सामग्री पर जाएँ

विश्वामित्रसंहिता/अध्यायः ६

विकिस्रोतः तः
← अध्यायः ५ विश्वामित्रसंहिता
अध्यायः ६
[[लेखकः :|]]
अध्यायः ७ →
विश्वामित्रसंहितायाः अध्यायाः

षष्ठोऽध्याय:
काश्यप:
भगवन् कथ्यतां मह्मं गुरुणानेन किं खलु ।
शिष्येभ्य उपदेष्टव्यं कथं वा तेन गृह्मते ।। 6.1 ।।
विश्वामित्र:----
आचर्येणोपदेष्टव्या मन्त्रा: प्रणवपूर्वका: ।
प्रणवस्य समुद्धार: श्रूयतां प्रथमं द्विज ।। 6.2 ।।
प्रथमं विष्णुमुद्धृत्य श्रीधरं तदनन्तरम् ।
एकीकृत्याचरेदेतौ मन्दरं तदनन्तरम् ।। 6.3 ।।
एष प्रणव इत्युक्त: परब्रह्मप्रवक्तृक: ।
एकाक्षरो मनुरयं प्लुतोदात्तमिमं पठेत् ।। 6.4 ।।
ऋषिर्ब्रह्मा भवेदस्य देवीगायत्रसंज्ञितम् ।
छन्दोऽस्य प्रतिपाद्यं तु परमात्मा हरि: स्वयम् ।। 6.5 ।।
बुद्धिस्तत्त्वं स्मृतं क्षेत्रं परमं पदमुच्यते ।
सितो वर्ण: समुद्दिष्ट: षडङ्गान्यपि मे शृणु ।। 6.6 ।।
ज्ञानैश्वर्येऽथ(?)शक्तिश्च बलवीर्ये सतेजसी ।
नम: स्वाहा वषट् हुंफट् वौषडन्तानि तान्यपि ।। 5.7 ।।
चतुर्थ्यन्तानि हृदये शिरस: शिखया सह ।
कवचास्त्रे सनयने क्रमेणैतेन विन्यसेत् ।। 5.8 ।।
आद्यमेषां त्रयाणां स्यात् बीजं बिन्दुविभूविभूषितम् ।
शक्तिं स तद्विदु: सर्वमेनं तत्त्वं जपेन्मनुम् ।। 69 ।।
अविज्ञातऋषिच्छन्दोदेवताबीजशक्तय: ।
मन्त्रा: सर्वे चाङ्गहीना निष्फला जपकर्मणि ।। 6.10 ।।
तस्मात् सर्वं विदित्वैव जपकर्म समाचरेत् ।
प्रणम्य स्वगुरं पूर्वं तद्गुरूंश्चान्वगस्य तु ।। 6.11 ।।
मन्त्रमूर्त्यादिकान् पश्चात् नत्वैतज्जपमाचरेत् ।
प्रथमं व्यापकन्यासं वर्णन्यासमत: परम् ।। 6.12 ।।
अङ्गन्यासं च तदनु करयोर्वपुषि क्रमात् ।
कृत्वा जपविधिं सम्यगाचरेन्मुनिपुंगव ।। 6.13 ।।
मातृकान्यासपूर्वस्तु सर्वमन्त्रजप: स्मृत: ।
शिरोमध्येऽथ वदने टृष्ठिश्रोत्रनसायुगे ।। 6.14 ।।
कपोलोष्ठोदरद्वन्द्वे ऊर्ध्वाश्चास्यमध्यगे ।
अच: क्रमेण विन्यस्य करयो: पादयोरपि ।। 6.15 ।।
संध्यग्रेषु क्रामान्यस्य इलां वर्गचतुष्टयम् ।
पञ्कमं पार्श्वयो: पृष्ठे नाभो च जठरे तथा ।। 6.16 ।।
वक्ष:कक्षापरगलकण्ठेष्वपि चतुष्टयम् ।
यकारादि तत: पश्चाच्छकारादिचतुष्टयम् ।। 6.17 ।।
हृत्पाणिपादयुगले कक्षे हृदि मुखान्तरे ।
विन्यस्य मातृकामेव मूर्तिशक्तियुतां तु वा ।। 6.18 ।।
जप:पुंसां समुद्दिष्टो वाग्देवीसंप्रसादक: ।
भाष्यं प्रणवमन्त्रस्य श्रुणुष्वैकमना द्विज ।। 6.19 ।।
अकारार्थो भवेद्विष्णुर्मकारो जीववाचक: ।
?B अवधारणवाची स्यादुकारेण त्रयेण तु ।। 20 ।।
जीवो नारायणस्यैवेत्ययमर्थो निरूपित: ।
लक्षत्रयं जपेन्मन्त्रं तदर्धं तर्पयेदपि ।। 6.21 ।।
होमश्चापि तदर्धं स्यादेवं कृत्वा ततो मनु: ।
सिद्ध: स्यात् सिद्धिमात्रेण सर्वकर्म समाचरेत् ।। 6.22 ।।
शाकयावकभैक्षाशी त्रिसन्ध्यं स्नानमाचरेत् ।
