विश्वामित्रसंहिता/अध्यायः २१
← अध्यायः २० | विश्वामित्रसंहिता अध्यायः २१ [[लेखकः :|]] |
अध्यायः २२ → |
विश्वामित्रसंहितायाः अध्यायाः |
---|
एकविंशोऽध्याय:
काश्प:---
देवालस्य निर्माणं देवस्य च विनिर्मित(ति ?)म् ।
श्रोतुमिच्छामि भगवन् किंचित् यंक्षिप्य [वक्ष्य] (चोच्य ?)ताम् ।। 21.1 ।।
विश्वामित्र:---
देवधाम्रो विनिर्माणप्रकारं श्णु काश्यप ।
यस्य श्रवणमात्रेण निर्माणफलमश्रुते ।। 21.2 ।।
अश्वमेधादिभिर्यज्ञैरिष्ट्वा यत्फलमाप्रुयात् ।
देवधामविनिर्माणसंल्पेन लभेत तत् ।। 21.3 ।।
शिलेष्टकाकाष्ठकृतमुत्तमाधममध्यमम् ।
शिला वै चोत्तमं मध्यमिष्टकारचितं द्विज ।। 21.4 ।।
अधमं काष्ठरचितं क्षुद्रं मृण्मयमुच्यते ।
यजमानानुकूलर्क्षे शुभे चैवोत्तरायणे ।। 21.5 ।।
शुभे योगे शुभे लग्रे भूमिभागस्य संग्रहम् ।?
विधाय तत्र देवेशं वराहतनुमच्युतम् ।। 21.6 ।।
प्रणम्य खातयेद्यावज्जलस्योद्ग्रमनं भवेत् ।
शल्यादीनपि चोद्धृत्य बहि: प्रक्षेपयेद् द्विज ।। 21.7 ।।
शुभसंदर्शने सिद्धिरशुभे शान्तिमाचरेत् ।
सौदर्शनेन मन्त्रेण हुने(?)दष्टसहस्त्रकम् ।। 21.8 ।।
वास्तुदेशस्थितान् देवान् पूजयेदवटे तत: ।
पाषाणवालुकाद्यैस्तं पूरयेदवटं तत: ।। 21.9 ।।
दक्षिणेनोन्नतं कृत्वा निम्रमुतरतोऽपि च ।
तं देशं गोमयाम्भोभि: समीकृत्य विशोध्य च ।। 21.10 ।।
जुहुयान्मूलमन्त्रेण सभिदाज्यचरून् पृथक् ।
अष्टोत्तरशतं मन्त्री पुण्डरीकाक्षमन्त्रकम् ।। 21.11 ।।
जपित्वा वाचयेत्पश्चात् पुण्याहं ब्राह्मणोत्तमै: ।
सथापतिस्थापकयुतो मतिमान् गणकै: सह ।। 21.12 ।।
तन्मध्ये स्थापयेच्छुङ्कुमृजुं ग्रन्थिविवर्जितम् ।
शङ्कुद्विगुणविस्तारं तद्ब्रहिजर्मण्डलं लिखेत् ।। 21.13 ।।
प्रात: सायं च गच्छाया मण्डलान्ते द्विजोत्तम ।
तत्र बिन्दुद्वयं कृत्वा प्राक्प्रत्यक् सूत्रयुग्मकम् ।। 21.14 ।।
क्षिप्त्वा बिन्द्वन्तरे भ्राम्येत् कच्छपाननपुच्छवत् ।
प्रागुदग्दिम्द्वयं ज्ञात्वा समीकृत्य च तत्पुन: ।। 21.15 ।।
उत्तरार्धपरं सूत्रं द्विहस्तं भ्रामयेत्तत: ।
त्रिहस्तं पञ्चहस्तं वा सप्तहस्तमथापि वा ।। 21.16 ।।
अधिकं वा यथेष्टं तत्सूत्राणि स्फालयेत् पृथक् ।
दिक्सूत्रं भ्रामयित्वा च लाञ्छयेत् कोणसूत्रकम् ।। 21.17 ।।
कोणदिक्संप्रसिद्ध्यर्थं कोणसूत्रं क्षिपेत्तत: ।
सूत्रस्य वृत्तभ्रमणात् समतां परिकल्प्य च ।। 21.18 ।।
सूत्रद्वयं समालम्ब्य कोटिं निणीयं च द्विज ।
क्रमेणैव दिशश्चाष्ठौ निर्णयेच्च पृथक् पूथक् ।। 21.19 ।।
