ।
अस्य च कल्पस्य धर्मशास्त्रेऽउपनयनं विद्यार्तस्यऽ(आप.ध.११९) इत्य त्रानुपदेशः सर्वचरणार्थतां निवर्तयितुमिति ॥१॥
गर्भाष्टमेषु ब्राह्मणमुपनयीत ॥ आपस्तम्बगृह्यसूत्र १०.२ ॥
टीकाः
अनुकूलावृत्ति १०.२
यस्मिन् वर्षे गर्भो भूत्वा शेते तद्वर्ष गर्भशब्देनोच्यते तदष्टमं येषां तानीमानि<गर्भाष्टमानि>वर्षाणि ।
बहुवचनं सौरादिभेदेन वर्षाणं भिन्नत्वात् ।
अपर आहजन्मप्रभृति सप्तानां वर्षाणां गर्भमष्टमं भवति ।
तेन सप्तस्वपि वर्षेषूपनयनं चोद्यते ।
तत्र चतुर्षु वर्षेष्वयोग्यत्वात्
चौलादिसंस्कारान्तरविरोधाच्च पञ्चमादिषु त्रिषुपनयनमिति ।
अत्र षष्ठसप्तमयोः काम्यमुपनयनष्टमे नित्यमित्ययं विसेषो न स्यात् ।
सर्वत्र नित्यमेव स्यात् ।
किंच पञ्चमे षष्ठे वा वर्षे वर्तमाने कथं गर्भवर्षमष्टमं भवति ।
नह्यसत्यपूरणीयेषु पूरणत्वमुपपद्यते ।
तस्मात्सप्तमे वर्तमान एव गर्भवर्षमष्टमं भवति ।
तस्मादविवक्षितं बहुवचनम् ।
पूर्वोक्तो वा निर्वाहः ।
काम्यं तूपनयनं विध्यन्तरलभ्यम् ।
उपनयीतेति पाठः श्रुत्यनुसारेण शब्विकरणस्तु धातुः ।
राजन्यवैश्ययोः विशेषोपदेशा देव गर्भाष्टमविधेः ब्राह्मणविषयत्वे सिद्धे ब्राह्मणविधिः श्रुत्यनुवाद एव ।
पुनरुपनयीतेत्यनुच्यमाने पूर्वमुपनयनग्रहणमधिकारार्थमेव स्यात्, तमर्थ न साझयेत्यस्तत्र साध्यः ॥२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १०.२
<गर्भाष्टमेषु>वर्षेष्विति शेषः ।
ऽगर्भादिस्सङ्ख्या वर्षाणाम्ऽ(गौ.ध.२७) इति गौतमवचनात् ।
गर्भशब्देन यस्मिन् गर्भो वर्धेते, तल्लक्ष्यते ।
तदष्टमं येषां जन्मादीनां सप्तानां तानि गर्भाष्टमानि वर्षाणि ।
तेषु<ब्राह्मणमुपनयीत> ।
एवं यद्यति जन्मादिसप्तस्वप्युपनयनं प्राप्तं,तथापि जन्मादिषु त्रिषु चौलान्तैः गर्भसंस्कारैरवरुद्धत्वान्न क्रियते ।
चतुर्थेऽपि नैव॑कुमारस्य व्रतीचरणा सामर्थ्यात्
अतोऽत्रोपादेयगता बहुत्वसङ्ख्या कपिञ्जलन्यायेन गर्भादारभ्य षष्ठसप्तमाष्टमेषु त्रिष्वेवावतिष्ठते, सामर्थ्यात्प्रयोगभेदेन ।
ननूत्तरत्रऽराजन्यंऽऽवैश्यऽमिति विशेषोपादानादेव गर्भाष्टमविधिर्ब्रअह्मण स्यैवेत्यर्थसिद्धत्वात्ब्राह्मणमिति न वक्तव्यम् ।
तथोपनयनं व्याख्यास्याम इति मकृतत्वादुपनयीतेत्यपि ।
मैवम्॑ुपनयनं श्रौतमिति ज्ञापयितुम् ।
ऽअष्टवर्ष ब्राह्मणमुपनयीतऽइत्येत च्छ्रुत्यनुकारित्वात् ।
केचित्गर्भाष्टम एव वर्षे, न तु षष्ठसप्तमयोः तयोर्र्गभाष्टमत्वाभावादिति ।
तन्न॑बहुवचनानर्थक्यात् ॥२॥
गर्भैकादशेषु राजन्यं गर्भद्वादशेषु वैश्यम् ॥ आपस्तम्बगृह्यसूत्र १०.३ ॥
वसन्तो ग्रीष्मश्शरदित्यृतवो वर्णानुपूर्व्येण ॥ आपस्तम्बगृह्यसूत्र १०.४ ॥
टीकाः
अनुकूलावृत्ति १०.४
उदगयने वसन्तनियमः ब्राह्मणस्य ।
क्षत्रियस्यापवादो नियमो वा ।
वैश्यापवादः पूर्वपक्षादयस्तु स्थिता एव ।
वर्षाण्यृतनश्च विधीयन्ते इह सामयाचारिकेषु च ।
तत्र सामयाचारिकेषु विधानं सर्वचरणार्थम् ।
इह विधानं वर्णनियमार्थम् ।
शास्त्रान्तरदृष्टानां कालान्तराणामिहप्रवृत्तिर्मा भूदित्येवं ब्रुवन्नेतत्ज्ञापयतिचौलादिषु शास्त्रान्तरदृष्टोऽपि कालः पक्षे भवतीति ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १०.४
उभयत्रापि कपिञ्जलन्यायेन बहुवचनस्य त्रित्वमेवार्थः ॥३॥
ऋतवो वसन्तादयस्त्रयो ब्राह्मणादिवर्णक्रमेणोपनयनस्य काला भवन्ति ।
अयं चर्तुविधिस्सामानायाविधिप्राप्तोदगयनस्य यथार्ह नियमापवादार्थः ।
पूर्वपक्षादिस्तु भवत्येव ।
धर्मशास्त्रे तुऽवसन्ते ब्राह्मणम्ऽ(आप.घ.१११९) इत्यादिःऽशिशिरे च वा सर्वान्ऽइति भरद्वाजगृह्योक्तशिशिरप्रतिषेधार्थः ।
ऽगर्भाष्टमेषु ब्राह्मणम्ऽइत्यादिस्तुऽअथ काम्यानिऽ(आप.ध.११२०) इत्यादि विधातुमनुवादः ॥४॥
२ उपनयने दिग्वपनम् ।
ब्राह्मणान्भोजयित्वाऽशिषो वाचयित्वा कुमारं भोजयित्वानुवाकस्य प्रथमेन यजुषापः संसृज्योष्णाश्शीतास्वानीयोत्तरया शिर उनत्ति ॥ आपस्तम्बगृह्यसूत्र १०.५ ॥
टीकाः
अनुकूलावृत्ति १०.५
अथोपनयनविधिःपूर्वेद्युर्नान्दीश्राद्धम् ।
ततः श्वोभूते ब्राह्मणान् भोजयित्वा तैराशिषो वाचयतिपिण्याहं स्वस्यृद्धं इति ।
ततः कुमारं भोजयेत् ।
एवमन्तं पित्रादेः कर्म ।
अथाचार्यः उष्णाश्शीताश्चापः संसृजति ।
<अनुवाकस्यो>त्तरस्य<प्रथमेन यजुषा>ऽउष्णेनवायऽ वित्येतेन ।
संसृजंश्चोष्णाश्शीतास्वानयति, न शीता उष्णासु ।
ततस्ताभिरद्भिः कुमारस्य<शिर उनत्ति>क्लेदयति<उत्तरयर्चा>ऽआप उन्दन्त्विऽत्येतया ।
उत्तरेण यजुषेत्येव सिद्धे अनुवाकस्य प्रथमेन यजुषेत्युक्तं संज्ञाकरणार्थम् ।
तेन उष्णेन वायवुदकेनेत्येष इत्यत्रानुवाकस्य ग्रहणं भवति ।
अन्यथा संशयः स्यातनुवाको मन्त्रा वेति ।
उष्णाश्शीतास्वानीयेत्येव सिद्धे संसृज्येतिवचनं सर्वार्थत्वप्रदर्शनार्थम् ।
अत्मनश्च नापितस्य च या उन्दनार्थास्ताः संसृजति तच्चान्येषां व्यक्तम्नापितं शिष्यात्शीतो ष्णाभिरह्भिरबर्थ कुर्वाणोऽक्षण्वन् कुशलीकुर्विति ॥
(आश्व.गृ.११७१६) ॥४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १०.५
ब्राह्मणान् भोजयित्वेत्यनेन यच्छ्राद्धं धर्मशास्त्रेऽशुचीन्मन्त्रवतस्सर्वकृत्येषु भोजयेत्ऽ(आप.ध.२१५११) इति विहितं, यदेव नान्दीश्राद्धमभ्युदयश्राद्धमिति प्रसिद्धं, तदेवोच्यते ।
तच्च स्मृत्यन्तरप्रसिद्धविधिना कर्तव्यम् ।
तस्य त्विह पुनः पाठः पाठक्रमेणानुष्ठानार्थः ।
अन्यथा पदार्थानां बद्धक्रमत्वाद्विवाहादिष्विवान्त एव स्यात् ।
अशीर्वचनेऽपि धर्मशास्त्रविहितेऽयमेव न्यायः
आशीर्वचनविधिश्च भाष्योक्तः ।
केचित्पूर्वेद्युर्नान्दीश्राद्धम्, आचारात्स्मृत्यन्तराच्च ।
श्वोभूते च ब्राह्मणानां भोजनं, भुक्तवद्भिरेवाशिषां वाचनार्थम् ।
सर्वकर्मणां चान्तेऽशुचीत्मन्त्रवतस्सर्वकृत्येषु भोजयेत्ऽइति वचनादिति ।
अत्र च कुमारस्य स्नवभोजनात्प्राक्ऽयज्ञोपवीतं परमं पवित्रम्ऽइत्यादिमन्त्रेण यज्ञोपवीतधारणम् ।
ऽभोजन आचमने स्वाध्याये च यज्ञोपवीती स्यात्ऽइति धर्मशास्त्रवचनात् ॥
ऽकेचित्समिदाधानात्प्रागेवेतिऽ ॥
कुमारभोजनं च विना क्षारलवणादिभिः ।
आद्यन्तयोश्च द्विराचमनम् ।
केचितेवमन्तं मातापितरौ कुरुतः, अत ऊर्ध्वमाचार्य इति ॥
<अनुवाकस्य प्रथमेन यजुषा>ऽउष्णेन वायोऽइत्यनेन<अपः>उष्णाश्शीताश्च<संसृजति> ।
संसृजंश्चो <ष्णाश्शीतास्वानयति,>न तद त्विनियमेन ।
अत्र चानुवाकग्रहणं गृह्यमन्त्रास्समाम्नाता एव न कल्पसूत्रस्था इति ज्ञापनार्थम् ।
तत्प्रयोजनं चैते ब्रह्मयज्ञादिष्वध्येतव्या इत्युक्तम् ।
ततस्ताभिरद्भिःऽआप उन्दन्तुऽइत्येतया कुमारस्य<शिर उनत्ति> ।
प्रागरभ्य प्रदक्षिण<मुपनत्ति>क्लेदयति ॥
त्रींस्त्रीन् दर्भानन्तर्धायोत्तराभिश्चतसृभिः प्रतिमन्त्रं प्रतिदिशं प्रवपति ॥ आपस्तम्बगृह्यसूत्र १०.६ ॥
टीकाः
अनुकूलावृत्ति १०.६
<प्रवपति>प्रथमं वपति वपनं प्रारभत इत्यर्थः ।
तेन पूर्व मन्त्रवद्वपनं करोत्याचार्यः पश्चान्नापित इत्युक्तं भवति ।
तत्रायं प्रयोगः कुमारस्य शिरसि प्राच्यां दिशि त्रीन् दर्भानन्तर्धायऽयेनावपऽदित्येतया प्रच्छिनत्ति क्षुरेण ।
असावित्यब्य स्थाने तस्य नाम प्थमया विभक्त्या गृह्णाति ।
