शतपथब्राह्मणम्/काण्डम् ६/अध्यायः ५/ब्राह्मणम् ४

विकिस्रोतः तः
Jump to navigation Jump to search

६.५.४

अथैनमस्यां खनति । एतद्वै देवा अबिभयुर्यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति तस्मा इमामेवात्मानमकुर्वन्गुप्त्या आत्मात्मानं गोप्स्यतीति - ६.५.४.[१]

तं वा अदित्या खनति । इयं वा अदितिर्नो वा आत्मात्मानं हिनस्त्यहिंसायै यदन्यया
देवतया खनेद्धिंस्याद्धैनम् - ६.५.४.[२]

अदितिष्ट्वा देवी विश्वदेव्यावती । पृथिव्याः सधस्थे अङ्गिरस्वत्खनत्ववटेत्यवटो
हैष देवत्राऽत्र सा वैणव्यभ्रिरुत्सीदति चतुःस्रक्तिरेष कूपो भवति चतस्रो वै दिशः सर्वाभ्य एवैनमेतद्दिग्भ्यः खनत्यथ पचनमवधायाषाढामवदधाति तूष्णीमेव तां हि पूर्वां करोति - ६.५.४.[३]

अथोखामवदधाति । देवानां त्वा पत्नीर्देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽअङ्गिरस्वद्दधतूख इति देवानां हैतामग्रे पत्नीर्देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽङ्गिरस्वद्दधुस्ताभिरेवैनामेतद्दधाति ता ह ता ओषधय एवौषधयो वै देवानां पत्न्य ओषधिभिर्हीदं सर्वं हितमोषधिभिरेवैनामेतद्दधात्यथ विश्वज्योतिषोऽवदधाति तूष्णीमेवाथ पचनमवधायाभीन्द्धे - ६.५.४.[४]

धिषणास्त्वा देवीः । विश्वदेव्यावतीः पृथिव्याः सधस्थे अङ्गिरस्वदभीन्धतामुख इति धिषणा हैतामग्रे देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽङ्गिरस्वदभीधिरे ताभिरेवैनामेतदभीन्द्धे सा ह सा वागेव वाग्वै धिषणा वाचा हीदं सर्वमिद्धं वाचैवैनामेतदभीन्द्धेऽथैतानि त्रीणि यजूंषीक्षमाण एव जपति - ६.५.४.[५]

वरूत्रीष्ट्वा देवीः । विश्वदेव्यावतीः पृथिव्याः सधस्थ अङ्गिरस्वच्छ्रपयन्तूख इति वरूत्रीर्हैतामग्रे देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽङ्गिरस्वच्छ्रपयांचक्रुस्ताभिरेवैनामेतच्छ्रपयति तानि ह तान्यहोरात्राण्येवाहोरात्राणि वै वरूत्रयोऽहोरात्रैर्हीदं सर्वं वृतमहोरात्रैरेवैनामेतच्छ्रपयति - ६.५.४.[६]

ग्नास्त्वा देवीः । विश्वदेव्यावतीः पृथिव्याः सधस्थे अङ्गिरस्वत्पचन्तूख इति ग्ना
हैतामग्रे देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थेऽङ्गिरस्वत्पेचुस्ताभिरवैनामेतत्पचति तानि ह तानि च्छन्दांस्येव छन्दांसि वै ग्नाश्छन्दोभिर्हि स्वर्गं लोकं गच्छन्ति च्छन्दोभिरेवैनामेतत्पचति - ६.५.४.[७]

जनयस्त्वाच्छिन्नपत्रा देवीः । विश्वदेव्यावतीः पृथिव्याः सधस्थे अङ्गिरस्वत्पचन्तूख इति जनयो हैतामग्रेऽच्छिन्नपत्रा देवीर्विश्वदेव्यावतीः पृथिव्याः सधस्थे अङ्गिरस्वत्पेचुस्ताभिरेवैनामेतत्पचति तानि ह तानि नक्षत्राण्येव नक्षत्राणि वै जनयो ये हि जनाः पुण्यकृतः स्वर्गं लोकं यन्ति तेषामेतानि ज्योतींषि नक्षत्रैरेवैनामेतत्पचति
- ६.५.४.[८]