तक्षव(वा ?)स्तुविघिज्ञेन चतुरश्रं विधाय च ।
निनादयेदष्ठशङ्कून् निमित्तानि च लक्षयेत् ।। 21.20 ।।
निमित्ते तु शुभे कार्यमशुभे शान्तिमाचरेत् ।
सौदर्शनेन जुहुयान्मन्त्रेणाष्ठसहस्त्रकम् ।। 21.21 ।।
वह्वयादियाम्कोणान्तमष्टौ देवा: स्थिता: पदे ।
मारुतादीशपर्यन्तं तथैवाष्टौ पदे स्थिता: ।। 21.22 ।।
अबाद्या: पृथ्विपर्यन्ता: स्थिता: शिष्टा: पदेष्वपि ।
उक्तै: संख्यै: (?) समाराध्य यथान्यायं गुरुर्द्विज ।। 21.23 ।।
पूरयेच्चैव तं देशं बालुकाभिर्यथा समम् ।
आरभेत तत: प्राज्ञ अधमं [दारुणा च यम्] ।। 21.24 ।।
गृहीतस्थानकं प्राच्यां दक्षिणे चोत्तरेऽपि वा ।
यथैवाभिमतस्थानं कुर्यात् कृत्रिममालयम् ।। 21.25 ।।
प्राकारं परित: कृत्वा कुर्यादग्रे च मण्डपम् ।
हैमं वा रूप्यमथवा तर्थोदुम्बरमेव वा ।। 21.26 ।।
हस्वकायधरं देवं चतुर्बाहुधरं हरिम् ।
विघाय जलवासादि क्रमात् कृत्वाथ मण्डपम् ।। 21.27 ।।
अविवास्य तथा कृत्वा मूर्तिहोमं च शान्तिकम् ।
सुप्रभाते सुलग्रे च विमले च तथाम्बरे ।। 21.28 ।।
प्रदक्षिणं घाम नीत्वा गर्भगेहं प्रवेशयेत् ।
एकहस्तसमायामविस्तारे तत्समोच्छ्रयम्(ये ?) ।। 21.29 ।।
वेदिमध्ये च संस्?थाप्य मूलमन्त्रेण देशिक: ।
निश्चलं स्थापयित्वा व तत्र देवं सनातनम् ।। 21.30 ।।
आदित्यमण्डलान्त:स्थं नाराणमनन्यधी: ।
आवाह्म च जितं तेन बिम्बमध्ये निवेशयेत् ।। 21.31 ।।
संपूज्य चथाशास्त्रं ततो विज्ञापयेदिदम् ।
यावद्धामसमाप्ति:स्यात् तावत्कालं सुरोत्तम ।। 21.32 ।।
अल्पगेहेऽत्र वस्तव्यमस्मत्प्रीत्या जनार्दन ।
इति विज्ञाप्य देवेशं दण्डवत् प्रणिपत्य च ।। 21.33 ।।
प्राप्ते चतुर्थदिवसे स्त्रापयित्वोत्तमेन तु ।
उत्सवं कारयित्वाथ तीर्थयात्रां च कारयेत् ।। 21.34 ।।
यजमानानुकूले तु शुभेऽहनि समाहित: ।
इष्टका द्वादशाष्ठौ वा चतस्त्रो वा शिवा: शिला: ।। 21.35 ।।
गृहीत्वा शिख(तक्ष ?)यित्वा च तक्षकै: शि(त ?)क्षित(ता?)तत: ।
पञ्चगव्यै: क्षालयित्वा मण्डपे चाधिवासयेत् ।। 21.36 ।।
इष्ठकानां दक्षिणत: कलशान् धान्यराशिषु ।
स्थापयित्वा विधानेन दिगीशान् पूजयेदथ ।। 21.37 ।।
कुम्?भं मध्ये च संस्थाप्य प्रागुक्तविधिना द्विज ।
तन्मध्ये पूजयित्वाथ ब्रह्मणां कमलासनम् ।। 21.38 ।।
क्षौमै: शुद्धैर्नवै: कुम्भै:(म्भं ?) कलशानिष्टका अपि ।
संवेष्टयोत्तरतो वह्निमाधाय विधिना द्विज ।। 21.39 ।।
समीकृत्य चरून् हुत्वा पृथगष्टोत्तरं शतम् ।
देशिको मूलमन्त्रेण जगरेण नयेन्निशाम् ।। 21.40 ।।