यथा असावयं यज्ञदत्तशर्मा ।
एवं सर्वत्रादसः प्रयोगे नाम निर्देष्टव्यम् ।
प्रच्छिद्या<नडुहे शकृत्पिण्डे> यवमति केशान् प्रक्षिपति ।
अथाप उपस्पृश्य तथैव दक्षिण्यां दिशिऽयेन पूषेऽति ।
प्रतीच्यांऽयेन भूयःऽइति ।
उदीच्यांऽयेन पूषेऽति ।
अत्र संबुध्या नामग्रहणंतेन ते वपामि यज्ञदत्तशर्म्मन्नायुषेति ॥५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १०.६
ततोऽयेनावपत्ऽइत्यादिभिश्चतसृभिः प्रतिमन्त्रं प्रतिदिशं त्रींस्त्रीन् दर्भानन्तर्धाय केशान् प्रवपति ।
प्रशब्दात्कुशलीकरणमप्याचार्यस्यैव ।
तत्र प्रथमे मन्त्रे असावित्यस्य स्थाने विष्णुशर्मेति कुमारस्य नामग्रहणम् ।
चतुर्थे तु सम्बुध्द्या ॥६॥
वपन्तमुत्तरयानुमन्त्रयते दक्षिणतो माता ब्रह्मचारी वा ॥ आपस्तम्बगृह्यसूत्र १०.७ ।
टीकाः
अनुकूलावृत्ति १०.७
एवमार्येण प्रतिदिशं प्रवपने कृते नापितस्तस्य केशान् वपति संसृष्टाभिरेवाद्भिरबर्थ कुर्वाणः ।
तं नापितं<वपन्तमुत्तरयर्चा>ऽयत्क्षुरेणेत्येतया<नुमन्त्रयत>आचार्यः ॥६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १०.७
दक्षिणत उपविश्य कुमारस्य<माता ब्रह्मचरी वा> कश्चित्ऽयत्क्षुरेणऽइत्येतया<वपन्त>माचार्यमनुमन्त्रयते ।
कस्मादेवं सूत्रच्छेदः? उच्यते ।
अस्य कुमारस्यायुर्मा प्रमोषीरिति मध्यमपुरुषलिङ्गकेऽनुमन्त्रणे वपनव्यातृताचार्यकर्तृकत्वविरोधात् ।
मातृब्रह्म चारिव्यतिरिक्तस्य प्रकृतस्याभावात् ॥७॥
३ उप्तानां केशानामुदुम्बरमूले निधानम् ।
आनडुहे शकृत्पिण्डे यवान्निधाय तस्मिन् केशानुपयम्योत्तरयोदुम्बरमूले दर्भस्तम्बे वा निदधाति ॥ आपस्तम्बगृह्यसूत्र १०.८ ॥
टीकाः
अनुकूलावृत्ति १०.८
अथ कुमारस्य<माता ब्रह्मचारी वा> कश्चित्तस्य दक्षिणत उपविश्य कस्मिश्चित्पात्रे आनडुहं शकृत्पिण्डं कृत्वा यवाश्च तस्मिन् पिण्डं निधाय तस्मिन् केशानुपयच्छति उपगृह्णाति यथा भूमौ न पतन्ति तथा सर्वानुपयम्य ततस्तान् केशानुदुम्बरस्य वृक्षस्य मूले दर्भस्तम्बे वा निदधाति ।
<उत्तरयर्चा>ऽउप्त्वाय केशाऽनित्येतया ।
यदि माता तामन्तो मन्त्रं वाचयति ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १०.८
उपनयनस्य प्रकृतत्वान्माता ब्रह्मचारी वाऽउप्त्वाय केशान्ऽइत्येतया<आनडुहे शकृत्पिण्डे>इत्यादि यथोपदेशं करोति ।
केचिताचार्यः पूर्व वपनमारभते ।
ततो नापितस्संसृष्टाभिरेवाद्भिरवर्थ कुर्वन् केशान् प्रवपति ।
तं च वपन्तमुत्तरया आचार्योऽनुमन्त्रयते ।
दक्षिणतो मातेत्युक्तार्थमेवेति ।
तन्नैतद्वपनं नापितस्समापयतीत्यत्र वचनाभावात्, तत्कल्पनायां चानुपत्त्यभावात् ।
प्रशब्दस्य विपातस्य प्माणान्तरावगतार्तद्योतकत्वात्, उक्तसूत्रभेदेन स्ववाक्योक्तस्यैव मात्रादेरनुमन्त्रणकर्तृत्वोपपत्तेश्च ॥८॥
४ स्नातस्य कुमारस्याश्मन्यास्थापनम् ।
स्नातमग्नेरुपसमाधानाद्याज्यभागान्ते पालाशीं समिधमुत्तरयाऽधाप्योत्तरेणाग्निं दक्षिणेन पदाश्मनमास्थापयत्यातिष्ठेति ॥ आपस्तम्बगृह्यसूत्र १०.९ ॥
टीकाः
अनुकूलावृत्ति १०.९
"स्नातं कुमारं शुचिवाससंबद्धशिखं यज्ञोपवीतमासञ्जतियज्ञोपवीतं परमं पवित्रमिति ।
ततस्तं यज्ञोपवीतिनं देवयजनमुदानयती" (बौगृ.२५)ति बौधायनः ।
तस्य सर्वस्योपलक्षणं स्नातवचनम् ।
ततोऽवग्नेरुपसमाधानादि<तन्त्रं> प्रतिपद्यत आचार्यः ।
विवाहवदग्न्युत्पत्तिः ।
शम्याः परिध्यर्थे ।
सकृत्पात्रप्रयोगः ।
वासोमेखलादीनामपि सह सादनम् ।
तत<आज्यभागान्ते>कुमारं<पालाशीं>समिधमादापयति <उत्तरयर्चा>ऽआयुर्दा देवऽइत्येतया ।
कुमारो मन्त्रेण समिधमादधाति ।
तमाचार्यः प्रयुङ्क्ते मन्त्रं च वाचयति, यमिधं चाधापयति ।
देवताया अभिधेयत्वान्न मन्त्रलिङ्गविरोधः ।
अन्ये त्वाचार्यस्यैव मन्त्रप्रयोगमिच्छन्ति ।
आधाप्य समिध<मुत्तरेणाग्निं अश्मानं>प्रतिष्ठितमनेना<स्थापयति दक्षिणेन पदाऽ>आतिष्ठेमऽमिति मन्त्रेण ।
अयं मन्त्र आटार्यस्यैव, कुमारस्याभिधेयत्वात् ।
तेनाचार्यो मन्त्रमुक्तत्वा धत्रिणं पादं हस्ताभ्यां गृहीत्वाश्मनि निधापयति ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १०.९
अथाग्<नेरुपसमाधानादि>तन्त्रं प्रतिपद्यते ।
पात्रसादनकाले अश्मवासोमेखलाजिनदण्डकुशकूर्चाश्च सहैव सादयति ।
केचित्दर्व्यादीन्यपि सहैवेति ।
<आज्यभागान्ते कृते स्नातं>कुमारंऽआयुर्दा देवऽइत्येतया<पालाशींव समिधं>हस्ते गृहीत्वाऽदा पयति ।
मन्त्रान्ते चाधेहीति ब्रूयात् ।
आधापनमन्त्रश्चायम् ।
केचिताधानमनत्रं वाचयीताचार्य इति ।
तेषांऽजरसे नयेमम्ऽइति मन्त्रालिङ्गविरोधः ।
अथाधापनार्थे मन्त्रे अश्मास्थापनमन्त्रवत्कुमाराभिधानार्थमुच्चारणं स्यात्, न देवताभिधानार्यम्॑सकृदुच्चरितस्योभयाभिधानाशक्तिरिति चेत्, न॑ऽघृतपृष्टो अग्नेऽइतीह देवताया एवाभिधेयत्वात् ।
अत एवोक्तंऽमन्त्रमुक्त्वाऽधेहि जुहुधीति ब्रूयात्ऽइति ।
शेषं व्यक्तम् ॥९॥
५ कुमारस्य वासः परिधापनम् ।
वासःसद्यःकृत्तोतमुत्तराभ्यामभिमन्त्र्योत्तराभिस्तिसृभिः परिधाप्य परिहितमुत्तरयानुमन्त्रयते ॥ आपस्तम्बगृह्यसूत्र १०.१० ॥
टीकाः
अनुकूलावृत्ति १०.१०
एकस्मिन्नेवाहनि तन्तुक्रिया वयनाक्रिया च यस्य तत्<सद्यःकृत्तोतं> ।
एवं भूतं<वास उत्तराभ्यां> ऋग्भ्यांऽरेवतीस्त्वेऽत्येताभ्यां अभिमन्त्रयेत ।
ततस्त<दुत्तराभिस्तिसृभिः>ऽया अकृन्तऽन्नित्येताभिः परिधापयति ।
आचार्यस्यैव मन्त्राः ।
वचनादेकमिति तिसृणामन्ते परिधापनम् ।
ततः तं परिहितवन्तं कुमारं आचार्यः<उत्तरयाऽ> <परीदं> वासऽइत्येतयाअनुमन्त्रयते ॥९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १०.१०
<वासः> यच्छाण्यादि धर्मशास्त्रे विहितं<तत्सद्यःकृत्तोतं>सद्य एव छिन्नोतं, नान्यस्मिन्नहनि प्रसस्तेऽपि ।
केचितेकस्मिन्ने वाहनि तन्तुक्रिया वयनक्रिया च यस्य, तत्सद्यःकृत्तोतमिति ।
एवंभूतंऽरेवतीस्त्वाऽइति द्वाभ्यामभिमन्त्र्यऽया अकृन्तन्ऽइत्येताभिस्तिसृभिः प्<अरिधाप्य परिहितं>कुमारंऽपरीदं वासःऽइत्यनया<नुमन्त्रयते> ॥१०॥
६ मौञ्ज्यजिनधारणम् ।
मौञ्जीं मेखलां त्रिवृतां त्रिः प्रदक्षिणमुत्तराभ्यां परिवीयाजिनमुत्तरमुत्तरया ॥ आपस्तम्बगृह्यसूत्र १०.११ ॥
टीकाः
अनुकूलावृत्ति १०.११
अथ<मेखला>मुत्तराभ्यामृग्भ्यांऽइयं दुरुक्ताऽदित्येताभ्यां त्रिः प्रदक्षिणं परिव्ययति कुमारम् ।
स्वयमेव मन्त्रमुक्त्वा तं वाचयत्याचार्यः ।
मन्त्रलिङ्गात्त्रिवृत्मेखला<मौञ्जी>मुञ्जतृणैः कल्पिता ।
<त्रिवृत्>त्रिगुणा ।
त्रिवृतामिति छान्दसो दीर्घपाठः ।
ततोऽ<जिनमुत्तरं>वास करोति<उत्तरयर्चा ।>
मित्रस्य चक्षुरित्येतया स्वयमेव मन्त्रमुक्त्वा ।
सामयाचारिकेषु वर्णविशिष्टा मेखलाविशेषा श्चोदिताः ।
इदं तु सर्ववर्णानां मौञ्जीप्राप्त्यर्थ वचनम् ।
अजिनविशेषास्तु सामयाचीरिका इहापि प्रत्येतव्याःऽकृष्णं ब्राह्मणस्येऽत्यादयः
________________________
गृह्यतात्पर्यदर्शनव्याख्या १०.११
<मौञ्जीं>मुञ्जैः कल्पिताम् ।
त्रिवृतां त्रिवृतम् ।
दीर्घश्छान्दसः ।
<मेखलांऽ> <इयं दुरुक्तात्ऽ> <इत्ये>ताभ्यां<त्रिः प्रदक्षिणं परिव्ययति ।>
