शतपथब्राह्मणम्/काण्डम् ६/अध्यायः ५/ब्राह्मणम् ३

विकिस्रोतः तः

६.५.३

तस्या एतस्या अषाढां पूर्वां करोति । इयं वा अषाढेयमु वा एषां लोकानां प्रथमाऽसृज्यत तामेतस्या एव मृदः करोत्येषां ह्येव लोकानामियं महिषी करोति महिषी हीयं तद्यैव प्रथमा वित्ता सा महिषी - ६.५.३.१

पादमात्री भवति । प्रतिष्ठा वै पाद इयमु वै प्रतिष्ठा त्र्यालिखिता भवति त्रिवृद्धीयम् - ६.५.३.२

अथोखां करोति । इमांस्तल्लोकान्करोत्यथ विश्वज्योतिषः करोत्येता देवता अग्निं वायुमादित्यमेता ह्येव देवता विश्वं ज्योतिस्ता एतस्या एव मृदः करोत्येभ्यस्तल्लोकेभ्य एतान्देवान्निर्मिमीते यजमानः करोति त्र्यलिखिता भवन्ति त्रिवृतो ह्येते देवा इत्यधिदेवतम् - ६.५.३.३

अथाध्यात्मम् । आत्मैवोखा वागषाढा तां पूर्वां करोति पुरस्ताद्धीयमात्मनो वाक्तामेतस्या एव मृदः करोत्यात्मनो ह्येवेयं वाङ्महिषी करोति महिषी हि वाक्त्र्यालिखिता भवति त्रेधाविहिता हि वागृचो यजूंषि सामान्यथो यदिदं त्रयं वाचो रूपमुपांशु व्यन्तरामुच्चैः - ६.५.३.४

अथोखां करोति । आत्मानं तत्करोत्यथ विश्वज्योतिषः करोति प्रजा वै विश्वज्योतिः प्रजा ह्येव विश्वं ज्योतिः प्रजननमेवैतत्करोति ता एतस्या एव मृदः करोत्यात्मनस्तत्प्रजां निर्मिमीते यजमानः करोति यजमानस्तदात्मनः प्रजां करोत्यनन्तर्हिताः करोत्यनन्तर्हितां तदात्मनः प्रजां करोत्युत्तराः करोत्युत्तरां तदात्मनः प्रजां करोति त्र्यालिखिता भवन्ति त्रिवृद्धि प्रजातिः पिता माता पुत्रोऽथो गर्भ उल्बं जरायु - ६.५.३.५

ता एता यजुष्कृतायै करोति । अयजुष्कृताया इतरा निरुक्ता एता भवन्त्यनिरुक्ता इतराः परिमिता एता भवन्त्यपरिमिता इतराः - ६.५.३.६

प्रजापतिरेषोऽग्निः । उभयम्वेतत्प्रजापतिर्निरुक्तश्चानिरुक्तश्च परिमितश्चापरिमितश्च तद्या यजुष्कृतायै करोति यदेवास्य निरुक्तं परिमितं रूपं तदस्य तेन संस्करोत्यथ या अयजुष्कृतायै यदेवास्यानिरुक्तमपरिमितं रूपं तदस्य तेन संस्करोति स ह वा एतं सर्वं कृत्स्नं प्रजापतिं संस्करोति य एवं विद्वानेतदेवं करोत्यथोपशयायै पिण्डं परिशिनष्टि प्रायश्चित्तिभ्यः - ६.५.३.७

अथैनां धूपयति । स्थेम्ने न्वेवाथो कर्मणः प्रकृततायै यद्वेव धूपयति शिर एतद्यज्ञस्य यदुखा प्राणो धूमः शीर्षंस्तत्प्राणं दधाति - ६.५.३.८

अश्वशकैर्धूपयति । प्राजापत्यो वा अश्वः प्रजापतिरग्निर्नो वा आत्मात्मानं हिनस्त्यहिंसायै तद्वै शक्नैव तद्धि जग्धं यातयाम तथो ह नैवाश्वं हिनस्ति नेतरान्पशून् - ६.५.३.९

वसवस्त्वा धूपयन्तु । गायत्रेण च्छन्दसाऽङ्गिरस्वद्रुद्रास्त्वा धूपयन्तुत्रैष्टुभेन च्छन्दसाऽङ्गिरस्वदादित्यास्त्वा धूपयन्तु जागतेन च्छन्दसाऽङ्गिरस्वद्विश्वेत्वा देवा वैश्वानरा धूपयन्त्वानुष्टुभेन च्छन्दसाऽङ्गिरस्वदिन्द्रस्त्वा धूपयतु वरुणस्त्वा धूपयतु विष्णुस्त्वा धूपयत्वित्येताभिरेवैनामेतद्देवताभिर्धूपयति - ६.५.३.१०

सप्ताश्वशकानि भवन्ति । सप्त यजूंषि सप्ततय्य एता देवताः सप्त शीर्षन्प्राणा यदु वा अपि बहुकृत्वः सप्तसप्त सप्तैव तच्छीर्षण्येव तत्सप्त प्राणान्दधाति- ६.५.३.११