उदिते विमले सूर्ये सुमुहूर्ते समागते ।
द्वारदेशं तु संकल्प्य दक्षिणेन समाहित: ।। 21.41 ।।
कुम्भोदकेनाभिषिच्य ब्राह्मणानुमतेष्टका: ।
मनुना लोकपालानां कलशैरष्टभि: क्रमात् ।। 21.42 ।।
प्रासादमध्यगो भूत्वा जपेदष्टाक्षरं मनुम् ।
नरनारायणं देवं श्रिया सार्धं जगद्गुरुम् ।। 21.43 ।।
प्रणामं दण्डवत्कृत्वा प्रणवं मनुमुच्चरन् ।
द्वारदक्षिणभागे तु स्यापयेत् प्रथमेष्टकाम् ।। 21.44 ।।
चह्निकोणं समारभ्य प्रादक्षिण्येन विन्यसेत् ।
ऐन्द्राग्रि(न्त?)मिष्टकाश्चाष्टौ रक्षार्थं मन्दिरस्य च ।। 21.45 ।।
जपेत्सौदर्शनं मन्त्रमष्टोत्तरशतं सुधी: ।
अष्टाक्षरं च मन्त्रेशं वाराहं नारसिंह?कम् ।। 21.46 ।।
जपेदष्टोत्तरशतं पृथक् पृथगुदारधी: ।
प्रीणयित्वा च विप्रग्र्यान् शिल्पिसंघं च तोषयेत् ।। 21.47 ।।
वासोभिर्मूषणैश्चैव साघनैर्धान्यराशिभि: ।
आचार्याय च ऋत्विग्भ्य: क्रमाद्दत्वा च दक्षिणाम् ।। 21.48 ।।
भेरीकाहलशङ्खादिवादकानपि तोषयेत् ।
श्वभ्रमदिभश्च संपूर्य रत्नैर्धान्येश्च देशिक: ।। 21.49 ।।
गन्धाक्षतं च निक्षिप्य प्रणवं मन्त्रमुच्चरन् ।
परीक्षेत जलावर्तं शुभं चेज्जायते शुभम् ।। 21.50 ।।
अशुभे जुहुयादाम्नौ मनुनाष्टाक्षरेण तु ।
पूरयित्वावटं तच्च वालुकाभि: समन्तत: ।। 21.51 ।।
तत: प्रभृति तं देशं रक्षेच्चैकाग्रमानस: ।
हस्तत्रयं समारभ्या नवहस्तावधि द्विच ।। 21.52 ।।
हस्तैरयुग्मै: कुवींत क्रमादेकतलं द्विज ।
कुर्यात्ततश्च द्वितलं यत् त्रयोदशहस्तकम् ।। 21.53 ।।
हस्तैर्दशाधिकैर्वापि पञ्चोर्ध्वैर्वास्तुभूमिकाम् ।
प्रासादस्याधिकं कुर्यात् षड्ढस्तं तु विशेषत: ।। 21.54 ।।
एवमा द्वादशतलाद् विस्तारं विदधीत च ।
उत्तमं द्विगुणोच्छ्रायं विस्तारादुच्यते द्विज ।। 21.55 ।।
सप्तधा विहिते चैव विस्ताराद् द्वाशाङ्गुलम् ।
मध्यमं प्राहुरधममेकादशभिरंशकै: ।। 21.56 ।।
एवमा द्वादशतलागुत्सेधे विहिते सति ।
पदा च (नि?) सूत्रपातेन विदधीत च षोडशा ।। 21.57 ।।
चतुष्पदं गर्भगेहं मध्यं स्याद्ब्राह्मतस्तत: ।
भित्त्यर्थं द्वादशपदान्यन्यानि परिकल्नयेत् ।। 21.58 ।।
प्राच्योदीच्यैश्च षट्सूत्रै: पञ्चविंशतिसंख्यया ।
?B पदानि स्युर्नवनदं गर्भगेहान्तरं भवेत् ।। 21.59 ।।
पदै: षोडशाभि: कुर्यादिभत्ती: सर्वा: समन्तत: ।
प्रासादस्त्रिविध: प्रोक्तस्त्वाकृतीनां विभेदत: ।। 21.60 ।।
नागरं चतुरश्रं स्यादास्थूप्यन्तं द्वितोत्तम ।
प्रासादं कण्ठेशान्तमष्टाश्रं द्राविळं(डं?) भवेत् ।। 21.61 ।।