त्रिवृतामिति चऽशक्तिविषये दक्षिणावृत्तानाम् ।
ज्या राजन्यस्यऽ(आप.ध.१२३३,३४) इत्यादीनां प्रदर्शनार्थम् ।
<अजिनं>ऽकृष्णं ब्राह्मणस्यऽ(आप.ध.१३३) इत्यादि धर्मशास्त्रे विहितमुत्तरं वासः करोतिऽमित्रस्य चक्षुःऽइत्येतया ॥११॥
७ कुमारस्य देवताभ्यः परिदानम्, उपनयनञ्च ।
उत्तरेणाग्निं दर्भान् संस्तीर्य तेष्वेनमुत्तरयावस्थाप्योदकाञ्जलिमस्मा अञ्जलावानीयोत्तरया त्रिः प्रोक्ष्योत्तरैर्दक्षिणे हस्ते गृहीत्वोत्तरैर्देवताभ्यः परीदायोत्तरेण यजुषोपनीयऽसुप्रजाऽइति दक्षिणे कर्णे जपति ॥ आपस्तम्बगृह्यसूत्र १०.१२ ॥
टीकाः
अनुकूलावृत्ति १०.१२
अथाचार्यः<उत्तरेणाग्निं दर्भार्न्त्सस्तीर्य तेष्वेनं>कुमारं<उत्तरया>ऽआगन्त्रा समगन्महीऽत्येतयावस्थापयति ।
कुमारस्य मन्त्रः आचार्यो वाचयति ।
<अवस्थाप्य>स्वयं पश्चात्भूमाववस्थाय स्वमञ्जलिमुदकेन पूरयित्वा तम्जलिमस्मै कुमाराय प्रतिमुखं दर्भेष्ववस्थिताय प्रोक्षणार्थमानयति तस्याञ्जलौ ।
अस्मा इति चतुर्थीनिर्देशात्कुमारार्थोऽयमुदकाञ्जलिः ।
तेन प्रोक्षणस्य कुमारः कर्ता भवति ।
आनीय ततः प्रोक्षणं प्रयोजयत्या चार्यः ।
उ<त्तरयर्चा>ऽसमुद्रादूर्मिऽरित्येतया ।
कुमारस्य मन्त्रः ।
आचार्यो वाचयति ।
ऽ(त्रिः प्रोक्षयति ।
सकृत्मन्त्रेण द्विस्तूष्णीम् ।
सव्येन धारणमुदकस्य, दक्षिणेन प्रोक्ष्णम् ।
प्रोक्ष्येत्यत्र णिचो लोपो द्रष्टव्यंः) अथ कुमारस्य हस्तं गृह्णाति <उत्तरौर्दशभिर्मन्त्रौःऽ>अग्निष्टे हस्तमग्रमीऽदित्यादिभिः ।
प्रतिमन्त्रं ग्रहणावृत्तिः ।
तत<उत्तरै> रेकादशभिःऽअग्नये त्वा परिददामीऽत्यादिभिः तं देवताभ्यः<परिददाति> ।
सर्वेष्वसौशब्देषु नामग्रहणं संबुध्या ।
परिदाय<तमुत्तरेण यजुषा>ऽदेवस्य त्वा सवितुःऽ<इ>त्येतेनौपनयते विद्यानुष्ठानार्थ आचार्यः स्वकुलं प्रापयतीत्यर्थः ।
यजुरुच्चारणमेव तत्र व्यापारः, नान्यः कश्चित् ।
नामग्रहणं च संबुध्या ।
केचितसावित्यन्तोदातस्य पाठाताचार्यस्य नाम प्रथमया निर्देश्यं मन्यन्ते ।
एतत्सम्बन्धात्समस्तमेव कर्मोपनयनं, यथा पशुबन्ध इति ।
उपनीय<सुप्रजा इति दक्षिणे कर्णे जपति>ऽसुपोषः पोषैऽरित्येवमन्तो जपः ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या १०.१२
<उत्तरया>ऽआगन्त्रा समगन्महिऽइत्येतया ।
अस्मा इति चतुर्थी षष्षठ्यर्थे ।
<उत्तरया>ऽसमुद्रादूर्मिःऽइत्येतया त्रिः<प्रोक्षति> ।
सकृन्मन्त्रेण, द्विस्तूष्णीम् ।
<उत्तरैः>ऽअग्निष्टे हस्तमग्रभीत्ऽइत्यादिभिर्दशभिर्मन्त्रैः ।
सर्वेषां चान्ते सकृद्धस्तग्रहणम् ।
<उत्तराःऽ> <अग्नयेत्वा> परिददामिऽइत्येकादशभिः प्रतिमन्त्रं<देवताभ्यो>मन्६ इङ्गप्रतीताभ्यः<परिददाति>रक्षणार्थम् ।
ततश्च यदि सकृत्परिदानं स्यात्तदा विध्यपराधात्सर्वप्रायश्चित्तं होतव्यम् ।
असौशब्देषु च सर्वेषु सम्बुद्ध्या नामग्रहणम् ।
<उत्तरेण यजुषा>ऽदेवस्य त्वा सवितुःऽइत्यनेन <उपनयते>आत्मनस्समीपं नयति ।
नामग्रहणं च सम्बुद्ध्यैव ।
केचित्कुमारस्स्वाञ्जलावाचार्येणानीतमुदकं सव्ये हस्ते धारयन्, दक्षिणेन हस्तेनात्मानं त्रिः प्रोक्षति ।
आचार्यस्तु प्रोक्षयति ।
णिचश्च लोपो द्रष्टव्यः ।
हस्तग्रहणं च प्रतिमन्६ इत्यनेककल्पनासापेक्षं व्याचक्षते ॥१२॥
इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने दशमः खण्डः ॥
एकादशः खण्डः ।
८ आचार्यकुमारयोः प्रश्नप्रतिवचने ।
ऽब्रह्मचर्यमागाऽमिति कुमार आह ॥ आपस्तम्बगृह्यसूत्र ११.१ ॥
टीकाः
अनुकूलावृत्ति ११.१
सवित्रा प्रसूत इत्येवमन्तो मन्त्रः आहेति वचनं उच्चैः प्रयोगार्थम् ॥१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.१
व्यक्तम् ॥१॥
प्रष्टं परस्य प्रतिवचनं कुमारस्य ॥ आपस्तम्बगृह्यसूत्र ११.२ ॥
टीकाः
अनुकूलावृत्ति ११.२
ऽको नामासीऽत्येवमादयः चत्वारो मन्त्राः पृष्टप्रतिवचनार्थाः ।
तत्र यत्र पृष्टं तत आरभ्य कर्म्चार्स्येत्यर्थः ।
प्रष्टमिति संप्रसा रणाभावश्छान्दसः, अपपाठो वा ।
यत्प्रतिवचनं तत्कुमारस्य ।
असौशब्देषु नाम निर्दिशति कुमारः प्रथमया ।
आचार्यः संबुध्या कुमारस्य नाम ।
तत्र को नामासीत्याचार्यः ।
यज्ञशर्मनामास्मीति कुमारः ।
कस्य ब्रह्मचार्यसि श्रीयज्ञशर्मनित्याचार्यः, प्राणस्य ब्रह्मचार्यस्मि यज्ञशर्मेति कुमारः ।
आहेत्यनुवृत्तेरुच्चैः प्रयोगः ॥२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.२
<प्रष्टं> प्रश्न इत्यर्थः ।
रूपं तु छान्दसम् ।
ऽको नामासीऽत्यादिषु प्रश्नप्रतिवचनार्थेषु चतुर्षु मन्त्रेषु प्रष्टं परस्याचार्यस्य, प्रतिवचनं तु कुमारस्य ।
ततश्चैवं प्रयोगःऽको नामासि?इत्याचार्यः पृच्छति ।
विष्णुशर्मा नामासिऽइति कुमारः प्रतिब्रूयात् ।
तथा
ऽकस्य ब्रह्मचार्यसि विष्णुशर्मन्?ऽइत्याचार्यः ।
ऽप्राणस्य ब्रह्मचार्यस्मिऽइति कुमारः ॥२॥
शेषं परो जपति ॥ आपस्तम्बगृह्यसूत्र ११.३ ॥
टीकाः
अनुकूलावृत्ति ११.३
पृष्टप्रतिवचनादूर्ध्व अनुवाकस्य<यश्शेषः>तंऽएष ते द्व सूर्येऽत्यादिकं पर आचार्यो जपति ॥३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.३
शेषमनुवाकशेषैकदेशंऽविष्णुशर्मैष ते देवऽइत्यादिऽअनुसञ्चर विष्णुशर्मन्ऽइत्येवमन्तमाचार्यो जपति ।
ऽअध्वनामध्व पतेऽइत्यस्य प्रत्यगाशिषो वाचनविधानात् ॥३॥
९ प्रत्यगाशिषां मन्त्राणां कुमारेण वाचनम् ।
प्रत्यगाशिषं चैनं वाचयति ॥ आपस्तम्बगृह्यसूत्र ११.४ ॥
टीकाः
अनुकूलावृत्ति ११.४
तत्रैव शेषे या<प्रत्यगाशीः>ऽअध्वनामध्वपतऽऽइत्येवमाद्याऽतामेनं कुमारंवाचयति ॥४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.४
आत्मगाम्याशीःफलं यस्मिन्मन्त्रे स<प्रत्यगाशीः> ।
जात्यभिप्रायमेकवचनम् ।
अध्वनामित्यारभ्य आ उपनयनसमाप्तेर्ये प्रत्यगाशिषो मन्त्राःऽयोगेऽइत्यादयः, तान् सर्वान् कुमारं<वाचयति> ॥४॥
१० उपनयनप्रधानहोमाः जयादयश्च ।
उक्तमाज्यभागान्तम् ॥ आपस्तम्बगृह्यसूत्र ११.५ ॥
अत्रैनमुत्तरा आहुतीर्हअवयित्वा जयादि प्रतिपद्यते ॥ आपस्तम्बगृह्यसूत्र ११.६ ॥
टीकाः
अनुकूलावृत्ति ११.६
<आज्यभागान्तं>तन्त्रं प्रागेवोक्तम् ।
अत्रेदानीमेनं कुमारं<उत्तरा>एकादश प्रधानाहुती<र्हअवयति>ऽयोगे योगेऽइत्येवमाद्याः ।
उत्तरैर्मन्त्रैः कुमारो जुहोति ।
तमाचार्यः प्रयुङ्के मन्त्रवाचनेन ।
द्वितीयचतुर्थयोरपि मन्त्रयोः कुमार एव वक्ता, देवताभिधानार्तत्वात् ।
अपर आहलिङ्गविरोधादाचार्यो वक्ता कुमारस्तु होतेति ।
प्रधानहोमेषु हावयित्वेति वचनातुपहोमेष्वाचार्य एव कर्ता ॥५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.६
इदमनुवादमात्रं मा भूदिति साध्याहारं व्याख्यायते ।
न केवलमध्वनामित्यारभ्य प्रत्यगाशिषो मन्त्रान् वाचयति ।
आज्यभा गान्तमुक्त्वा ये पश्चात्प्रत्यगाशिषो मन्त्राः मेखलापरिव्ययणादिषूक्ताःऽइयं दुरुक्तात्ऽइत्याद्यास्तानपि स्वयमुक्तवा वाचयति ।
उक्तमिति जात्यभिप्रायम् ।
इदं त्विह वक्तव्यं यासु मेखलापरिव्ययणादिषु कुमारप्रधानासु संस्कारक्रियासु ये प्रत्यगाशिषो मन्त्राः, तच्चोदकैराख्यातैः करणत्वेन चोदिताः क्रियाः तैर्मन्त्रैः कृत्वा पश्चाद्वाचयति ।
