सामग्री पर जाएँ

विश्वामित्रसंहिता/अध्यायः २२

विकिस्रोतः तः
← अध्यायः २१ विश्वामित्रसंहिता
अध्यायः २२
[[लेखकः :|]]
अध्यायः २३ →
विश्वामित्रसंहितायाः अध्यायाः

द्वाविंशोऽध्याय:
विश्वामित्र:----
बिम्बस्य लक्षणं वक्ष्ये द्रव्यसंग्रहसंयुतम् ।
मणिजं लोहजं शैलं त्रिविधं बिम्बमुत्तमम् ।। 22.1 ।।
वज्रं च पह्मरागं च [वालवायो](?)दभवं तथा ।
ताम्रजं पैत्तलं चैव लोहान्येतानि सुव्रत ।। 22.2 ।।
शिला चतुर्विघा ज्ञेया सर्णयोगान्महामते ।
वारुणी च तथाग्रेयी माहेन्द्री वायवीति च ।। 22.3 ।।
तासु वै द्विविधा ग्रह्मा माहेन्द्री वारुणी तथा ।
आग्रेय्याख्या शिला चैव वायव्या[ख्य]शिला तथा ।। 22.4 ।।
वर्ज्या स्याद् द्विविधा ब्रह्मन् गर्भादीनपि वर्जयेत् ।
ट्टष्ट्वाथ शैलं विधिवदधिवासनमाचरेत् ।। 22.5 ।।
शैलस्य पश्चिमे भागे गोमयेन विलेपयेत् ।
पुरस्तस्य शैलस्य षङ्भारै: स्थण्डिलं द्विज ।। 22.6 ।।
कारयित्वा च तन्मध्ये न्यस्य कुम्भं सलक्षणम् ।
कलशानष्ट परितो दिक्ष्वष्टासु प्रक्लप्य च ।। 22.7 ।।
यथापुरं कुम्भमध्ये हेमरत्रादिकं न्यसेत् ।
क्षौमाभ्यां वेष्टयित्वा च तत्र ब्रह्मणमर्चयेत् ।। 22.8 ।।
कलशेषु तथेन्द्रादीनर्चयित्वचा विचक्षण: ।
क्रूरभूतप्रशान्त्यर्थं सर्वदिक्षु बलिं हरेत् ।। 22.9 ।।
चतुर्दिशं विदध्याच्च होममष्टशताहुती: ।
जुहुयान्मूलमन्त्रेण समिदाज्यचरूनपि ।। 22.10 ।।
कारयित्वा च पुण्याहवाचनं द्विजपुंगवै: ।
पश्चादवहितो भूत्वा मन्त्रमेतमुदीरयेत् ।। 22.11 ।।
ओ नम: सर्वलोकाय विष्णवे प्रभविष्णवे ।
विश्वाय विश्वरूपाय स्वप्राधिपतये नम: ।। 22.12 ।।
उत्सार्य च जनान् सर्वान् मन्त्रं चोदीरयेदिमम् ।
यक्षरक्ष:पिशाचाश्च येऽत्र तिष्ठन्ति नित्यश: ।। 22.13 ।।
ते सर्वेऽप्यपगच्छन्तु संनिधत्तां सदा हरि: ।
अभिधायोत्तमाकारं स्वम्रं पश्येत्तथा निशि ।। 22.14 ।।
यजमानेन सहितो देशिको मुनिपुंगव ।
यदि पश्येच्छुभं स्वग्रं शिलां गृह्णीत सुस्वराम् ।। 22.15 ।।
वर्जयेदशुभे ट्टष्टे प्रभाते चोत्थितो द्विज ।
अट्टष्टेऽपि च गृह्णीयादिति शास्त्रस्य निश्वय: ।। 22.16 ।।
आचार्य: शिल्पिभि: सार्धं गत्वा भूभिं विलोकयेत् ।
ऐन्द्राद्यग्रा शिला ग्राह्मा तथोर्ध्वाग्रापि चोत्तमा ।। 22.17 ।।
कोणदिक्छिरसो वर्ज्या ग्राह्या लक्षणसंयुता: ।
उत्पाट्य शैलं मतिमान् कुम्भै: समभिषिच्य च ।। 22.18 ।।
कलशैश्च तत: स्त्राप्य वस्त्रैरावेष्ट्य तत्र च ।
अभ्यर्च्य मूलमन्त्रेण गन्धपुष्पादिभि: क्रमात् ।। 22.19 ।।
गृहीत्वा लक्षणोपेतां शिलां होमं प्रकल्पयेत् ।