वृत्तमाकण्ठदेशान्तं तद्वेसरमुदाहृतम् ।
आयामे चतुरश्रं च व्यायामे वर्तुलं तथा ।। 21.62 ।।
चतुरश्रं तु वृत्तं वा चतुर्धा स्यात् पुनर्द्विज ।
कृत्वा तु धाम्नो विष्कम्भं पञ्चभागविभाजितम् ।। 21.63 ।।
तेषु त्रिषु विभागेषु सप्तधा त्रिभिरेव वा ।
अथवा नवभागेषु चतुर्भिर्वा प्रकल्पयेत् ।। 21.64 ।।
विस्तारं द्वारदेशस्य यद्वा गर्भगृहं द्विज ।
कृत्वा त्रिधैकभागेन तदर्धैकेन वा पुन: ।। 21.65 ।।
पञ्चस्वेकेन वा कर्याद् द्वारदेशत्य विस्तृति:(तिम्?) ।
विस्ताराद् द्विगुणं कुर्यादुत्सेधं भूसुरोत्तम ।। 21.66 ।।
प्रासादेष्वेवमेवाथ विहितं स्याद् द्विजोत्तम ।
मूतीनां स्थापनं वक्ष्ये समाहितमना: श्णु ।। 21.67 ।।
आद्ये तले तूपरिष्टात् स्थापयेच्च चतुर्दिशम् ।
वाराहं नारासिंहं च श्रीधरं हयववत्रकम् ।। 21.68 ।।
चतुर्षु कोणदेशेषु गरुडं तन्निभाननम् ।
आसीनं वा स्थितं वापि कुर्यात्तत्तद्दिगाननम् ।। 21.69 ।।
अथवा केणदेशेषु कल्पयेत् सिंहमेव वा ।
कर्णकूटेषु शालासु तथा द्वारान्तरेष्वपि ।। 21.70 ।।
कुमुदादीनुपेन्द्रादीन् सगणान् ?परिकल्पयेत् ।
सिद्धविद्याधरादींश्च नृत्यतो गायतोऽपि वा ।। 21.71 ।।
वाद्यवादनकारांश्च पश्यतोऽन्योन्यमेव तान् ।
कल्पयेदिभत्तिभागेषु शिल्पिशास्त्रविशारद: ।। 21.72 ।।
द्वितीये तु तले ब्रह्मन् शृणु देवान्. पृथक् पृथक् ।
नरं नारायणं चैव हरिं कृष्णं यथाक्रमम् ।। 21.73 ।।
कल्पयेच्चतुर्दिक्षु पूर्वाद्युत्तरपश्चिमम् ।
अन्येषु चावकाशेषु केशवादीन् सशक्तिकान् ।। 21.74 ।।
कल्पयेद् द्विजाशर्दूल भित्तिभागेषु पूर्ववत् ।
तले तृतीये कुवींत चतुर्दिक्षु यथाक्रमम् ।। 21.75 ।।
पुरुषं सत्यमनु च तथाच्युतमनन्तरम् ।
अनन्तमपि कुवींत शेषेषु च यथापुरम् ।। 21.76 ।।
इन्द्रादींश्चैव लोकेशानादित्यान् द्वादशापि च ।
गन्धर्वाप्सरसंधं च सकिंनरमहोरगम् ।। 21.77 ।।
नर्तनादिकृत: कुर्यात् सर्वानपि समन्तत: ।
चतुर्थेऽपि तले विप्र स्थितं देवगणं शृणु ।। 21.78 ।।
पूर्वे वा वामनं कुर्याद्दक्षिणस्यां त्रिविक्रमम् ।
पश्चिमायां जामदग्रि(ग्नय ?)सुत्तरस्यामपि द्विज ।। 21.79 ।।
बलदेवं विदध्याच्च शेषेष्वपि समन्तत: ।
वैभवं देवसंघातं पह्मनाभादिकं द्विज ।। 21.80 ।।
पञ्चमेऽपि तले कुर्याच्चतुर्दिक्ष्वपि काश्यप ।
सुदर्शनं पाञ्चजन्यं गदां पह्मं तथैव च ।। 21.81 ।।
मूर्धभि: स्वायुधधरान् कृताञ्जलिपुटान् क्रमात् ।
अवशिष्टेषु देशेषु कृष्णस्यापि विचेष्टितम् ।। 21.82 ।।
सप्तमेऽपि तले कुर्याच्चतुर्दिक्षु यथाक्रमम् ।