स्वतः करणमन्त्राणां क्रियागुणभूतैः कर्तभिरेवोच्चर्यत्वात् ।
कुमारस्य चात्र संस्कार्यत्वेन प्राधान्यात् ।
यत्र पुनर्होमादिषु गुणभाव एव, न संस्कार्यत्वं, तत्र तान् प्रत्यगाशिषो वाचयत्येव ।
केचित्परिव्ययणादिष्वपि कुमारस्यैव मन्त्रः, परस्तु वाचयत्येवेति ॥५॥
अत्र अस्मिन् क्रमे, न तुऽयथोपदेशं प्रधानाहुतीःऽइति सामान्यवचनादाज्यभागानन्तरमेव ।
<एनं>कुमारम् ।
<उत्तराः>ऽयोगे योगेऽ इत्येकादर्शचः प्रत्यगाशिषो वाचयन् हस्ते गृहीत्वा प्रतिमन्त्रं<हावयति> ।
तत्र द्वितीयचतुर्थौऽइममग्न आयुषेऽऽअग्निष्ट आयुः प्रतराम्ऽइति लिङ्गविरोधात्ऽआयुर्दा देव जरसम्ऽइतिवत्स्वयमेव ब्रूयात्, नैनं वाचयति ।
केचितेतयोरपि द्वताभिधानार्थत्वात्कुमारस्यैवोच्चारणमिति ।
ततोऽजयाभ्यातानान् राष्ट्रभृतऽइति सामान्यविधिप्रसिद्धमेवाचार्यो <जयदि प्रतिपद्यते> ।
ततश्च अग्निर्भूतानामधिपरिस्समावतुऽइत्यादीनां प्रत्यगाशिषामपि वाचनं न भवति ।
नैव च हावनम् ॥६॥
११ उपनेतुः कूर्च उपवेशः ।
परिषेचनान्तं कृत्वापरेणाग्निमुदगग्रं कूर्च निधाय तस्मिन्नुत्तरेण यजुषोपनेतोपविशति ॥ आपस्तम्बगृह्यसूत्र ११.७ ॥
टीकाः
अनुकूलावृत्ति ११.७
<उत्तरेण यजुषा>राष्ट्रभृदसीत्येन ।
परिषेचनान्तवचनमानन्तर्यार्थम् ।
केचित्सावित्रं नाम व्रतमस्मिन् काल उपाकुर्वन्ति केचित्त्रिरात्रान्ते सावित्रीमनुब्रुवते ।
तदुभयमप्यनिष्टमाचार्यस्य ।
निधायेति वचनादाचार्य एव निधाने कर्ता, न माणवकः ।
अधिकारादेव सिद्धे उपनेतेति वचनमुत्तरार्थम् ।
पुरस्तात्प्रत्यङ्ङासीन इत्यत्र उपनेतुः पुरस्तात्यथा स्यातग्नेः पिरस्तात्मा भूतिति ।
तथा दक्षिणेन पाणिना दक्षिणं पादमित्यत्रोपनेतुः पादो न माणवकस्य ॥६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.७
<कूर्च>दर्भमयामासनम् ।
उत्तरेण यजुषाऽराष्ट्रभृदसिऽइत्यनेन ।
<उपनेता>आचार्यः ।
शेषं व्यक्तम् ॥७॥
१२ गायत्र्युपदेशार्थ कुमारेणाचार्यप्रार्थनम् ।
पुरस्तात्प्रत्यङ्ङासीनः कुमारो दक्षिणेन पाणिना दक्षिणं पादमन्वारभ्याहऽसावित्रीं भो अनुब्रूहिऽइति ॥ आपस्तम्बगृह्यसूत्र ११.८ ॥
टीकाः
अनुकूलावृत्ति ११.८
दर्भेष्वासीन इति गृह्मान्तरे ।
दक्षिणेनेति वचनमुभाभ्यामेवोभावित्ययं पक्षोऽत्र मा भूदिति ।
तेन सकुष्ठिकमुपसंगृह्णीया दित्ययं विशेषः प्रवर्तते ॥७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.८
उपनेतुः<पुरस्तात्प्रयङ्मुखः> <आसीनः कुमारो दक्षिणेन पाणिना>उपनेतुर्दक्षिणं<पादं अन्वारभ्य>उपसंगृह्यऽ<सावित्रीं भो ।>
<अनुब्रूहिऽ>इति प्रार्थयते ॥८॥
१३ गायत्र्युपदेशः
तस्मा अन्वाहऽतत्सवितुऽरिति ॥ आपस्तम्बगृह्यसूत्र ११.९ ॥
पच्छोर्र्ऽधचशस्ततस्सर्वाम् ॥ आपस्तम्बगृह्यसूत्र ११.१० ॥
टीकाः
अनुकूलावृत्ति ११.१०
<तस्मा>इति वचनात्कुमारस्य ग्रहणार्थमनुवचनम् ।
तेन त्रिष्वपि वचनेषु कुमारस्यानुग्रहणं भवति ।
अनुशब्दोऽनुग्रह द्योतनार्थः ।
अनुग्रहेणाह<अन्वाहेति> ।
तेन यद्यसमर्थः कुमारः तावत्वक्तुं ततो यथाशक्ति वाचयति ।
स्वयं विधिवत्पूर्वमुक्त्वा प्रथमं पच्छः पादेपादेऽवसानम् ।
द्वितीयमर्र्धचशः, ततस्सर्वामन्वाहेति ।
उत्तरमिति वक्तव्यं तत्सवितुरिति निर्देशः सावित्रीप्रदेशोषु सावित्र्या समित्सहस्रमादध्या(आप.ध.१२७१)दित्यादिषु अस्या एव ग्रहणं यथा स्यात् ।
यस्याः कस्याश्चित्सवितृदेवत्याया मा भूदित्येवमर्थम् ।
तत इति वचनादेतावदेवास्मिन्नहन्यनुवचनम् ।
एतैर्वचनैरग्रहणे कालान्तरेऽध्यापनम् ॥८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.१०
<तस्मै>कुमाराय ग्रहणार्थऽतत्सवितुर्वरेण्यम्ऽइत्येतामृचमाचार्योऽन्वाह ।
तत्रच सवितृदेवत्यामृचमनुब्रूहीत्यविशेषेण प्रार्थना यां कृतायामपि योयंऽतत्सवितुरित्यन्वाहऽइति नियमः स ज्ञापयतिधेनुपङ्कजादिशब्दवत्सावित्रीशब्दस्य यौगिकस्यापिऽतत्सवितुर्वरेण्यम्ऽ इत्यस्यामेव प्रयोगो नियतः, न तुऽआसत्येन रजसाऽइत्यादिष्वपीति ।
ततश्च धर्मशास्त्रेऽसावित्रीं प्राणायामशःऽ(आप.घ.१२६१५) सावित्र्या समित्सहस्रमादध्यात्ऽ(आप.ध.१२७१) इत्यादिष्वस्या एवर्चस्सम्प्रत्ययो नान्यस्या अपीति ॥९॥
खथमन्वाह? इत्यत्राह
<पच्छः>पादे पादे अवसाय ।
<अर्र्धचशः>अर्र्धचे अवसाय ।
ततः सर्वा समस्तां अनवसानामित्यर्थः ।
अत्र च सर्वानुवचनस्यादृष्टार्थत्वात्, ग्रहीतुमसमर्थस्यामि कुमारस्य सर्वा निगद्यते ॥१०॥
अथ तस्मिन्नेवानुवचने विशेषमाह
व्याहृतीर्विहृताः पादादिष्वन्तेषु वा तथार्र्धचयोरुत्तमां कृत्स्नायाम् ॥ आपस्तम्बगृह्यसूत्र ११.११ ॥
टीकाः
अनुकूलावृत्ति ११.११
तत्रावानुवचने विशेषः प्रथमे वचने पादानां त्रयाणां आदिष्वन्तेषु वा तिस्त्रो व्याहृतयः क्रमेण वक्तव्याः ॥९॥
द्वितीय वचने अर्र्धचयोरादितः अन्ततो वा द्वे व्याहृती क्रमेण वक्तव्ये ।
तत उत्तमा शिष्यते सुवरिति ।
ता<मुत्तमां कृत्सनायां> वचनेऽनुब्रूयादिति ।
तत्र प्रयोगः प्रणवोऽग्रे वक्तव्यः ।
"ओंकारः स्वगीद्वारम्, तस्मात्ब्रह्माध्येष्यमाणःऽ(आपध११३६) इति वचनात् ।
ओंभूः तत्सवितुर्वरेण्यम् ।
ओंभुवः भर्गो देवस्य धीमहि ।
ओंसुवः धियो यो नः प्रचोदयात् ।
ओंभूः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
ओंभुवः धियो यो नः प्रचोदयात् ।
ओंसिवः तत्सवितुर्वेण्यं भर्गो देवस्य धामहि धियो यो नः प्रचोदयात् ॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.११
<विहृताः व्याहृतीः>त्रिष्वपि पादादिष्वेकैकामन्वाह ।
अथवा पादानामन्तेषु ।
तथार्र्धचेऽवसाय प्रयोगेऽपि प्रत्यर्र्धचमादावन्ते वैवैकामन्वाह ।
अविशिष्टां<तूत्तमां>व्याहृतिं कृत्स्नाया मादावन्तेवा ।
<कृत्स्नायामिति>षष्ठ्यार्थपाठः ।
प्रयोगस्तुप्रथमं प्रणवमन्वाह॑ोमिति ब्राह्मणः प्रवक्ष्यन्नाह (तै.उ१८) इति श्रुतेः,ऽओंकारस्स्वर्गद्वारं तस्माद्ब्रह्माध्येष्यमाण एतदादि प्रतिपद्येतऽ(१.१३६) इति धर्मशास्त्रवचनाच्च ।
ओं भूः तत्सवितुर्वरेण्यम् ।
ओं भूः भर्गो देवस्य धीमहि ।
ओंसुवः धियो यो नः प्रचोदयात् ॥
ओंभुवः तत्सविदुर्वरेण्यं भर्गो देवस्य धीमहि ।
ओंभुवः धियो यो नः प्रचोदयात् ॥
ओंसुवः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धियो यो नः प्रचोदयात्ऽ ।
अन्तेषु वेति पक्षे प्रयोगःऽओं तत्सवितुर्वरेण्यं भूः ।
ओं भर्गो देवस्य धीमहि भुवः ।
ओं धियो यो नः प्रचोदयात्सुवः ॥
ओं तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि भूः ।
ओंधियो यो नः प्रचोदयात्भुवः ॥
ओंतत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्सुवःऽइति ॥११॥
कुमार उत्तरेण मन्त्रेणोत्तरमोष्ठमुपस्पृशते ॥ आपस्तम्बगृह्यसूत्र ११.१२ ॥
टीकाः
अनुकूलावृत्ति ११.१२
अथ तत्रैवासीनः<कुमारः>उत्तरेण मन्त्रेणऽवृधमसौ सोभ्येऽत्यनेन स्वय<मुत्तरमोष्ठमुपस्पृशते ।
>अप उपस्पृशति ।
ओष्ठयो र्द्वित्वातुत्तरमिति विशेषणम् ।
मन्त्रग्रहणमुत्तरशब्दस्य दिग्वाचिताशङ्का मा भूदित्येवमर्थम् ।
मन्त्रे असावित्यनेन प्राणोऽभिधीयते नाचार्यो नापि माणवकः ।
तेन नामनिर्देशो न कर्त्तव्यः ॥११॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.१२
