रघुवंशम्/सप्तमः सर्गः

विकिस्रोतः तः
← षष्ठः सर्गः रघुवंशम्
सप्तमसर्गः
कालिदासः
अष्टमः सर्गः →
रघुवंशस्य सर्गाः
  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः
  14. चतुर्दशः सर्गः
  15. पञ्चदशः सर्गः
  16. षोडशः सर्गः
  17. सप्तदशः सर्गः
  18. अष्टादशः सर्गः
  19. एकोनविंशः सर्गः

अथोपयन्त्रा सदृशेन युक्तां स्कन्देन साक्षादिव देवसेनां ।
स्वसारं आदाय विदर्भनाथः पुरप्रवेशाभिमुखो बभूव । । ७.१ । ।

सेनानिवेशान्पृथिवीक्षितोऽपि जग्मुर्विभातग्रहमन्दभासः ।
भोज्यां प्रति व्यर्थमनोरथत्वाद्रूपेषु वेषेषु च साभ्यसूयाः । । ७.२ । ।

सांनिध्ययोगात्किल तत्र शच्याः स्वयंवरक्षोभकृतां अभावः ।
काकुत्स्थं उद्दिश्य समत्सरोऽपि शशाम तेन क्षितिपाललोकः । । ७.३ । ।

तावत्प्रकीर्णाभिनवोपचारं इन्द्रायुधद्योतिततोरणाङ्कं ।
वरः स वध्वा सह राजमार्गं प्राप ध्वजच्छायनिवारितोष्णं । । ७.४ । ।

ततस्तदालोकनतत्पराणां सौधेषु चामीकरजालवत्सु ।
बभूवुरित्थं पुरसुन्दरीणां त्यक्तान्यकार्याणि विचेष्टितानि । । ७.५ । ।

आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः ।
बद्धुं न संभावित एव तावत्करेण रुद्धोऽपि हि केशपाशः । । ७.६ । ।

प्रसाधिकालम्बितं अग्रपादं आक्षिप्य काचिद्द्रवरागं एव ।
उत्षृषृअलीलागतिरा गवाक्षाद्ययौ शलाकां अपरा वहन्ती । । ७.७ । ।

विलोचनं दक्षिणं अञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा ।
तथैव वातायनसंनिकर्षं ययौ शलाकां अपरा वहन्ती । । ७.८ । ।

जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्नां न बबन्ध नीवीं ।
नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाववलम्ब्य वासः । । ७.९ । ।

अर्धाचिता सत्वरं उत्थितायाः पदे पदे दुर्निमिते गलन्ती ।
कस्याश्चिदासीद्रशना तदानीं अङ्गुष्ठमाउलार्पितसूत्रशेषा । । ७.१० । ।

स्तनंधयन्तं तनयं विहाय विलोकनाय त्वरया व्रजन्ती ।
संप्रस्नुताभ्यां पदवीं स्तनाभ्यां सिषेच काचित्पयस्ऽऽ आ गवाक्षाथ् । । ७.१०* । ।

तासां मुखैरासवगन्धगर्भैर्व्याप्तान्तराः सान्द्रकुतूहलानां ।
विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्त्राभरणा इवासन् । । ७.११ । ।

ता राघवं दृष्टिभिरापिबन्त्यो नार्यो न जग्मुर्विषयान्तराणि ।
तथा हि शेषेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिव प्रविष्टा । । ७.१२ । ।

स्थाने वृता भूपतिभिः परोक्षैः स्वयंवरं साधुं अमंस्त भोज्या ।
पद्मेव नारायणं अन्यथासौ लभेत कान्तं कथं आत्मतुल्यं । । ७.१३ । ।

परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वं अयोजयिष्यथ् ।
अस्मिन्द्वये रूपविधानयत्नः पत्युः प्रजानां वितथोऽभविष्यथ् । । ७.१४ । ।

रतिस्मरौ नूनं इमावभूतां राज्ञां सहरेषु तथा हि बाला ।
गतेयं आत्मप्रतिरूपं एव मनो हि जन्मान्तरसंगतिज्ञं । । ७.१५ । ।

इत्युद्गताः पौरवधूमुखेभ्यः शृण्वन्कथाः श्रोतसुखाः कुमारः ।
उद्भासितं मङ्गलसंविधाभिः संबन्धिनः सद्म समाससाद । । ७.१६ । ।

ततोऽवतीर्याशु करेणुकायाः स कामरूपेश्वरदत्तहस्तः ।
वैदर्भनिर्दिष्टं अथो विवेश नारीमनांसीव चतुष्कं अन्तः । । ७.१७ । ।