वासुदेवादिकान् देवाँश्चतुरोऽपि महामुने ।। 21.83 ।।
कर्णकूटेषु धर्मादीन् पञ्जरेषु यथाक्रमम् ।
[महाँश्च](?) चतुरो वेदान् कृतत्रेतादिकानपि ।। 21.84 ।।
दिव्यायुधानि कुर्वीत [हाराणा(?)]मन्तरेषु च ।
कोणेषु गरुडं कुर्यामुने सप्ततलेष्वपि ।। 21.85 ।।
सिंहानेव तथा कुर्याद्वीरसेनं सुषेणकम् ।
वीरनाथं सुभद्रं च भुजै: प्रासादधारिणौ ।। 21.86 ।।
कुर्याच्चतुर्दिशं विप्र चण्डादीन् द्वारपार्श्वत: ।
शङ्खपह्मनिधीन्(धी ?) कुर्यादेवं प्रासादेवता: ।। 21.87 ।।
कारयेद् द्विजवर्यास्य प्रासादस्य चतुर्दिशम् ।
संभवेत्युर्यदि पुरा प्रथमादितलेष्वपि ।। 21.88 ।।
तृतीयादितलेषूक्तदेवता एव कल्पयेत् ।
गोपुरेषु कृतेष्वेवं देवतान्यासमाचरेत् ।। 21.89 ।।
[प्रते](?)रूर्धवप्रदेशे तु भूतमालां विधापयेत् ।
हंसमालां च विप्राग्र्य यथेष्टं विदधीत च ।। 21.90 ।।
अधिष्ठानेऽपि चाधस्ताल्लोहिताक्षादि चाष्टकम् ।
चक्रादि चाष्टकं चैव कल्पयित्वा तदन्तरे ।। 21.91 ।।
आरभे(लिखेत् ?)दिभत्तिभागेऽपि प्रादुर्भावगणानपि ।
धाम्र: समन्तात्कुवीतं मालिकाविस्तृतिं द्विज ।। 21.92 ।।
कारयेत् स्त्रपनार्थं च तद्ब्रहिर्मण्टपं द्विज ।
पानीयशलां कुवींत विशालां शीतकारिणीम् ।। 21.93 ।।
वारुणे वाहनस्थानं मारुते वासुमन्दिरम् ।
शयनस्योत्तरे स्थानमीशे कुसुममण्डपम् ।। 21.94 ।।
तृतीयावरणे कुर्यादग्रेये नृत्तमण्डपम् ।
याम्ये गानालयं कुर्यात् सभां निऋर्तिकोणके ।। 21.95 ।।
वारुणे पुस्तकख्थानं वायौ धान्यालयं(यो ?)भवेत् ।
उत्तरस्यां दिशि भवेदधिकं(को ?) वैष्णवालयम् (य:?) ।। 21.96 ।।
गोशालां मध्यत: कुर्यात् सोमेशानदिशि द्विज ।
मातॄणामालयं कुर्यात् प्रासादस्य च दक्षिणे ।। 21.97 ।।
महानसस्य च पुर: कूप: कार्यो विजानता ।
एवं विदध्यात्प्रासादं गर्भन्यासमथो शृणु ।। 21.98 ।।
हैमं रौप्यं तथा ताम्रपात्रमायसमेव वा ।
षोडश्?ाङ्गुलविस्तारमथवा द्वादशाङगुलम् ।। 21.99 ।।
अष्टाङ्गुलं वा कुवींत यथेष्टं द्विजपुंगव ।
विस्तारस्यो(मु?)च्छ्रयं कुर्यात् तदर्धेन द्विजोत्तम ।। 21.100 ।।
वृत्तं वा चतुरश्रं वा चतुष्पादं द्विजाथवा ।
त्रिपादमथवा कुर्याद्यथेष्टं द्विजसत्तम ।। 21.101 ।।
अथवा गर्तनवकं विदधीत विचक्षण: ।
वेदिकां तत्पुर: कुर्यात् तामालिप्य च गोमयै: ।। 21.102 ।।
शालिभिर्मण्डलं कुर्यादष्टभारप्रमाणकै: ।
तदर्धतण्डुलयुतं वस्त्रैराच्छाद्य चापि तत् ।। 21.103 ।।
कुम्भं चोपरि विन्यस्येदम्भ:पूर्णं सरत्नकम् ।