कृतोर्ध्वपुण्ड्र: सततं देवतालयगोष्ठ: ।। 6.23 ।।
पर्वताग्रे नदीतीरे समुद्रतटसंश्रित: ।
अथवा बिल्वमूलस्थो जपकर्म समाचरेत् ।। 6.24 ।।
एवं [प्रणवसिद्धस्य] हैहिकामुष्मिकं फलम् ।
करसंपुटसंस्थं स्यात् तस्मादेवं तु साधयेत् ।। 6.25 ।।
एतस्सन्न परो मन्त्र: सर्वसिद्धिप्रदायक: ।
सर्वे वेदा: समुत्पन्न: प्रणवान्मन्त्रनायकात् ।। 6.26 ।।
अन्त्यकाले हरिं ध्यायन् वाचा प्रणवमुच्चरन् ।
योगशास्त्रोक्तमार्गेण य: शरीरं परित्यजेत् ।। 6.27 ।।
स याति परमं धाम नारायणसमाह्वयम् ।
अथाष्टाक्षरमन्त्रस्य समुद्धारं वदाम्यहम् ।। 6.28 ।।
प्रणवं पूर्वमुद्त्य भद्रपाणिं सविष्णुकम् ।
ओतदेवयुतं दक्षं विघ्रशं च सगोपनम् ।। 6.29 ।।
विश्वात्मानं सादिदेवं शङ्खमादिसमन्वितम् ।
द्वितीयस्वरसंयुक्तं वनमालीं (?) समुद्धरेत् ।। 6.30 ।।
अप्रमेयेन संयुक्तं चतुर्गतिमथोद्धरेत् ।
एवमष्टाक्षरो मन्त्र उद्धृत: सर्वसाधक: ।। 6.31 ।।
ओकारादियुतं बीजमर्धेन्दुकृतशेखरम् ।
शक्तिरायेति मन्त्रान्तोऽस्यान्तर्यामी मुनि: स्मृत: ।। 6.32 ।।
छन्दो गायत्रमुद्दिष्टं देवीपूर्वं च देवाता ।
परमात्मा समुद्दिष्ट: क्षेत्रं व्योम परं स्मृतम् ।। 6.33 ।।
[वर्णा(र्ण ?): शुक्ल(क्लो ?) भवेदस्म] प्रत्यक्षरमृषिन् शृणु ।
गौतमश्च भरद्वाजो विश्वामित्र अनन्तरम् ।। 6.34 ।।
जमदग्रिवसिष्ठौ च काश्यपा[ग्रि(त्री ?)सकुम्भजौ ] ।
ऋषयोऽष्टौ क्रमादेते वर्णनां समुदाहृता: ।। 6.35 ।।
गायत्र्यादिविराडन्तच्छन्दोऽष्टकमुदाहृता: ।
धरा ध्रुवश्च सोमश्च तथापोऽग्निर्जलेश्वर: ।। 6.36 ।
प्रत्यूष: संप्रभासश्च देवान् प्रत्यक्षरं विदु: ।
क्षेत्राणि परमाकाशं सत्याद्यं लोकसप्तकम् ।। 6.37 ।।
[पृथिव्यन्तर्व्यु(न्तं व्यु ?त्क्रमेण] वर्णानां क्रमवर्तिनाम् ।
तत्त्वान्यग्निर्वायुवियत् सूर्यो द्यौरश्च चन्द्रमा: ।। 6.38 ।।
नक्षत्रसंघा: क्रमशो? विद्युद्वर्णाष्टकस्य तु ।
नारा नराणां संघाता नराणां सूनवोऽथवा ।। 6.39 ।।
आपोऽथवा समुद्दिष्टा: तेषामयनमित्ययम् ।
आस्यन्ते वायनमिति तेन: नारायण: स्मृत: ।। 6.40 ।।
तदीयोऽहं मदीयो न भवेयमिति चार्थना ।
अस्यार्थ: कथितो विप्र नरस्तस्मै करोति वा ।। 6.41 ।।
दीक्षापूर्वं गुरोर्लब्धवा मन्त्रमेनं शुभेऽहनि ।
मार्गशीर्षे सिते पक्षे द्वादश्यां भक्तिपूर्वकम् ।। 6.42 ।।
नारायणं समाराध्य चक्राब्जे मण्डलोत्तमे ।
नीलाम्बुदप्रतीकाशं पुण्डरीकायतेक्षणम् ।। 6.43 ।।
चतुर्भिर्बाडुकमलै: शङ्खचक्रगदाम्बुजम् ।
दधानं सौम्यवपुषं नीलकु?ञ्चितमूर्घजम् ।। 6.44 ।।
वसानं पीतवसने पूर्णचन्द्रनिभाननम् ।
ताम्रोष्ठं चारुहसितं लसन्मकरकुण्डलम् ।। 6.45 ।।
श्रीवत्सं कौस्तुभं चैव बिभ्राणं बृहतोरसा ।
मकुटाङ्गदहारादिसर्वाभरणभूषितम् ।। 6.46 ।।
वनमालां दधानं च सूर्यकोटिसमप्रभम् ।
रत्नसिंहासनासीनं लक्ष्म्या देव्या भुवा सह ।। 6.47 ।।
