शतपथब्राह्मणम्/काण्डम् ६/अध्यायः ५/ब्राह्मणम् १

विकिस्रोतः तः
Jump to navigation Jump to search


६.५.१

पर्णकषायनिष्पक्वा एता आपो भवन्ति । स्थेम्ने न्वेव यद्वेव पर्णकषायेण सोमो वै पर्णश्चन्द्रमा उ वै सोम एतदु वा एकमग्निरूपमेतस्यै वाग्निरूपस्योपाप्त्यै - ६.५.१.[१]

ता उपसृजति । आपो हि ष्ठा मयोभुव इति यां वै देवतामृगभ्यनूक्ता यां यजुः सैव देवता सऽर्क्षो देवता तद्यजुस्ता हैता आप एवैष त्रिचस्तद्या अमूराप एकं रूपं समदृश्यन्त ता एतास्तदेवैतद्रूपं करोति - ६.५.१.[२]

अथ फेनं जनयित्वान्ववदधाति । यदेव तत्फेनो द्वितीयं रूपमसृज्यत तदेवैतद्रूपं करोत्यथ यामेव तत्र मृदं संयौति सैव मृद्यत्तत्तृतीयं रूपमसृज्यतैतेभ्यो वा एष रूपेभ्योऽग्रेऽसृज्यत तेभ्य एवैनमेतज्जनयति - ६.५.१.[३]

अथाजलोमैः संसृजति । स्थेम्ने न्वेव यद्वेवाजलोमैरेतद्वा एनं देवाः पशुभ्योऽधि समभरंस्तथैवैनमयमेतत्पशुभ्योऽधि सम्भरति तद्यदजलोमैरेवाजे हि सर्वेषां पशूनां रूपमथ यल्लोम लोम हि रूपम् - ६.५.१.[४]

मित्रः संसृज्य । पृथिवीं भूमिं च ज्योतिषा सहेति प्राणो वै मित्रः प्राणो वा एतदग्रे कर्माकरोत्सुजातं जातवेदसमयक्ष्माय त्वा संसृजामि प्रजाभ्य इति यथैव यजुस्तथा बन्धुः - ६.५.१.[५]

अथैतत्त्रयं पिष्टं भवति । शर्कराश्मायोरसस्तेन संसृजति स्थेम्ने न्वेव यद्वेव तेनैतावती वा इयमग्रेऽसृज्यत तद्यावतीयमग्रेऽसृज्यत तावतीमेवैनामेतत्करोति - ६.५.१.[६]

रुद्राः संसृज्य । पृथिवीं बृहज्ज्योतिः समीधिर इत्यसौ वा आदित्य एषोऽग्निरेतद्वै
तद्रुद्राः संसृज्य पृथिवीं बृहज्ज्योतिः समीधिरे तेषां भानुरजस्र इच्छुक्रो देवेषु रोचत इत्येष वा एषां भानुरजस्रः शुक्रो देवेषु रोचते - ६.५.१.[७]

द्वाभ्यां संसृजति । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्संसृजति - ६.५.१.[८]

अथ प्रयौति । संसृष्टां वसुभी रुद्रैरिति संसृष्टा ह्येषा वसुभिश्च भवति यन्मित्रेण तद्वसुभिर्यद्रुद्रैस्तद्रुद्रैर्धीरैः कर्मण्यां मृदमिति धीरा हि ते कर्मण्यो इयं मृद्धस्ताभ्यां मृद्वीं कृत्वा सिनीवाली कृणोतु तामिति वाग्वै सिनीवाली सैनां हस्ताभ्यां मृद्वीं कृत्वा करोत्वित्येतत् - ६.५.१.[९]

सिनीवाली सुकपर्दा सुकुरीरा स्वौपशेति । योषा वै सिनीवाल्येतदु वै योषायै समृद्धं रूपं यत्सुकपर्दा सुकुरीरा स्वौपशा समर्धयत्येवैनामेतत्सा तुभ्यमदिते मह्योखां दधातु हस्तयोरितीयं वा अदितिर्मह्यस्यै तदाह - ६.५.१.[१०]

उखां कृणोतु । शक्त्या बाहुभ्यामदितिर्द्धियेति शक्त्या च हि करोति बाहुभ्यां च धिया च माता पुत्रं यथोपस्थे साग्निं बिभर्तु गर्भ एति यथा माता पुत्रमुपस्थे बिभृयादेवमग्निं गर्भे बिभर्त्वित्येतत् - ६.५.१.[११]

त्रिभिः प्रयौति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्प्रयौति द्वाभ्यां संसृजति तत्पञ्च पञ्चचितिकोऽग्निः पञ्चऽर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति त्रिभिरप उपसृजति तदष्टावष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवत्यथो अष्टाक्षरा वा इयमग्रेऽसृज्यत तद्यावतीयमग्रेऽसृज्यत तावतीमेवैनामेतत्करोति - ६.५.१.[१२]