स वै खनत्येकेन । अवदधात्येकेनाभीन्द्ध एकेन श्रपयत्येकेन द्वाभ्यां पचति तस्माद्द्विः संवत्सरस्यान्नं पच्यते तानि षट्सम्पद्यन्ते षदृतवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति - ६.५.४.[९]

अथ मित्रस्य चर्षणीधृत इति । मैत्रेण यजुषोपन्याचरति यावत्कियच्चोपन्याचरति न वै मित्रं कं चन हिनस्ति न मित्रं कश्चन हिनस्ति तथो हैष एतां न हिनस्ति नो एतमेषा तां दिवैवोपवपेद्दिवोद्वपेदहर्ह्याग्नेयम् - ६.५.४.[१०]

तां सावित्रेण यजुषोद्वपति । सविता वै प्रसविता सवितृप्रसूत एवैनामेतदुद्वपति देवस्त्वा सवितोद्वपतु सुपाणिः स्वङ्गुरिः सुबाहुरुत शक्त्येति सर्वमु ह्येतत्सविता - ६.५.४.[११]

अथैनां पर्यावर्तयति । अव्यथमाना पृथिव्यामाशा दिश आपृणेत्यव्यथमाना त्वं पृथिव्यामाशा दिशो रसेनापूरयेत्येतत् - ६.५.४.[१२]

अथैनामुद्यच्छति । उत्थाय बृहती भवेत्युत्थाय हीमे लोका बृहन्त उदु तिष्ठ ध्रुवा त्वमित्युदु तिष्ठ स्थिरा त्वं प्रतिष्ठितेत्येतत् - ६.५.४.[१३]

तां परिगृह्य निदधाति । मित्रैतां त उखां परिददाम्यभित्त्या एषा मा भेदीत्ययं वै वायुर्मित्रो योऽयं पवते तस्मा एवैनामेतत्परिददाति गुप्त्यै ते हेमे लोका मित्रगुप्तास्तस्मादेषां लोकानां न किं चन मीयते - ६.५.४.[१४]

अथैनामाच्छृणत्ति । स्थेम्ने न्वेवाथो कर्मणः प्रकृततायै यद्वेवाच्छृणत्ति शिर एतद्यज्ञस्य यदुखा प्राणः पयः शीर्षंस्तत्प्राणं दधात्यथो योषा वा उखा योषायां तत्पयो दधाति तस्माद्योषायां पयः - ६.५.४.[१५]

अजायै पयसाऽऽच्छृणत्ति । प्रजापतेर्वै शोकादजा समभवन्प्रजापतिरग्निर्नो वा आत्मात्मानं हिनस्त्यहिंसायै यद्वेवाजाया अजा ह सर्वा ओषधीरत्तिसर्वासामेवैनामेतदोषधीनां रसेनाऽऽच्छृणत्ति - ६.५.४.[१६]

वसवस्त्वाऽऽच्छृन्दन्तु । गायत्रेण च्छन्दसाऽङ्गिरस्वद्रुद्रास्त्वाऽऽच्छृन्दन्तु त्रैष्टुभेन च्छन्दसाऽङ्गिरस्वदादित्यास्त्वाऽऽच्छृन्दन्तु जागतेन च्छन्दसाऽङ्गिरस्वद्विश्वे त्वा देवा वैश्वानराऽ आच्छृन्दन्त्वानुष्टुभेन च्छन्दसाऽङ्गिरस्वदित्येताभिरेवैनामेतद्देवताभिराच्छृणत्ति स वै याभिरेव देवताभिः करोति ताभिर्धूपयति ताभिराच्छृणत्ति यो वाव कर्म करोति स एवं तस्योपचारं वेद
तस्माद्याभिरेव देवताभिः करोति ताभिर्धूपयति ताभिराच्छृणत्ति - ६.५.४.[१७]