आचार्यवाचितेनऽअवृधमसौ सौम्यऽइत्यनेन<मन्त्रेण कुमारः स्वीयत्तमोष्ठ>मुपस्पृशति ।
छान्दसमात्मनेपदम् ।
असावि त्यत्र च नास्ति नामग्रहणम्, प्राणाभिधानत्वात् ।
ऽश्यावान्तपर्यन्तावोष्ठावुपस्पृश्याचामेत्ऽ(आप.ध.११६१०.) इति वचनात्
आचमनं तु कर्तव्यम् ॥१२॥
कर्णावुत्तरेण ॥ आपस्तम्बगृह्यसूत्र ११.१३ ॥
टीकाः
अनुकूलावृत्ति ११.१३
<उत्तरेण>मन्त्रेण"ब्रह्मण आणी स्थ"इत्यनेन ।
सकृन्मन्त्रः ।
कर्णाविति द्विवचनयोगात्क्रमेणोपस्पर्शनम् ॥१२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.१३
स एव युगपद्धस्तद्वयेन स्वीयौ <कर्णौ>स्पृशति ।
<उत्तरेण>ऽब्रह्मण आणी स्थःऽइति द्विवचनलिङ्गेन ॥१३॥
१४ दण्डग्रहणम् ।
दण्डमुत्तरेणाऽदत्ते ॥ आपस्तम्बगृह्यसूत्र ११.१४ ॥
टीकाः
अनुकूलावृत्ति ११.१४
<उत्तरेण> मन्त्रेणऽसुश्रवस्सुश्रवसऽमित्यनेन ॥१३॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.१४
<उत्तरेण>ऽसुश्रवःऽइत्यनेन ॥१४॥
अथ वर्णक्रमेण त्रिभिस्सूत्रैर्दण्डानां गुणविधिमाह
१५ वर्णविशेषपुरस्कारेण दण्डविशेषविधानम् ।
पालाशो दण्डो ब्राह्मणस्य नैय्यग्रोधस्स्कन्धजोऽवाङ्ग्रो राजन्यस्य बादर औदुम्बरो वा वैश्यस्य ॥ आपस्तम्बगृह्यसूत्र ११.१५ ॥
टीकाः
अनुकूलावृत्ति ११.१५
राजन्यवैश्ययोः विशेषविधानादेव सिद्धे ब्राह्मणग्रहणं अयमपि विधिर्र्वणसंयुक्तौ यथा स्यादिति ।
तेनऽवार्क्षो दण्डऽइत्ययं विकल्पो ब्राह्मणस्यापि भवति ।
इतरथा राजन्यवैश्ययोरेव स्यात्तयोरेव वर्णसंयुक्तं विधानमिति कृत्वा ॥१४॥
न्यग्रोधस्य विकारो <नैय्यग्रोधः ।
>स्कन्धे जातः<स्कन्धजः> ।
अवाचीनाग्रः<अवाङग्रः> ।
ङ्कारपाठश्छान्दसः ॥१५॥
बदर्या विकारो <बादरः>वृक्षप्रकरमातुदुम्बरो वृक्षः, न ताम्रम् ॥१६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.१५
<पालाशः>पलाशवृक्षस्य विकारः ।
एवमुत्तरेष्वपि विग्रहः ।
स्कन्धे जातः<स्कन्धजः ।
अवाङ्ग्रः>अवाचीनमग्रं यस्य दण्डस्य ॥१५॥
वार्क्षो दण्ड इत्यवर्णसंयोगेनैक उपदिशन्ति ॥ आपस्तम्बगृह्यसूत्र ११.१६ ॥
टीकाः
अनुकूलावृत्ति ११.१६
वृक्षस्य विकारो <वार्क्षः ।>
यज्ञियस्य वृक्षस्य इति कल्पान्तरे ।
पूर्वो विधिर्र्वणसंयुक्तः, अयं तु सर्वसाधारणो न केनचित्
वर्णविशेषेण संयुज्यते ।
अत्र च सामयाचारिक एव दण्डविधिस्सर्वचरणार्थः सन्निहानूद्यते नैय्यग्रोधादिषु मन्त्रप्रापणार्थम् ।
अन्यथा पालाशस्यैव मन्त्रेणादानं स्यात्तूष्णीमन्येषाम् ।
ऽसुश्रवःऽइत्यस्य पालाशाभिधानत्वात् ।
"देवा वै ब्रह्मन्नवदन्त तत्पर्ण उपाशृणोत्सुश्रवा वै नामेति"(तै.सं.३५७) वार्क्षो दण्ड इत्वेतावतैव सिद्धे अवर्णसंयोगेनेति वचने कल्पान्तरयोरसंभेददर्शनार्थम्यदि वर्णसंयुक्तः कल्पः प्रक्रान्तः स एवासमावर्तनात्कर्तव्य इति ॥१७॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.१६
<वार्क्षः>वृक्षस्य माज्ञियस्य विकारः, न तु वेणुवेत्रादेः ।
<अवर्णसंयोगेन>सर्ववर्णानामविशेषेणेत्योक<उपदिशन्ति> ।
अत्र यद्यपिऽतत्पर्ण उपाश्रृणोत्सुश्रवा वै नामऽ(तै.सं.३५७) इत्यर्थवादेन मन्त्रस्थसुश्रवश्शब्दस्य पालाशाभिधानलिङ्गत्वातनेन मन्त्रेण नैय्यग्रोधादिदण्डानामप्युपादने लिङ्गविरोधः तथापिऽदण्डमुत्तरेणादत्तेऽइति श्रुतिप्राबल्यात्लिङ्गं बाधित्वानेनैव सर्वदण्डानामुपादानम् ।
धर्मशास्त्रेऽपालासो दण्डो ब्राह्मणस्यऽ(आप.ध.१.२.३८)इत्यादि पुनर्विधानं चऽत्रैविद्यकं ब्रह्मचर्य चरेत्ऽ (आप.ध.१.१.२८) इत्युपनयनकालातिपत्तिप्रायश्चित्तानुष्ठानेऽपि तत्तद्वर्णेन तत्तद्दण्डधारणार्थम् ।
केचित्तत्रैव सर्वचरणार्थ विहितानां दण्डानां गृह्येऽनुवादः सर्वेषामुपादानेऽपि श्रुत्यैतन्मन्त्रविधानार्थ इति ॥१६॥
१६ स्मृतवाचनादि, आदित्योपस्थानं च ।
स्मृतं च म इत्येतद्वाचयित्वा गुरवे वरं दत्वोदायुषेत्युत्थाप्योत्तरैरादित्यमुपतिष्ठते ॥ आपस्तम्बगृह्यसूत्र ११.१७ ॥
टीकाः
अनुकूलावृत्ति ११.१७
अथ दण्डमादाय तत्रैवासीनः कुमारः<स्मृतञ्च म इत्येतत्>व्रतसंकीर्तनमाह ।
ततो <गुरवे वरं> ददाति ।
तत<उदायुषेति> मन्त्रेणोत्तिष्ठेत्<उत्तरैर्मन्त्रैरादित्यमुपतिष्ठतेऽ>तच्छक्षुऽरित्यादिभिःऽसूर्य दृशेऽइत्यवमन्तैः ।
व्रतसंकीर्तनादि पदार्थचतुष्टयस्य कुमार एव कर्ता ।
हेत्वभिधानं तूभयत्राविवक्षितंवाचयित्वोत्थाप्येति च ।
विवक्षिते तु तस्मिन् वरदाने उपस्थाने चाऽचार्य एव कर्ता स्यात् ।
तस्मादर्थप्राप्तस्य हेतुव्यापारस्यानुवादः ॥१८॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.१७
अथाचार्यःऽस्मतं च मेऽइत्येतन्मन्त्रजातं कुमारं वाचयति ।
तत्राष्टौ मन्त्रास्समानोदर्कअश्शेषो नवमः ।
तेषां प्रत्यगाशिष्ट्वादेव वाचने प्राप्ते वाचयित्वेति पुनर्वचनं वाचनवरदानयोः नैरन्तर्यार्थम् ।
अथ<गुरवे> आचार्याय कुमारो वरं गांऽगुरो!वरं ते ददामिऽइति ददाति ।
अग्न्याधानेऽगौर्वै वरःऽ(आप.श्रौ.४११४) इत्युक्तत्वात् ।
आचार्यस्तु सप्तदशकृत्वोऽपान्य होतॄणां दशमानुवाकस्यऽदेवस्य वाऽ इत्यादित आरभ्यऽदेवि दक्षिणेऽइत्येवमन्तमुक्त्वाऽरुद्राय गां तेनामृतत्वमश्याम्ऽइत्यादि सन्धायऽउत्तानस्त्वाङ्गीरसः प्रतिगृह्णातुऽ(तै.आ.३१०) इत्येवमन्तेन श्रौतवत्प्रतिगृह्णाति॑ुपनयनं विद्यार्थस्य श्रुतितस्संस्कारःऽ(आप.ध.११ ९)
इति धर्मशास्त्रवचनात् ।
ततः कुमारंऽउदायुषाऽइत्युत्थाप्य इदं च वाचयति ।
अथ कुमारःऽतच्चक्षुर्देव हितम्ऽइत्यादिभिराचार्यवाचितैर्दशभिर्मन्त्रैरादित्यमुपतिष्ठते ।
अत्र वाचयित्वेत्यादेः क्त्वाप्रत्ययस्य, क्रियाविधानमात्रे तात्पर्य, न तु समानकर्तृकत्वेऽपि ।
ज्ञापितं चैत्ऽयोक्त्रं विमुच्य तां ततः प्र वा वाहयेत्ऽ(आप.गृ.५१३) इत्यत्र अथवा व्यवधानेन सम्बन्धः॑ाचार्यस्स्मृतादि वाचयित्वाऽउदायुषाऽइत्युत्थाप्यऽयं कामयेतऽइत्यादि कुर्यात् ।
कुमारस्तु गुरवे वरं दत्वोत्तरैरादित्यमुपतिष्ठते ।
केचित्स्मृतसङ्कीर्तनादि पदार्थचतुष्टयमपि कुमारकर्तृकम् ।
वाचयित्वोत्थाप्येति तु णिजर्थो हे तुरविवक्षितःऽअन्यथा त्वसमानकर्तृकत्वात्वरदानमुपस्थानं चाचार्यकर्तृकं स्यात्तथा गुरुग्रहणं चौलादौ ब्रह्मणे वरदानार्थमिति ॥१७॥
अथ काम्यमाह
१७ उपनयने काम्यविधिः ।
यं कामयेत नायम (यं म) च्छिद्येतेति तमुत्तरया दक्षिणे हस्ते गृह्णीयात् ॥ आपस्तम्बगृह्यसूत्र ११.१८ ॥
टीकाः
अनुकूलावृत्ति ११.१८
<यं>किमारं उपनेती<कामयेत>गुरुः, किमिति?अयं मत्तो <न छिद्येत> न वियुज्येत मदधीन एव सायादासमावर्थनादिति तमेतस्मिन् काले दक्षिणे हस्ते गृह्णीयात्<उत्तरयर्चा>ऽयस्मिन् भूतमिऽत्येतया ।
नामनिर्देशः सबुध्या ।
काम्योऽयं विधिः न नित्यः ।
एतदेव ज्ञापकमासमावर्तनात्नोपनेतुरेव समीपे वर्तितव्यमिति ॥१९॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.१८
<यं> कुमारं अयमासमावर्तनान्मत्तो न च्छिद्येन न वियुच्येतेति<कामयेत, तमुत्तरया>ऽयस्मिं भूतम्ऽइत्यनयर्चा सम्बुध्द्या च नाम गृहीत्वा<दक्षिणे हस्ते गृह्णीयात्>यद्यमाचार्यश्चतुर्वेदी सर्वशास्त्रवितध्यापयितुं व्याख्यातुं च शक्नोति ॥१८॥