महार्हसिंहासनसंस्थितोऽसौ सरत्नं अर्घ्यं मधुपर्कमिश्रं ।
भोजोपनीतं च दुकूलयुग्मं जग्राह सार्धं वनिताकटाक्षैः । । ७.१८ । ।

दुकूलवासाः स वधूसमीपं निन्ये विनीतैरवरोधरक्षैः ।
वेलासाक्शं स्फुटपेहराजिर्नवैरुदन्वानिव चन्द्रपादैः । । ७.१९ । ।

तत्रार्चितो भोजपतेः पुरोधा हुत्वाग्निं आज्यादिभिरग्निकल्पः ।
तं एव चाधाय विवाहसाक्ष्ये वधूवरौ संगमयां चकार । । ७.२० । ।

हस्तेन हस्तं परिगृह्य वध्वाः स राजसूनुः सुतरां चकाशे ।
अनन्तराशोकलताप्रवालं प्राप्येव चूतः प्रतिपल्लवेन । । ७.२१ । ।

आसीद्वरः कण्टकितप्रकोष्टः स्विन्नाङ्गुलिः संववृते कुमारी ।
वृत्तिस्तयोः पाणिसमागमेन समं विभक्तेव मओभवस्य । । ७.२२ । ।

तयोरपाङ्ग-प्रतिसारितानि क्रियासमापत्तिवर्तितानि ।
ह्रीयन्त्रणां आनशिरे मनोज्ञां अन्योन्यलोलानि विलोचनानि । । ७.२३ । ।

प्रदक्षिणप्रक्रमणात्कृषानोरुदर्चिषस्तन्(?) मिथुनं चकाशे ।
मेरोरुपान्तेष्विव वर्तमानं अन्योन्यसंसक्तं अहस्त्रियामं । । ७.२४ । ।

नितम्बगुर्वी गुरुणा प्रयुक्ता वधूर्विधातृप्रतिमेन तेन ।
चकार सा मत्तचकोरनेत्रा लज्जावती लाजविसर्गं अग्नौ । । ७.२५ । ।

हविःशमीपल्लवलाजगन्धिः पुण्यः कृशानोरुदियाय धूमः ।
कपोलसंसर्पिशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे । । ७.२६ । ।

तदञ्जनक्लेदसमाकुलाक्षं प्रम्लानभीजाङ्कुरकर्णपूरं ।
वधूमुखं पाटलगण्डलेखं आचारधूमग्रहणाद्बभूव । । ७.२७ । ।

तौ स्नातकैर्बन्धुमता च राज्ञा पुरंध्रिभिश्च क्रमशः प्रयुक्तं ।
कन्याकुमारौ कनकासनस्थावार्द्राक्षतारोपणं अन्वभूतां । । ७.२८ । ।

इति स्वसुर्भोजकुलप्रदीपः संपाद्य पाणिग्रहणं स राजा ।
महीपतीनां पृथगर्हणार्थं समादिदेशाधिकृतानधिश्रीः । । ७.२९ । ।

लिङ्गैर्मुदः संवृतविक्रियास्ते ह्रदाः प्रसन्ना इव गूढनक्राः ।
वैदर्भं आमन्त्र्य ययुस्तदीयां प्रत्यर्प्य पूजां औप्दाछलेन । । ७.३० । ।

स राजलोकः कृतपूर्वसंविदारम्भसिद्धौ समयोपलभ्यम्) ।
आदास्यमानः प्रम्दामिषं तदावृत्य पन्थानं अजस्य तस्थौ । । ७.३१ । ।

भर्तापि तावत्क्रथकैषिकानां अनुष्ठितानन्तरजाविवाहः ।
सत्त्वानुरूपाहरणी कृतश्रीः प्रास्थापयद्राघवं अन्वगाच्च । । ७.३२ । ।

तिस्रस्त्रिलोकी प्रथितेन सार्धं अजेन मार्गे वसतीरुषित्वा ।
तस्मादपावर्तत कुण्डिनेशः पर्वात्यये स्ॐअ इवोष्णरश्मेः । । ७.३३ । ।

प्रमन्यवः प्रागपि कोसलेन्द्रे प्रत्येकं आत्तस्वतया बभूवुः ।
अतो नृपाश्चक्षमिरे समेताः स्त्रीरत्नलाभं न तदात्मजस्य । । ७.३४ । ।

तं उद्वहन्तं पथि भोजकन्यां रुरोध राजन्यगणः स दृप्तः ।
बलिप्रदिष्टं श्रियं आददानं त्रैविक्रमं पादं इवेन्द्रशत्रुः । । ७.३५ । ।

तस्यः स रक्षार्थं अनल्पयोधं आदिष्य पित्र्यं सचिवं कुमारः ।
प्रत्यग्रहीत्पार्थिववाहिनीं तां ज्योतीरथां शोण इवोत्तरङ्गः । । ७.३६ । ।