पञ्चायुधं स्वर्णमयं कुम्भमम्ये च विन्यसेत् ।। 21.104 ।।
अर्चयेद्ग्रन्धपुष्पाद्यैर्ब्रह्मबीजेन देशिक: ।
परितस्तस्य कलशान् निधायाष्टौ समभाजयेत् ।। 21.105 ।।
इन्द्रादीशानपर्यन्तं कलशेष्वष्टकेषु च ।
क्षालयित्वा पञ्चगव्यै: पात्रं पूर्वं प्रकल्पितम् ।। 21.106 ।।
कलशै: कुम्भसहितै: प्रणवेनाभिशेचयेत् ।
स्थण्डिलं पूर्ववत्कृत्वा वस्त्रैराच्छाद्य दर्भकै: ।। 21.107 ।।
तन्मध्ये वेष्टयेत्पात्रं(?) वेष्टयित्वाम्बरैरपि ।
अद्रेर्मृदादि खर्णं च न्यसेत्पात्रावटेष्वथ ।। 21.108 ।।
सर्वेषु च सुवर्णादीन् ध्यात्वा ब्रह्मणमत्र च ।
अष्टाक्षरं जपन् मन्त्रं प्रसृतेन स्पृशेच्च तत् ।। 21.109 ।।
दैशिक: शीलसहितो जनान् सर्वान् विलम्बय च ।
गर्भगेहं प्रविश्याथ प्राङ्मुखो वाप्युदङ्मुख: ।। 21.110 ।।
दक्षिणे द्वारपार्श्वे तु भागौ द्वौ परिशिष्य च ।
तृतीयभागे विन्यत्य विशेषेणोरुमूलके ।। 21.111 ।।
पष्टिकायां तु देवानां गर्भन्यास: प्ररशस्यते ।
द्विजानां पट्टिकाधस्तान्नृपाणां कुमुदोपरि ।। 21.112 ।।
वैश्यानां कुमुदाधस्तात्तुर्याणां [जगतोपरि] (?) ।
गायत्र्या प्रोक्षणं कृत्वा वारुणे होममाचरेत् ।। 21.113 ।।
स्वनाम्रा केशवादींश्च घृतेन जुहुयात्तत: ।
इन्द्रादीन् ब्रह्मपर्यन्तान् पृथगश्टाहुतीर्हुनेत् (?) ।। 21.114 ।।
हुत्वा व्याहृतिभिश्चान्ते शास्त्रचोदितवर्त्मना ।
वैष्णवं शिल्पशस्त्रज्ञं क्रियासु कुशलं गुरु: ।। 21.115 ।।
एवंगुणसमायुक्तं [शृणुयाद्]द्विजपुंगव (?) ।
संपाताज्येन सिक्त्वाथ मूलविद्यां जपन् सुधी: ।। 21.116 ।।
अपिधाय च तत्पात्रं प्रणवेन समाहित: ।
दक्षिणाङ्गुष्ठशिरसा स्पृशन्नष्टाक्षरं जपेत् ।। 21.117 ।।
प्राङ्मुख: सेचने तत्र स्मरन् भूभिं कृताञ्जलि: ।
इमां गाथां जपेन्मन्त्ररूपिणीं देशिकोत्तम: ।। 21.118 ।।
सर्वभूतघरे कान्ते पर्वस्तनमण्डिते ।
समुद्रपरिधानीये देवि गर्भं समाश्रय ।। 21.119 ।।
अनेन विधिना रात्रौ गर्भन्यासं समाचरेत् ।
मूर्धेष्टकां विधायाथ शिल्पशास्त्रोक्तवर्त्मना ।। 21.120 ।।
स्थूपिकां संनिवेश्याथ स्थापयित्वा शिखाघटम् ।
वर्णकैर्लेपयित्वा च प्रासादं चापि सर्वत: ।। 21.121 ।।
पूजयित्वा गुरुं पूर्वं पूजयेच्छिल्पिनं बुध: ।
प्रासादं यो विधानेन वासुदेवस्य कारयेत् ।। 21.122 ।।
सर्व कुलं समुद्धृत्य विष्णुलोके सुपूज्यते ।।
इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायां
प्रासादनिर्माणं(णविधि:?)नाम एकविंशोऽध्याय: ।।
---------*---------