त्र्यहमेतमग्निं धारयन्ति ॥ आपस्तम्बगृह्यसूत्र ११.१९ ॥
टीकाः
अनुकूलावृत्ति ११.१९
एतमुपनयनाग्निं व्यहं धारयन्ति अविनाशिनं कुर्वन्ति पित्रादयः ॥२०॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.१९
स्पष्टमेतत् ॥१९॥
१८ ब्रह्मचर्यनियमविधिः ।
क्षारलवणवर्जनं च ॥ आपस्तम्बगृह्यसूत्र ११.२० ॥
टीकाः
अनुकूलावृत्ति ११.२०
क्षारलवणयोर्र्वजनं भवति भोजने त्र्यहम् ।
अस्य ब्रह्मचारिणः सामयाचारिकः प्रतिषेधः सार्वकालिकः ।
अयं तु त्र्यहसम्बन्धः ।
तयोर्विकल्पः ।
मध्वादिप्रतिषेधस्तु सामयाचारिको नित्यमेव भवति ॥२१॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.२०
त्र्यहं क्षारलवणयोर्र्वजनं च भवति ।
अत्र च त्र्यहमिति नियमाद्धर्मशास्त्रेऽयथा क्षारलवणमधुमांसानिऽ(आप.१४६)ऽइत्यनेन क्षारलवणयोर्द्वयोर्निषेधः ।
त्र्यहादूर्ध्व पाक्षिकः मध्वादेस्तु नित्यएव ॥२०॥
१९ समिदाधानम् ।
परि त्वे ति परिमृज्य तस्मिन्नुत्तरैर्मन्त्रैस्समिध आदध्यात् ॥ आपस्तम्बगृह्यसूत्र ११.२१ ॥
टीकाः
अनुकूलावृत्ति ११.२१
तमुपनयनाग्निंऽपरि त्वेऽत्यनेन मन्त्रेण<परिमृज्य> सर्वतो मार्जमुदकेन कृत्वा<उत्तरैर्मन्त्रैः>ऽअग्नये समिधऽमित्यादिभिः द्वादशभिः प्रतिमन्त्रं समिधो नित्यमादध्यात्ब्रह्मचारी ।
ऽसायं प्रातऽ(आप.ध.१४१६) रिति विशेषः सामयाचारिकः प्रत्येतव्यः ।
ऽसायमेवाग्निपूजेत्येकेऽ(आप.ध.१४१७) इति च ।
अयं तूपदेशोऽस्मिन् काले प्रारम्भार्थः ।
तेन प्रातरुपक्रमं समिदाधानं सायमपवर्गम्
पक्षान्तरे सायमेवोपक्रमः, नान्यस्मिन् काले ।
तत्र यथाकामी प्रक्रमेत ।
अधिकारादेव सिद्धे तस्मिन्निति वचनं त्र्यहादूर्द्वमपि तस्मिनुपनयनाग्नावेव समिदाधानं यथा स्यादिति ।
तेन नित्यधारणमप्यस्य विकल्पेन साधितं भवति ।
व्याहृतिभिरप्यन्ते चतस्रस्समिध आदधाति ।
तत्त्प्रायश्चित्तत्वेन द्रष्टव्यम्, कल्पान्तरदर्शनाच्च ।
ऽयत्ते अग्ने तेजःऽइत्यादिभिरुपस्थानं समाचाराद्भसित दारणम् ॥२२॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.२१
ऽपरित्वाग्नेऽइत्यग्निं <परिमृज्य>परिसमूह्य, तस्मिनुपनयनाग्नौ यावद्धारण<मुत्तरैर्मन्त्रै>र्द्वअदशभिःलऽअग्नये समिधमाहार्षऽइत्यादिभिः प्रतिमन्त्रमेकैकां समिधमादध्यात् ।
पुनश्चान्ते तूष्णीं परिसमूहनम् ।
अनन्तरमुभयस्तूर्ष्णीं समन्तं परिषेचनं, स्मृत्यन्तरात्
आचाराच्च ।
एतच्च समिदाधानं पूर्व काष्ठैरग्निमिद्ध्वा कार्यम्॑धर्मशास्त्रेऽअग्निमिद्ध्वा परिसमूह्य समिध आदध्यात्ऽ(आप.ध.१४ १६)
इति वचनात् ।
परिसमबहनस्यऽपरित्वेति परिमृज्यऽइति विधिः ।
तथा धर्मशास्त्रे तुऽसमिद्धमग्निं पाणिना परिसमूहेन्न समूहन्याऽ (आप.ध.१४१८) इति गुणार्थोऽनुवादः ॥२१॥
एवमग्निपूजापरशब्दं समिदाधानं सविधिकमभिधाय, इदानीं तसेयैवाधिकारसम्बन्धं गुणान्तरं चाह
एवमन्यस्मिन्नपि सदाऽरण्यादेधानाहृत्य ॥ आपस्तम्बगृह्यसूत्र ११.२२ ॥
टीकाः
अनुकूलावृत्ति ११.२२
यथास्योपनयनाग्नेः नित्यधारणपक्षे समिधादानं नित्यत्वेन चेदितं, एवं त्र्यहं धारणपक्षे त्र्यहादूर्ध्व<अन्यस्मिन्नप्य>ग्नाविदं कर्म कर्तव्यमित्यर्थः ॥२३॥
अरण्यग्रहणात्ग्राम्याणां फलवतां वृक्षाणां प्रतिष्धः ।
आहृत्येति वचनातिन्यैराहृतानां प्रतिषेधः ।
<एधाः>काष्ठानि ।
एधग्रहणमग्नेराहरणशङ्कानिवृत्यर्थम् ।
सामयाचारिकेषु विधिः गुर्र्वथ ब्रह्मचारिणस्समिदाहररणं विधत्ते ।
इदं त्वात्मार्थम् ॥२४॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.२२
एवमुक्तेन विधिना सदा उपनयनप्रभृत्यासमावर्तनातहरहस्सायं प्रातः, सायमेव वा समिदाधानं कर्तव्यम् ।
एतच्च त्र्यहा दूर्ध्वमन्यस्मिन्नपि लौकिकेऽग्नौ भवति ।
न तूपनयनाग्निर्नष्ट इति नित्यस्य समिदाधानस्य लोपः ।
समिधश्चारण्यादेवाहृत्याधायाः ।
यच्च धर्मशास्त्रेऽसायं प्रातर्यथोपदेशम्ऽइतिऽसायमेवाग्निपूजेत्येकेऽ(आप.ध.१४१६,१७) इति स विकल्पविध्यर्थोऽनुवादः ।
केचित्नित्यस्य समस्समिदाधानस्य अत्रोपदेशोऽस्मिन् काले प्रारम्भार्थः ।
ततश्चेदं प्रातरुपक्रमं सायमपवर्गम् ।
सायमेवेति पक्षे तु सायमेवोपक्रमो नान्यत्र ।
तत्र यथाकामी प्रक्रमेत ।
तथा तस्मिन्नन्यस्मिन्नपीत्यारम्भातुपनयनाग्नेस्त्र्यहादूर्ध्वमपि विकल्पेन धारणं, तत्रैव समिदाधानं चेति ॥२२॥
उत्तरया संशास्ति ॥ आपस्तम्बगृह्यसूत्र ११.२३ ॥
टीकाः
अनुकूलावृत्ति ११.२३
अथं तं<उत्तरयर्चा>ऽब्रह्मचार्यसीऽत्येतया<संशास्ति>गुरुः संश्क्षयतीत्यर्थः यथापाठामृचा संशासनं अर्त च कथयति ।
<ब्रह्मचार्यसि> ब्रह्मचर्याश्रमं प्राप्तोऽसि ।
तस्मात्कामचारवादभक्षो मा भूः ।
बाढमिति प्रतिवचनम् ।
<अपोऽशान,>मयाननुज्ञातः
अप एवाशान, नान्यते ।
पूर्ववत्प्रतिवचनं सर्वत्रा कर्म कुरु गुरुशुश्रूषणादि ।
<मा सुषुप्थाः>दिवा स्वापप्रतिषेधः ।
"दिवा मा स्वाप्सी (आश्व.गृ.१२२२) तिर्येवाश्वलायनः ।
अपर आहअथ यः पूर्वोत्थायी जघन्यसंवेशी तमाहुर्न स्वपितीति ।
एवं विधोऽत्र स्वापाभाव इति ।
<भ्क्षाचर्य>चरेति नियमेन भैक्षविधिः ।
<आचार्याधीनो> <भव>मातापित्रोरपि वशं त्यक्त्वा आचार्यवशे वर्तस्वेत्यर्थः ।
संशासनानन्तरं भिक्षाचरणम् ।
अत्र बोधायनः"अथास्मा अरिक्तं पात्रं प्रयच्छात्राह मातरमेवाग्रे भिक्षस्वेति" ।
(भौ.गृ.२७)
आश्वलायनस्तु"अप्रत्याख्यायिनमग्रे भिक्षेताप्रत्याख्यायिनीं वा"(आश्व.गृ.१२२७) इति ॥२५॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.२३
ऽब्रह्मचार्यसिऽइत्यनया कुमारं<संशास्ति>शिक्षयति ।
अथ सशासनार्थज्ञापनाय मन्त्रार्थ उत्यते ।
<ब्रह्मचार्यसि>कामचारवा दभक्षो माभूः ।
<अपोऽशान>मयानुज्ञातोऽप एव पिब, वभुक्षां तु धारय ।
<कर्मकुरु,>अस्मदर्थ कर्म मयानुक्तोऽपि कुरु, मा सुषुप्थाः पूर्वोत्थायी जघन्यसंवेशी भूयाः,ऽतामाहुर्न स्वपितिऽ(आप.१४२८) इत्युक्तत्वात्, मा दिवा स्वाष्सीरिति वा ।
<भिक्षाचर्य चर,>निमन्त्रणादिना भुञ्जानोऽप्यस्मदर्थ भैक्षमाचर ।
<आचार्याधीनो भव,>मयाननुज्ञातो याजनादिकर्म मा कार्षीरिति ।
अत्र चासीतिछान्दसो लकारः, सुषुप्था इति रूप च ।
संशासनेषु च सर्वेषु कुमारो <बाढम्ऽ>ऽएवं करोमिऽइति प्रतिवचनं दाप्यः ।
संशासनान्ते च भिक्षाचरणम् ।
अथास्मा अरिक्तं पात्रं प्रयच्छन्नाहमातरमेवाग्रे भिक्षस्वेति (बौ.गृ.२५४०) इति बौधायनगृह्यात् ।
२० पालाशकर्म ।
वासश्चतुर्थीमुत्तरयाऽदत्तेऽन्यत्परिधाप्य ॥ आपस्तम्बगृह्यसूत्र ११.२४ ॥
टीकाः
अनुकूलावृत्ति ११.२४
अथ त्रिरात्रे निवृत्ते <चतुर्था>रात्रिं सप्तम्यर्थेद्वितीया ।
चतुर्थ्यामित्यर्थः ।
तत्र किम्?<यद्वासः>कुमारस्य धार्य सद्यःकृत्तोतं परिधापितं तदाचार्य आदत्ते <उत्तरयर्चा>"यस्य ते प्रथमवास्य"मित्येतया ।
<अन्यद्वासः>परिधाय ।
त्र्यहे तु तस्मिन्नियमेन सद्यःकृत्तोतमेव ।
चतुर्थीमित्यत्र न रात्रिर्विवक्षिता ।
किं तर्हि?अहोरात्रसमुदायः ।
तत्राहन्यवादानं वाससःऽउदगयनपूर्वपक्षाहःऽइति नियमात् ।
मेखलामजिनं दण्डमुपवीतं कमण्डलुम् ।
अप्सु प्रास्य विनष्टानि धार्याण्यन्यानि मन्त्रवत् ॥२६॥
________________________
गृह्यतात्पर्यदर्शनव्याख्या ११.२४
छतुर्थीमिति सप्तम्यर्थे द्वितीया ।