पुंस्त्रीनपुंसकाख्या च शिला च त्रिविधा मता ।। 22.20 ।।
पुंलिङ्गेन तथा बेरं स्त्रिया वै पीठिका भवेत् ।
इत्येवं बिम्बक्लृप्ति: स्याद्यत्नैरपि च कारयेत् ।। 22.21 ।।
प्रतिमाया: प्रवक्ष्यामि प्रमाणं सविशेषत: ।
गेहं च बिम्बानुगुणं विदध्यान्मन्त्रवित्तम: ।। 22.22 ।।
यजमानुरूपं स्यात् प्रमाणं तस्य काश्यप ।
चतुरङ्गुलमारभ्य चतुरङ्गुलवृद्धित: ।। 22.23 ।।
यावदष्टोत्तरशमङ्गुलीनां भवेद् द्विज ।
बिम्बं सौवर्णकं कार्यमत ऊर्ध्वं न कारयेत् ।। 22.24 ।।
रूप्यताम्रशिलाबिम्बं यत्तद्धामाश्रयं भवेत् (?) ।
गर्भगेहप्रमाणा या प्रतिमा सोत्तमा भवेत् ।। 22.25 ।।
नवभागादेकहीना मध्यमा प्रतिमा द्विज ।
पञ्चभागादेकहीना अधमा विद्धि काश्यप ।। 22.26 ।।
गर्भविस्तारमाने तु सर्वदा(प्तधा?) विजितेन्द्रिय: ।
गृहीत्वा पञ्चभागे(गं?)तु पञ्चभागगात् त्रिभागकम् ।। 22.27 ।।
त्रिभागेभ्यो द्विभागं वा श्रेष्ठं मध्याधमं विदु: ।
द्वारप्रमाणमुदितं पादर्धाधिकमेव वा ।। 22.28 ।।
उत्तमाधममध्यानां प्रमाणमिति कीर्तितम् ।
शुद्धद्वारसमानं वा पादाधिकमथापि वा ।। 22.29 ।।
अध्यर्धद्वारदेशं स्यादुत्तमाधममध्यम् ।
शुद्धद्वारप्रमाणे तु द्वुयष्टभागविभाजिते ।। 22.30 ।।
उत्तमं त्वेकभागं स्याद् द्विभागं मध्यमं भवेत् ।
अथवा स्तम्भमानेन कौतुकं कारयेद् बुध: ।। 22.31 ।।
स्तम्भादध्यर्धमानं वा बिम्बं कुर्यान्महामते ।
स्थानकस्योच्छुयं विद्धि द्वारमासन(नस?)मानकम् ।। 22.32 ।।
नवभागैकहीनं वच पञ्चभागैकहीनकम् ।
उत्तमाधममध्यं स्यात् स्थानकोच्छ्रायमित्यपि ।। 22.33 ।।
आसनस्य द्विजश्रेष्ठ विद्धि मानं महामते ।
द्वारार्धकधिकं पादादधिकं वा तथापि च ।। 22.34 ।।
निबोध शयनं विप्र द्वाराद् द्विगुणेमे व च ।
अध्यर्धं वापि कुवीतं न्यूनाधिक्यं न कारयेत् ।। 22.35 ।।
यथाकामं प्रकुवींत स्थानयानासनादिकम् ।
मूलबेरस्यानुगुणं कर्मार्चा विदधीत च ।। 22.36 ।।
द्वादशाङ्गुलमानं वा न्यूनं वा चतुरङ्गुलै: ।
कर्मबेरं विदध्याच्च बलिबेरं तथैव च ।। 22.37 ।।
तत्प्रमाणं विदध्याच्च यात्राया द्विजसत्तम ।
कृत्रिमालयबिम्बं स्यादष्टाङृगुलमिति द्विज ।। 22.38 ।।
यागबेरचतुर्भागं त्रिभागं वापि कारयेत् ।
कल्पयेत् स्त्रानबिम्बं च द्वितालोच्छ्रायसंयुतम् ।। 22.39 ।।
शङ्खचक्रगदापह्मचतुर्लक्षलक्षितम् ।
यथालक्षणसंयुक्तं पीठिकोपरि विन्यसेत् ।। 22.40 ।।
मूतींनामेव सर्वासां कर्मार्चा स्याच्चतुर्भुत् ।
बिम्बं सुशोभनं चैव प्रसन्नं पूज्यमेव च ।। 22.41 ।।
ध्रुवबेरसमुच्छ्रायं त्रिधा भक्त्याथवा द्विज ।
चतुर्धा वा मुनिश्रेष्ठ तेष्वेकोच्छ्राय(यि?)का भवेत् ।। 22.42 ।।
