शतपथब्राह्मणम्/काण्डम् ६/अध्यायः ५

विकिस्रोतः तः

ब्राह्मणम् १

१ सार्थवादमपां पर्णक्वथितत्वं विधाय तासामद्वैवत्येन गायत्रेण तृचेन सेचनविधानं, तत्र तृचस्य तत्प्रतिपाद्यदेवतायाश्च प्रशंसनं, मृत्पिण्डे सार्थवादं कषयाजलफेनमृदजलोम्नां संमिश्रणविधानं, तत्राजलोमसंमिश्रणे मन्त्रं विनियुज्य तत्तात्पर्यवर्णनं, शर्कराश्मायोरसचूर्णैः संसर्गस्य समन्त्रकं विधानं, अजलोमसंसर्गे शर्करादिसंसर्गे च विनियुक्तमन्त्रगतसंख्यायाः प्रशंसनं, तिसृभिर्ऋग्भिर्मृदः संमिश्रणविधानं तासामृचामभिप्रायप्रदर्शनं च, सम्मिश्रणमन्त्रगतत्रित्वसंख्यायास्त्रिवृदग्न्यात्मना प्रशंस्याजलोमशर्करादिसंसर्गे विनियुक्तमन्त्रगतद्वित्वसंख्यया सहोक्तसंख्यायाः प्रशंसनम् , एतस्याः पञ्चसंख्याया उदकसेचनमन्त्रगतत्रित्वसंख्यायाः प्रशंसनं प्रकारान्तरेणाप्येतस्या अष्टसंख्यायाः प्रशंसनं चेत्यादि.

ब्राह्मणम् २

२ उखाया अधस्तलपर्याप्तस्य मृत्पिण्डस्य समन्त्रकं सार्थवादमादानविधानं, मृत्पिण्डस्य समन्त्रकं सविशं प्रथनं विधाय तन्मन्त्रस्य व्याख्यानं, तिर्यक्प्रादेशमात्रं प्रथिताया निधिमृद उपरि मृत्पिण्डप्रक्षेपं समंत्रकं विधाय तन्मंत्रव्याख्यानं, प्रथमोद्धेरुपर्यन्यमृत्पिण्डप्रक्षेपं समन्त्रकं विधाय तन्मन्त्रव्याख्यानं, निधेरुद्धिद्वयस्य च समीकरणं सविशेषं समंत्रकं विधाय तन्मन्त्रव्याख्यानं, उखाया ऊर्ध्वपरिमाणस्य सार्थवादं विधानं, सर्वथोखा प्रादेशमात्रीकर्तव्येत्यादिकथनम् , उखायाः परिमाणं पश्वनुष्ठानापेक्षया विकल्पितमिति प्रदर्शनम्, उखाया उत्तरभागे रास्नाकरणस्य मन्त्रतदभिप्रायसहितं सार्थवादं विधानं अन्यासां चतसृणामूर्ध्यानां रास्नानां तूष्णीं करणविधानं, तासामूर्ध्ववर्तीनामग्रेषु गोः साम्येन चतुर्णां स्तनानामुन्नयनकथनम् , एकेषां मतेन द्विस्तनात्मकमष्टस्तनात्मकं च पक्षद्वयमनूद्य तयोर्दूषणम्, उखाया बिलस्य साभिप्रायं समन्त्रकं ग्रहणविधानं, मन्त्रमन्त्रार्थसहितमुखानिधानस्य विधानम् , एकेषां मतेन सोपपत्तिकमुखात्रयकरणात्मकं पक्षमनूद्य तं सोपपत्तिकं दूषयित्वा चोखैकेव करणीयेति सिद्धान्ततया प्रतिपादनं उखाया भेदने प्रायश्चित्यादिकमुत्तरस्मिन्नन्वाख्याने ब्राह्मणे वक्ष्यत इति प्रतिज्ञा चेति.


ब्राह्मणम् ३

३ संस्कृताया मृदः सकाशादुखानिर्माणात्पूर्वं महिषीकर्तृकाया: पादमात्र्यास्त्र्या लिखिताया अषाढाख्येष्टकायाः सार्थवादं सोपपत्तिकं निर्माणकथनम् , उखाया अषाढान्तरकर्तव्यताभिधान, विश्वज्योतिःसंज्ञकानां तिसृणामिष्टकानामुखानन्तरकर्तव्यतायाः सार्थवादं विधानं देवतासम्बन्धप्रदर्शनं च, एतासामषाढोखाविश्वज्योतिषामध्यात्मत्वं प्रदर्श्य पुनरेतासामेव मन्त्राहृतमृदोत्पन्नत्वाषाढादिनामवत्वपादमात्रादिपरिमाणवत्वादीनामितरेष्टकानां वैलक्षण्येऽनुवादं कृत्वा प्रशंसनम्, अवशिष्टाया मृदो विनियोगकथनं, सकारणं सप्तभिरश्वशकृद्भिरुखाया धूपनस्य सार्थवादं समन्त्रकं विधानं शकृन्मंत्रदेवतानां सप्तसंख्यात्वेन साम्यस्य प्रशंसनं, संख्यागतसप्तत्वस्य यत्त्रित्वं तस्य प्रशंसनं चेति.


ब्राह्मणम् ४

४ सार्थवादं साभिप्रायमवटखननं सविशेषं विधाय तत्र मन्त्रं विनियुज्य तद्व्याख्यानम्, अवटे पचनसाधनतृणादिकमास्तीर्य तत्राषाढायास्तूष्णीमवस्थापनं विधाय ततो न्युब्जाया उखायाः समंत्रकमवस्थापनविधानम् तन्मंत्रव्याख्यानञ्च, निर्माणक्रमप्राप्तानां विश्वज्योतिषां तूष्णीमवस्थापनम् विधाय पुनस्तत्र पूर्ववत्पचनादिकमास्तीर्य दक्षिणाग्न्यग्निना दीपन विधानम्, दीपने मंत्रं विनियुज्य तस्य व्याख्यानम् , उखामीक्षमाणस्य त्रयाणां यजुषां जपविधानम् , तेषां व्याख्यानं च, खननादिमंत्रगतसंख्यायाः प्रशंसनं, साभिप्रायं सार्थवादमुखाया मैत्रेण यजुषोपावहरणविधानम् , उपवापोद्वापयोः कालं नियम्य तत्रोद्वापे सावित्रस्य यजुषो विनियोजनं, उखाया: पर्यावर्तनस्य गर्तादुद्धरणस्य च समंत्रकं विधानम् तदुभयोर्मंत्रयोर्व्याख्यानं च, उखायाः क्षीरासेचनार्थं पात्रे स्थापनस्य मंत्रमंत्रार्थयुतं विधानम् , तस्यामुखायामाजस्य पयसः सार्थवादमासेचनं विधाय तत्र मंत्रचतुष्टयं विनियुज्य च तस्य व्याख्यानम् , आसेचननिर्माण धूपनमन्त्रगतदेवतैक्यस्य प्रशंसनं चेत्यादि.