चतुर्थ्या रात्रौ चतुर्थाहोरात्रे अहन्येवऽउदगयनपूर्वपक्षाहःऽ(आप.गृ.१२) इति नियमात् ।
<वासः>
उपनयनकाले यत्परिधापितं तदाचार्यः सप्तशकृत्वोऽपान्यऽयस्य ते प्रथमवास्यम्ऽइत्यनयैव स्वीकरोति, न तु सावित्रेण॑त्र विशेषविधेर्बलीयस्त्वात् ।
उपदेशमतं तुऽदेवा वै वरुणमयाजयन्, (तै.ब्रा.२२५) इति लिङ्गादयज्ञेषु न प्रतिग्रहविधिरिति ।
एतच्चान्यद्वासः कुमारं<परिधाप्यैव>कर्तव्यम् ।
स तुऽगुरो वासस्ते ददामि, इति दद्यात् ।
एतच्चत्र्यहं मन्त्रवत्परिहितमेव वासः परिधेयम् ।
आपस्तम्बमत्या एतदन्तमुपनयनम् ॥२५॥
अथ पालाशकर्मभाष्यं लिख्यते
केचित्स्मृत्यन्तरोपसंहारेण पलाशवृक्षसमीपे पालाशं कर्म कुर्वते समानम् ।
अन्येषां च श्रद्धधानानां हितार्थ पालाशकर्मणो विधिरुच्यतेत्रीण्यहानि प्रत्यहमाममैक्षमाचरेत् ।
चतुर्थऽहन्यन्नसंस्कारेण संस्कृत्याचार्येण सह प्राचीमूदीचीं वा दिशमुपनिष्क्रम्य पूर्वेणोत्तरेण वा पलाशवृक्षं त्रीण्युदगपवर्गाणि स्थण्डिलानि कल्पयित्वा तेषु यथाक्रमं प्रत्यङ्मुखः प्रणवश्रद्धामेधाभ्योर्ऽघ्यपाद्याचमनस्नानवस्त्रगन्धमाल्यधूपदीपबलींश्च दत्वाथोपतिष्ठते ।
ऽयश्छन्ददसाम्ऽइत्यनेनऽश्रुतं मे गोपायऽ(तै.उ.१४) इत्यन्तेन प्रणवम् ।
ऽश्रद्धयाग्निः समिध्यतेऽ(तै.ब्रा.२८८) इति सूक्तेन श्रद्धाम् ।
ऽमेधा देवीऽ(तै.उ.४४१) इत्यनुवाकेन मेधाम् ।
ततः पलाशमूले दण्डं विसृज्य अन्यदण्डमादाय सहाचार्यो गृहमागच्छतीति ॥
चतुर्थे पटलेपीत्थं यथाभाष्यं यथामति ।
कृतं सुदर्शनार्येण गृह्यतातपर्यदर्शनम् ॥
सुबद्धं दुर्लभं भाष्यं भाष्यार्थश्च सुदुर्ग्रहः ।
अतोऽनुकम्ब्या विद्वद्भिः मन्दबुद्धिश्रुता वयम् ॥
इति श्रूसुदर्शनाचार्यकृतौ गृह्यसूत्रतात्पर्यदर्शने एकादशः खण्डः ॥
समाप्तश्चतुर्थः पटलः ॥

====================================================================================
अथोपाकर्मोत्सर्जनपटलः
७ उपाकर्मोत्सर्जनप्रकरणम्
१ उपाकर्मकालविधानम् ।
अथात उपाकरणोत्सर्जने व्याख्यास्यामः ॥१॥
अथ शब्दः आदौ मङ्गलार्थः प्रकरणान्तरत्वात् ।
अतश्शब्दौ हेतौ ।
यस्मादेतयोर्व्याख्यानमन्तरेण प्रयोगो न शक्यते कर्तु अत एतो व्याख्यास्यामः इति ॥१॥
श्रवणापक्ष ओषधीषु जातासु हस्तेन पौर्णमास्यां वाध्यायोपाकर्म ॥२॥
<श्रवणापक्षे>श्रवणस्य मासस्य पूर्वपक्ष इत्यर्थः ।
<ओषधीषु जातासु>प्रवर्षणाद्रूढासु<हस्तेन नक्षत्रेण पौर्णमास्यां> वा श्रावणस्य कर्तव्यमित्यर्थः ।
अध्यायस्योपाकरणं<अध्यायोपाकर्मप्रारम्भ>इत्यर्थः ।
ओषधीषु जातास्विति वचनादाजातास्वोषधीषु प्रोष्ठपद्यां भवति ।
तथा च कल्पान्तरंश्रावण्यां पौर्णमास्यां प्रोष्ठपद्यामाषाढ्यां वेति ॥२॥
२ काण्डऋष्यादिभ्यो होमः ।
अग्नेरुपसमाधानाद्याज्यभागान्तेऽवारब्धेषु काण्डऋषिभ्यो जुहोति सदसस्पतये सावित्र्या ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति हुत्वा
उपहोमे वेदाहुतीनामुपरिष्टात्सदसस्पतिमित्येके ॥३॥
टीकाः
अनुकूलावृत्ति ११.२४
एवमुपाकरणस्य काल उक्तः ।
अथ प्रयोगःग्नेरुपसमाधानादि तन्त्रं प्रतिपद्यते ।
अग्निश्च श्रोत्रियागाराद्वाहार्यः, मन्थ्यो वा, न त्वौपासनो बहूनामत्र सहत्वाभावात् ।
भार्यायाश्च सहत्वाभावात्वचनमत्रप्रयोग? ।
विद्यासंस्कारा४ हमिदं कर्म वेदसंयुक्तम् ।
तत्राज्यभागान्तेऽन्वारब्धेषु शिष्येषु प्रधानाहुतीर्जुहोति ।
काण्डऋषिभ्यः प्रजापतिस्सोमोऽग्निर्विश्वदेवा ब्रह्मा स्वयंभू इति पञ्च काण्डऋषयः ।
तत्र प्रजापतये स्वाहेति होमः ।
प्रजापतये काण्डऋषये स्वाहेत्यन्ये ।
ऽसदसस्पतिमद्भुतऽमित्यनेन सदसस्पतये जुहोति ।
ऽतत्सवितुऽरित्येतया सावित्र्ये, कल्पान्तरे तथा दर्शनात् ।
ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति चतस्रो वेदाहुतयः
तत उपहोमाः ।
जयादि प्रतिपद्यते इत्यर्थः ।
एक आचार्या वेदाहुतीनामुपरिष्टात्सदसस्पतिं होतव्यं मन्यन्ते ॥३॥
३ आदितस्त्रयाणामनुवाकानां प्रथमोत्तमयोर्वाध्ययनम् ।
परिषेचनान्तं कृत्वा त्रीननुवकानादितोऽधीयीरन् ॥४॥
तन्त्रशेषं समाप्य वेदस्या<दितः त्रीननुवाकानधीयीरन्>ऽइषे त्वोर्जेत्वाऽऽआप उन्दन्तुऽऽउद्धन्यानंऽऽअनुमत्यै पुरोडाशमष्टाकपालं निर्वपति धेनुर्दक्षिणाऽ ।
एते प्राजापत्यसौम्याग्नेयवैश्वदेवानामादितश्चत्वारोऽनुवाकाः ।
ऽसह वै देवानां चासुराणां चेऽति स्वयंभुवः ।
एतेषां वा पञ्चानां अनुवाकानां अध्ययनम् ॥४॥
प्रथमोत्तमावनुवाकौ वा ॥५॥
यदि वा वेदस्य प्रथमोत्तमौ अनुवाकावधीयीरन्ऽइषे त्वाऽऽभृगुर्वैवारुणिऽरिति ॥५॥
त्र्यहमेकाहं वा क्षम्याधीयीरन् ॥६॥
यस्मिन्नहन्न्युपाकरणं कृतं तत आरण्य<त्र्यहमेकाहं वा क्षम्य>विरम्याधीर्यीरन् ।
उपाकृते त्र्यहमेकाहं वानध्याय इत्यर्थः ।
तत्र काण्डोपकरणे एकाह पारायणोपाकरणे त्र्यहः ।
अधीयीरन्निति वचनं उपाकृत्यत्र्यहादूर्ध्व नियमेनाध्ययनं यथा स्यादिति ॥६॥
यथोपाकरणमध्यायः ॥७॥
येन प्रकेरेणोपाकरणं कृतं तथाध्ययनं कर्तव्यम् ।
यदि सर्वेभ्यः काण्डऋषिभ्यो हुत्वा वेदादौ त्रयाणामनुवाकानामारम्भः कृतः प्रथमोत्तमयोर्वा तथा सति यथाध्यायमध्ययनं कर्तव्यम् ।
यदि तु काण्डादीनां सर्वेषामारम्भः तथा सति यथाकाण्डमध्येतव्यम् ।
यस्तु कृत्स्नं वेदमरण्येऽनुवाक्यानि परिहाप्य प्रागुत्सर्जनादध्येतुं न शक्नोति तस्य पृथक्वाम्डोपाकरणम् ।
तत्र तस्यैव काण्डस्यैक ऋषिः सदसस्पतिः सावित्री वेदाहुतय उपहोमाः परिष्चनान्ते तस्यैव काण्डस्यानुवाकं एकाहमनध्यायः तस्यैव काण्डस्याध्ययनम् ॥
४ उत्सर्गकालः ।
तैषीपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः ॥८॥
एवमुपाकृत्यानध्यायवर्ज वेदं काण्डं वारण्येऽनुवाक्यानि परिहाप्याधीयानस्य<रोहिण्यामुत्सर्गः>कर्तव्यः ।
पौर्णमास्यां वा तैषीपक्षस्यैव ।
तत्रास्मिन्कर्मणि होमोऽपि भवति ।
कथं भवति ?उपाकरणवत्समानविधानादुपाकरणवद्गृहे हुत्वैव क्षम्यमाणं कर्म प्रतिपद्यते ।
हिरण्यकेशिनां तु तर्पणादूर्ध्व उदकान्ते होमः ॥८॥
५ तत्र तर्पणीयेभ्य ऋषिभ्य आसनपरिकल्पनम् ।
प्राचीमुदीचीं वा सगणो दिशमुपनिष्क्रम्य यत्रापः पुरस्तात्सुखाः सुखावगाहा अवकिन्यः शङ्खिन्यः तासामन्तं गत्वाभिषेकान् कृत्वा सुरभिमत्याब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिरिति मार्जयित्वान्तर्जलगतोऽघमर्षणेन त्रीन् प्राणायामान् धारायित्वोत्तीर्याऽचम्योपोत्थाय दर्भानन्योन्यस्मै सम्प्रदाय शुचौ देशे प्राक्कूलैर्दर्भैरासनानि कल्पयन्ति ॥९॥
<सगण>सशिष्यः<यत्रापः पुरस्तदिति यत्र देशे> पूर्वस्यां दिशि अपःपश्यतीत्यर्थः ।
<सुखाः>सुखस्पर्शाः ।
<सुखावगाहाः>सुतीर्थाः
यास्ववका भवन्ति ताः<अवकिन्यः> तथा शंखिन्यः तासामन्तं<समीपं> गत्वा<बिषेकान् कुंभैः कृत्वा ततः> सुरभिमत्या<दधिक्रावम्ण> <इत्ये>तयाब्लिङ्गाभिःऽआपोहि ष्ठा मयो भुवऽइति तिसृभिः<वारुणीभिः> अवते हेड उदुत्तममिमं मे वरुण तत्वायीमीत्येताभिः
<हिरण्यवर्णीयाभिःऽ> <हिरण्यवर्णाश्शुचयः पावकाऽ> <इति> चतसृभिः पावमानीभिः पवमानः सुवर्जन, इत्येतेनानुवाकेन<मार्जयित्वा>