ध्यायन्नेवं शुचिर्भूत्वा जपेन्मन्त्रवरं सुधी: ।
हविष्याशी ब्रह्मचारी लक्षानष्टौ मुदान्वित: ।। 6.48 ।।
चतुर्लक्षं तर्पयेच्च सुशुद्धोषसि काश्?यप ।
लक्षद्वयं च जुहुयात् पायसेन तिलैस्तथा ।। 6.49 ।।
हविषाज्येन ?बिल्वोत्थसमिदिभरपि नित्यश: ।
एवं कृतवत: पुंसो मन्त्रनाथ: प्रसिध्यति ।। 6.50 ।।
सिद्धिसंसूचकांश्चैव सुस्वप्रापि पश्यति ।
एवं संसाधितो मन्त्र: सर्वकामप्रदो भवेत् ।। 6.51 ।।
धर्मार्थकाममोक्षणां यद्वाञ्छति तदेव तत् ।
नित्यं जापदौ कृत्वा त्रीन् प्राणायामाननन्यधी: ।। 6.52 ।।
करयोश्च शरीरे च व्यापकं प्रथमं न्यसेत् ।
न्यासश्च त्रिविध: प्रोक्त: स सृष्टिस्थितिसंहृति: ।। 6.53 ।।
?दक्षिणाङ्गुमारभ्य वामाङ्गुष्ठान्तमेव य: ।
न्यासोऽयं सृष्टिसंज्ञ: स्यात् व्युत्क्रमेण च संहृति: ।। 6.54 ।।
अङ्गुष्ठादिकनिष्ठान्तमुभयो: करयोस्तु य: ।
स्थितिन्यासश्च संप्रोक्तो गृहस्थस्तं समाचरेत् ।। 6.55 ।।
सृष्टिन्यासं ब्रह्माचारी संन्यासी संहृति न्यसेत् ।
देहे च शिर आरभ्य पादान्त: सृष्टिसंज्ञक: ।। 6.56 ।।
संहारो विपरीत: स्यात् नाभ्यादिहृदयान्तक: ।
स्थितिन्यास: समुदित: त्रिष्वेकं न्यासमाचरेत् ।। 6.57 ।।
तर्जनीं दक्षिणकरादारभ्यार्णंचतुष्टयम् ।
प्रणवाद्यन्तसंयुक्तं तत्कनिष्ठावधि न्यसेत् ।। 6.58 ।।
सबीजकं वामकरेऽप्येवमेव चतुष्टयम् ।
अङ्गुष्ठाभ्यामङ्गुलीनां मध्यपर्वसु विन्यसेत् ।। 6.59 ।।
विन्यस्याङ्गानि च तथा करयोरुभयोरपि ।
अङ्गुष्ठादिकनिष्ठान्तं विन्यस्याङ्गानि वै दश ।। 6.60 ।।
शेषमङ्गद्वयं न्यस्येदङ्गुल्यग्रेषु विन्यसेत् ।
देहेऽपि व्यापकन्यासं कृत्वा वर्णाष्टकं पुन: ।। 6.61 ।।
नाभ्याध्योगुह्मजान्वग्रपादपूष्ठेष्वपि क्रमात् ।
शिरोऽक्षियुगनासाग्रहृदष्वपि विन्यसेत् ।। 6.62 ।।
कनिष्ठाङ्गुष्ठशिरसि संयोज्य प्रथमं न्यसेत् ।
अङ्गुष्ठाभिश्चतसृभिर्द्वितीयं न्यासमाचरेत् ।। 6.53 ।।
जानुनो नैतदग्रे स्यात् पादयो: ससमूरुभि: ।
[मूध्नर्याकया (?)] मध्यमया तर्जन्या सा च चक्षुषो: ।। 6.64 ।।
नामाग्रानामि?काङ्गुष्ठशिरोभ्यां हृदये पुन: ।
अङ्गुष्ठतर्जन्यग्राभ्यामष्टवर्णानि विन्यसेत् ।। 6.65 ।।
वर्णषट्कं पञ्चशिखं प्रणवादि सजातिकम् ।
षट्स्वङगेषु क्रमान्न्यस्य ज्ञानादिगुणसंयुतम् ।। 6.66 ।।
उपाङ्गषट्कं जठरं पृष्ठबाहूरुजानुषु ।
पदद्वये नमोऽन्तं च विन्यसेत् सचतुर्थकम् ।। 6.67 ।।
सप्तमाष्टमवर्णो द्वौ विन्यसेत्त्वङ्ध्रिपृष्ठयो: ।
अस्त्रमन्त्रेण दिग्बन्धं कृत्वा पश्चाच्च तर्जनीम् ।। 6.68 ।।
अग्रिप्राकारमन्त्रेण त्रि: परिक्रम्या चोर्ध्वगम् ।
जपादीनि च कर्माणि कुर्यादेवमतन्तिद्रत: ।। 6.69 ।।

     इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायां [अष्टाक्षरमन्त्रो-
द्धारविधिर्नाम] षष्ठोऽध्याय: ।।

------*------