पत्तिः पदातिं रथिनं रथेशस्तुरंगसादी तुरगाधिरूढं ।
यन्ता गजस्याभ्यपतद्गजस्थं तुल्यप्रतिद्वन्द्वि बभूव युद्धं । । ७.३७ । ।

नदत्सु तूर्येष्वविभाव्यवाचो नोदीरयन्ति स्म कुलोपदेशान् ।
बाणाक्षरैरेव परस्परस्य नामोर्जितं चापभृतः शशंसुः । । ७.३८ । ।

उत्थापितः संयति रेणुरश्वैः सान्द्रीकृतः स्यन्दनवंशचक्रैः ।
चिस्तारितः कुञ्जरकर्णतालैर्नेत्रक्रमेणोपरुरोध सूर्यं । । ७.३९ । ।

मत्स्यध्वजा वायुवशाद्विदीर्णैर्मुखैः प्रवृद्धद्वजिनीरजांसि ।
बभुः पिबन्तः परमार्थमत्स्याः पर्याविलानीव नवोदकानि । । ७.४० । ।

रथो रथाङ्गध्वनिना विजज्ञे विलोलघण्टाक्वणितेन नागः ।
स्वभर्तृनामग्रहणाद्बभूव सान्द्रे रजस्यात्मपरावबोधः । । ७.४१ । ।

आवृण्वतो लोचनमार्गं आजौ रजोऽन्धकारस्य विजृम्भितस्य ।
शस्त्रक्षताश्वद्विपवीरजन्मा बालारुणोऽभूद्रुधिरप्रवाहः । । ७.४२ । ।

स च्छिन्नमूलः क्षतजेन रेणुस्तस्योपरिष्टात्पवनावधूतः ।
अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूम इवाबभासे । । ७.४३ । ।

प्रहारमूर्छापगमे रथस्थान्यन्तःनुपालभ्य निवर्तिताश्वाः ।
यैः सादिता लक्षितपूर्वकेतूंस्तानेव सामर्षतया निजघ्नुः । । ७.४४ । ।

अप्यर्धमार्गे परबाणलूना धनुर्भृतां हस्तवतां पृषत्काः ।
संप्रापुरेवात्मजवानुवृत्त्या पूर्वार्धभागैः फलिभिः शरव्यं । । ७.४५ । ।

आधोरणानां गजसंनिपाते शिरांसि चक्रैर्निशितैः क्षुराग्रैः ।
हतान्यपि आयेननखाग्रकोटिव्यासक्तकेशानि चिरेण पेतुः । । ७.४६ । ।

पूर्वं प्रहर्ता न जघान भूयः प्रतिप्रहाराक्षमं अश्वसादी ।
तुरंगमस्कन्धनिषण्णदेहं प्रत्याश्वसन्तं रिपुं आचकाङ्क्ष । । ७.४७ । ।

तनुत्यजां वर्मभृतां विकोशैर्बृहत्सु दन्तेष्वसिभिः पतद्भिः ।
रणक्षितिः शोणितमद्यकुल्या गजा विविग्नाः करशीकरेण । । ७.४८ । ।

शिलीमुखोत्कृत्तशिरःफलाढ्या च्युतैः शिरत्रैश्चषकोत्तरेव ।
रणक्षितिः शोणितमद्यकुल्या रराज मृत्योरिव पानभूमिः । । ७.४९ । ।

उपान्तयोर्निष्कुषितं विहंगैराक्षिप्य तेभ्यः पिशितप्रियापि ।
केयूरकोटिक्षततालुदेशा शिवा भुजच्छेदं अपाचकार । । ७.५० । ।

कश्चिद्द्विषत्खड्गहृतोत्तमाङ्गः सद्यो विमानप्रभुतां उपेत्य ।
वामाङ्गसंसक्तसुराङ्गनः स्वं नृत्यत्कबन्धं समरे ददर्श । । ७.५१ । ।

अन्योन्यसूतोन्मथनादभूतां तावेव सूतौ रथिनौ च कौचिथ् ।
व्यश्वौ गदाव्यायतसंप्रहारौ बग्नायुधौ बाहुविमर्दनिष्ठौ । । ७.५२ । ।

परस्परेण क्षतयोः प्रहर्त्रोरुत्क्रान्तवाय्वोः समकालं एव ।
अमर्त्यभावेऽपि कयोश्चिदासीदेकासरःप्रार्थितयोर्विवादः । । ७.५३ । ।

व्यूहावुभौ तावितरेतरस्माद्भङ्गं जयं चापतुरव्यवस्थं ।
पश्चात्पुर्ॐआरुतयोः प्रवृद्धौ पर्यायवृत्त्येव महार्णवोर्मी । । ७.५४ । ।