अभ्युक्ष्य प्रतिम्त्रं क्रियाभ्यावृत्तिः प्रतिपादमित्यन्ये ।
ततोऽन्तर्जलगतः जलस्यान्तर्निमग्नोऽघमर्षणेन तृचेनऽऋतं च सत्यं चेऽत्यघमर्षणदृष्टेन<त्रीन् प्राणायामान् धारयति ।
सर्वत्र सगण इत्येव ।>
अप्सु निमड्यैतमनुवाकं सकृज्जपति स एकः प्राणायामः ।
एवं त्रिर्धारयित्वोत्तीर्य गृह्यान्तरदर्शनात्प्रक्षालितोपदातान्याक्लिष्टानि वासांसि परिधायाचम्योत्थाय द्वौ संभूय<दर्भानन्योन्यस्मै संप्रदाय>ततः शुचौ देशे उदकान्त एव स्थण्डिलानि पृथक्कृत्वा दर्भैः प्रागग्रैः<आसनानि कल्पयन्ति> ॥९॥
केभ्यः?देवेभ्यः पितृभ्यः ऋषिभ्यश्च ।
ब्रह्मणे प्रजापतये बृहस्पतयेऽग्नये वायवे सूर्याय चन्द्रमसे नक्षत्रेभ्यः ऋतुभ्यस्संवत्सराय इन्द्राय राज्ञे सोमाय राज्ञे यमाय राज्ञे वैश्रवणाय राज्ञे वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यस्साध्येभ्यो मरुद्भ्य ऋभुभ्यो भृगुभ्योऽङ्गिरोभ्य इति देवगणानाम् ॥१०॥
<देवगण इति> देवानां च तद्गणानां चेत्यर्थः ।
अत्र ब्रह्मादि दश देवताः ।
इन्द्रादयः पञ्च राजानः ।
वस्वादयः दश देवगणाः ।
सर्वान्ते कल्पयन्तीति वचनात्सर्वत्र कल्पयामीत्यस्य सम्बन्धः ।
ब्रह्मणे कल्पयामि प्रजापतये कल्पयामीति ।
एतानि पञ्चविंशतिरासनान्युदगपवर्गाणि ।
तर्पणं चैषां देवेन तीर्थेन भवति ॥१०॥
६ तर्पयितव्याः देवगणाः ऋषिगणाश्च ।
अथर्षयः विश्वामित्रो जमदग्निर्भरद्वाजो गौतमोऽत्रिर्वसिष्ठः कश्यप इत्येते सप्तर्षयः, सप्तर्षिभ्यः कल्पयित्वा दक्षिणतोऽगस्त्याय कल्पयन्ति ॥११॥
देवानामुत्तरतः सप्तर्षीणामासनानि, दक्षिणतोऽगस्त्याय, कश्यपादूर्ध्वमरुन्धत्याः, गृह्यान्तरदर्शनात् ॥११॥
ततो यावदेकवैद्यन्तैः कल्पयन्ति ॥१२॥
<ततः>अनन्तरं यावन्तः एकवेद्यन्ता समानवेद्यन्ताः?सप्तर्षिभिः, तेभ्यः कल्पयन्ति ।
के पुनस्ते?कृष्णद्वैपायनादय ऋषयः ।
एतदुक्तं भवतिकृष्णद्वैपायनाय जीतूकर्ण्याय तरुक्षाय तृणीबिन्दवे सोमशुष्मिणे सोमशुष्काय वर्मिणे सनद्वाजाय बृहदुक्थाय वामदेवाय वाचरत्नाय हरितयज्वनः उदमयाय गौतमाय ऋणञ्जयाय कृत्जयाय बभ्रवे त्र्यरुणाय त्रिधातवे त्रिवर्षाय शिबिन्ताय पराशराय वसिष्टायेन्द्राय मृत्यवे कर्त्रे त्वष्ट्रे धात्रे सवित्रे भृतश्रवसे सावित्र्यै वेदेभ्यश्चेति पृथक् ।
एते कृष्णद्वैपायनादयंश्चतुस्त्रिंशदृषयः ।
वेदाश्चत्वार इत्यष्टात्रिंशदेकवेद्यन्ताः सप्तर्षिभिः ।
केचिदथर्वाङ्गिरस इतिहासपुराणानि स४ अदेवजनान् सर्वभूतानीत्येतेषामपि वेदग्रहणेन ग्रहणमिच्छन्ति॑ कल्पान्तरे तथा दर्शनात् ॥१२॥
प्राचीनावीतानि कृत्वा दक्षिणतो वैशम्पायनाय पैङ्गये तित्तिरये उखायात्रेयाय पदाकाराय,कौण्डिन्याय वृत्तिकाराय,बौधायनाय प्रवचनकाराय, आपस्तम्बाय सूत्रकाराय, भरद्वाजाय सूत्रकाराय, सत्याषाढाय हिरण्यकेशाय, आचार्येभ्य ऊर्ध्वरेतोभ्य, एकपत्नीभ्यो वानप्रस्थेभ्यः कल्पयामीति ॥१३॥
ततः सर्वे <प्राचीनावीतानि कृत्वा>वैशम्पायनादिभ्यो द्वादशभ्य आसानानि कल्पयन्त दक्षिणतो देवानामगस्त्यस्य त ।
तत्र दक्षिणाप्रवणदेशे दक्षिणाग्रैः प्रत्यगपवर्ग(सगृ.२१९७) मिति कल्पान्तरम् ॥१३॥
७ अर्पणीयानां पितॄणामासनपरिकल्पनम् ।
अथ यथास्वं पितृभ्यः कल्पयन्ति मातामहेभ्यश्च पृथक् ॥१४॥
<यथास्वं>यस्य ये पितरः पितामाहाः प्रपितामहा मातामहाश्च मातुर्ये पितृपितामहप्रपितामहाः सर्वेभ्य उभयेभ्यःकल्पयन्तीत्यर्थः ।
प्राचीनावीतानि कृत्वा दक्षिणत इति चानुवर्तते ।
तत्र यथास्वं पित्रादीनां नामभिः कल्पनंरुद्रशर्मणे विष्णुशर्मण इति ।
अन्ये पितृभ्य इत्येव कल्पयन्ति ।
किमर्थ तर्हि यथास्वमिति?जीवपितृकाणामिहापि पिण्डदानवदुपायविशेषप्रतीत्यर्थः ॥१४॥
यज्ञोपवीतानि कृत्वा तेष्वेव देशेषु तयैवानुपूर्व्या तैरेव नामाभिर्देवानृषींश्च तर्पयन्ति वैशम्पायनप्रभृतींस्तु मातुः प्रपितामहपर्यन्तान् प्राचीनावीतिनस्तर्पयन्ति अमुं तर्पयाम्यमुं तर्पयाम्यमुं तर्पयामीति ॥१५॥
अथ कल्पान्तरे दृष्टो विशेषःमुष्मै नमोऽमुष्मै नम इति गन्धपुष्पधूपदीपैः, अमुष्मै स्वाहामुष्मै स्वाहेत्यन्नेन, अमुं तर्पयाण्यमुं तर्पयामीति फलोदकेनेति(भा.गृ.३११) (स.गृ.२१०५,६,७) ॥१५॥
अभिप्यन्ते वान्योन्यम् ॥१६॥
आप्नोतेरेतद्रूपम् ।
अभिप्या प्रार्थना ।
इहोत्सर्जने कर्मणि शिष्याणामुपाध्यायस्य च स्नानादिषु कर्मसु सह प्रवृत्तिश्चोदिता ।
सर्वत्र वहुवचननिर्देशातभिषेकान् कृत्वाऽसनानि कल्पयन्तीति ।
तत्रायं विशेषो वैकल्पिक उपदिश्यते अन्योन्यमभिप्यन्ते वा द्वौ द्वौ सम्भूयान्योऽन्यं प्रार्थयन्ते वासः प्रवृत्यर्थ न सर्वे सहेति ।
अधीत्सन्त इति पाठे ऋध्यतेरेतद्रीपम् ।
उपसर्गवशाच्च स एवार्थः ।
ये त्वधिशब्दात्परं तकारमेवाधीयते न ररेफमपि तेषां धातुर्मग्यार्थ एव ॥१६॥
८ तेषां क्रमशस्तर्पणम् । ९ पूर्ववद्ध्ययनम् ।
यज्ञोपर्वातानि कृत्वा त्रीनादितोऽनुवाकानधीयीरन् ॥१७॥
अध्ययनप्रकार उपाकरणेन व्याख्यातः ॥१७॥
काण्डादीन् प्रथमोत्तमौ वा ॥१८॥
अयमपि विकल्प उपाकरणे व्याख्यातः ॥१८॥
१० जलसमीपे दूर्वारोपणम् ।
ऽकाण्डात्काण्डात्प्ररोहन्तीऽति द्वाभ्यामुपोदके दूर्वा रोपयन्ति ॥१९॥
अथ समूलं दूर्वास्तम्बमाहृत्य तमुदकस्य समीपे <रोपयत् ।
>यथा दूर्वा प्ररोहति तथा निखनन्तिऽकाण्डात्काण्डात्प्ररोहन्तीऽति द्वाभ्यामृग्भ्यामा ।
तत्र दूर्वा इत्येकवचनश्रवणातेक एव मुख्यो निखनति तमितरेऽन्वारभेरन् ।
अन्ये प्रतिपूरुषमुच्छन्ति ॥ १९ ॥
११ जलस्य क्षोभणम्, जलादुत्तीर्याऽजिधावनम् ।
अपः प्रगाह्योदधिं कुर्वन्ति ॥२०॥
<अथापः>प्रविश्य<तत्रोदधिं कुर्वन्ति ।
>उदधिः समुद्रः तमिव क्षोभयन्तीत्यर्थः ॥२०॥
कथं तदित्याह
सर्वतः परिवार्योर्मिमन्तः कुर्वन्ति ॥२१॥
बहुभिः<परिवार्य सर्वत>स्सन्निरुध्य यथोर्मयस्तत्रोत्पद्यन्ते तथा कूर्वन्तीत्यर्तः ।
एवं त्रिः कुर्वन्ति ॥२१॥
उद्गाह्याऽतमितोराजिं धावन्ति ॥२२॥
<उद्गाह्य>उत्तीर्य<आतमितो>आश्रमजननात्<आजिं>धावन्ति ।
प्राचीमुदीचीं वा दिशमभिधावन्ति ।
तथापवर्गः ॥२२॥
१२ ब्राह्मणभोजनम् ।
प्रत्येत्याभिदानादि सक्तुभिरोदनेनेति ब्राह्मणान् भोजयित्वा वाचयति ॥२३॥
<प्रत्येत्य>गृहान् प्रविश्येत्यर्थः ।
<ईशिषः>पुण्याहाद्याः पुण्याहं स्वस्त्यृध्यतामिति वाचयित्वेति ॥२३॥
एवं पारायणसमाप्तौ च काण्डादि दूर्वारोपणोदधिधावनवर्जम् ॥२४॥
यथास्मिन् वार्षिकेऽप्यध्याये समाप्ते उत्सर्गश्चोदितः एवमेव पारायणसमाप्तावपि कर्तव्यम् ।
तत्र वर्ज्याणिकाण्डादनिमध्ययनं, दूर्वारोपणमुधिकरणमाजिझावनं चेति ॥२४॥
प्रत्येत्य ब्राह्मणभोजनादि कर्म प्रतिपद्यते ॥२५॥
काण्डादिग्रहणात्पारायणाध्ययने यथाकाण्डमेवाध्ययनम्, न तु सम्भिन्नस्य पाठस्येति केचित् ।
अन्ये तु काण्डादिग्रहणस्योपलक्षणत्वात्सर्वप्रकारस्यानुवाकाध्ययनस्य प्रतिषेधः ।
पारायणे च यथारुच्यध्ययनामित्याहुः ॥२५॥
एवमेवाद्भिरहरहर्देवानृषीन् पितॄंश्च तर्पयेत् ॥२६॥
अद्भिरिति वचनातहरहस्तर्पणमाद्भिरेव ।
तेनोत्सर्गकर्मणि पूर्वोक्तानां गन्धादीनामपि प्रवृत्तिः ।
अहरहस्तर्पणं ब्रह्मज्ञानन्तरम्, कल्पान्तरे दर्शनात् ॥२६॥
इति गृह्यसूत्रावृत्तावनाकुलायां उपाकर्मोत्सर्जनपटलः ॥