परेण भग्नेऽपि बले महौजा ययावजः प्रत्यरिसैन्यं एव ।
धूमो निवर्तेत समीरणेन यतो हि कक्षस्तत एव वह्निः । । ७.५५ । ।

रथी निषङ्गी कवची धनुष्मान्दृप्तः स राजन्यकं एकवीरः ।
निवारयां आस महावराहः कल्पक्षयोद्धूतं इवार्णवाम्भः । । ७.५६ । ।

स दक्षिणं तूण-मुखेन वामं व्यापारयन्हस्तं अलक्ष्यताजौ ।
आकर्णकृष्टा सकृदस्य योद्धुर्मौर्वीव बाणान्सुषुवे रिगुफ्नान् । । ७.५७ । ।

स रोषदष्टाधिकलोहितोष्ठैर्व्यक्तोर्ध्वरेका भृकुटीर्वहद्भिः ।
तस्तार गां भल्लनिकृत्तकण्ठैर्हुंकारगर्भैर्द्विषतां शिरोभिः । । ७.५८ । ।

सर्वैर्बलाङ्गैर्द्विरदप्रधानैः सर्वायुधैः कङ्कटभेदिभिश्च ।
सर्वप्रयत्नेने च भूमिपालास्तस्मिन्प्रजह्रुर्युधि सर्व एव । । ७.५९ । ।

सोऽस्त्रव्रजैश्छन्नरथः परेषां ध्वजाग्रमात्रेण बभूव लक्ष्यः ।
नीहारमग्नो दिनपूर्वभागः किंचित्प्रकाशेन विवस्वतेव । । ७.६० । ।

प्रियंवदात्प्रापं असौ कुमारः प्रायुङ्क्त राजस्वधिराजसूनुः ।
गान्धर्वं अस्त्रं कुसुमास्त्रकान्तः प्रस्वापनं स्वपनिवृत्तलौल्यः । । ७.६१ । ।

ततो धनुष्कर्षणमूढहस्तं एकांसपर्यस्तशिरस्त्रजालं ।
तस्थौ ध्वजस्तम्भनिषण्णदेहं निद्राविधेयं नरदेवसैन्यं । । ७.६२ । ।

ततः प्रियोपात्तरसेऽधरोष्ठे निवेश्य दध्मौ जलं कुमारः ।
येन स्वहस्तार्जितं एकवीरः पिबन्यशो मूर्तं इवाभासे । । ७.६३ । ।

शङ्खस्वनाभिज्ञतया निवृत्तास्तं सन्नशत्रुं ददृशुः स्वयोधाः ।
निमीलितानां इव पङ्कजानां मध्ये स्फुरन्तं प्रतिमाशशाङ्कं । । ७.६४ । ।

सशोणितैस्तेन शिलीमुखाग्रैर्निक्षेपिताः केतुषु पार्थिवानां ।
यशो हृतं संप्रति राघवेण न जीवितं वः कृपयेति वर्णाः । । ७.६५ । ।

स चापकोटीनिहितैकबाहुः शिरस्तनिष्कर्षणभिन्नमुलिः ।
ललाटबद्धश्रमवारिबिन्दुर्भीतां प्रियां एत्य वचो बभाषे । । ७.६६ । ।

इतः परानर्भकहार्यशस्त्रान्वैदर्भि पश्यानुमता मयासि ।
एवंविधेनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममभिः । । ७.६७ । ।

तस्याः प्रतिद्वन्द्विभवाद्विषादात्सद्यो विमुक्तं मुखं आबभासे ।
निश्वासबाष्पापगमात्प्रपन्नः प्रसादं आत्मीयं इवात्मदर्षाः । । ७.६८ । ।

हृष्टापि सा ह्रीविजिता न साक्षाद्वाग्भिः सखीनां प्रियं अभ्यनन्दथ् ।
स्थली नवाम्भःपृषताभिवृष्टा मयूरकेकाभिरिवाभ्रवृन्दं । । ७.६९ । ।

इति शिरसि स वामं पादं आधाय राज्ञां उदवहदनवद्यां तां अवद्यादपेतह् ।
रथतुरगरजोभिस्तस्य रूक्षालकाग्रा समरविजयलष्मीः सैव मूर्ता बभूव । । ७.७० । ।

प्रथमपरिगतार्थस्तं रघुः संनिवृत्तं विजयिनं अभिनन्द्य श्लाघ्यजायासमेतं ।
तदुपहितकुटुम्बः शान्तिमार्गोतुस्कोऽभून्न हि सति कुलधुर्ये सूर्यवंश्या गृहाय । । ७.७१ । ।