कल्याणकौतुकस्यैवमुत्सवार्चाप्रमाणत: ।
तृतीयांशेन वा कुर्याच्चतुर्थाशेन वा पुन: ।। 22.43 ।।
कर्मार्चा बहुबेरस्य क्रमोऽयं परिकीर्तित: ।
एकबेरे तदर्धा तु तत्तुर्यांशाधिकापि वा ।। 22.44 ।।
उत्सवार्चा तृतीयांशा(श?)समुच्छ्राया त्रिधा भवेत् ।
शयनासनस्थानविधौ ध्रुवार्चा विहिता यथा ।। 22.45 ।।
तथाविधानि कार्याणि कर्मार्चाप्रभृतीन्यपि ।
शयाने ध्रुवबेरे तु स्थितं वासीनमेव वा ।। 22.46 ।।
कर्मादिकौतुकं कुर्यात्रित्यकल्याणकौतुकम् ।
सर्वत्रैव स्थितं कुर्यात् पीठक्लृप्तिं मुने शृणु ।। 22.47 ।।
बिम्बांयामे त्रिधा क्लृप्ते कार्यमेकेन पीठकम् ।
उपानहादिभिर्युक्तं पञ्चांशैर्वर्तुलं शुभम् ।। 22.48 ।।
विसतारतुलितायामं चतुरश्रं मनोहरम् ।
तृतीयांशे सुसंक्लृप्तप्रभाशङ्कुद्वयं द्विज ।। 22.49 ।।
पीठोच्छ्रायं त्रिधा कृत्वा कुर्यादेकेन पह्कजम् ।
युक्तं दलैर्द्वादशभिरष्ठाभिर्वा यथेच्छया(कम् ?) ।। 22.50 ।।
तदुच्छ्रायदलं कुर्यान्मध्यमे शुभकर्णिकम् ।
उपच्छदयुतं चैव फुल्लपङ्कजसंनिभम् ।। 22.51 ।।
अङ्घ्रिमानं दलोपेतं केवलं वाथ पङ्कजम् ।
पीठं वा पह्ममथवा [सुषि]युक्तं(?) तु कारयेत् ।। 22.52 ।।
स्थितार्चापीठसंकलृप्तिरुदितेयं द्विजोत्तम ।
चतुरश्रायतं वापि स्याद्वृत्तायमथापि वा ।। 22.53 ।।
प्रतिमांशोच्छ्रयं वापि तत्तृतीयांशमेव वा ।
आसीनस्य भवेत्पह्मं दलैर्बहुभिन्वितम् ।। 22.54 ।।
मनोज्ञया [तया](?)युक्तं विपुलं वाथवा द्विज ।
प्रसव्याङ्ध्रिं तु संकुच्य लम्बयित्वेतरं पुन: ।। 22.55 ।।
यथोक्तमासनं देवं समध्यासितसुस्थितम् ।
आधारलम्बितस्याग्रे कल्पयेत् पङ्कजं द्विज ।। 22.56 ।।
देवस्य दिक्षणे पार्श्वे लक्ष्मीं वामे वसुन्धराम् ।
आसीने कल्पयेद्देव्यावासीनस्य द्विजोत्तम ।। 22.57 ।।
विम्बषट्कस्य कर्मादे: श्रीभूम्यौ पार्श्वगे सदा ।
एकासनस्थितस्याग्रे(?)देवेन पृथगेव वा ।। 22.58 ।।
लक्ष्मीं स्थितां वा संकल्प्य वामाङ्ध्रिं लम्बयेत वा ।
लक्ष्मीं स्थितां वा संकल्प्य वामाङ्ध्रि लम्बयेत वा ।
अथासीनां तथा पृथ्वीं तिस्थतस्योभे अभिस्थिते ।। 22.59 ।।
बिम्बानुसारतो वृत्ता प्रभां वृत्तायतां तु वा ।
मनोहरां विदध्याच्च तेजोराशिभिरन्विताम् ।। 22.60 ।।
प्रतिमामानमधुना शुणु काश्प सुव्रत ।
एकाङ्गुलं स्यादुष्णीषं केशान्तं स्यात् त्रियङ्गुलम् ।। 22.61 ।।
तत: प्रभृति षट्त्रिंशद्यवमानं भवेद् द्विज ।
ट्टक्सूत्रान्तं तु तद्वत्स्यान्नासापुटयुगान्तिमम् ।। 22.62 ।।
चुबुकान्तं च तद्वत् स्यात् केशान्तादि द्विजोत्तम ।
चुबुकान्तं वक्त्रमानमष्टोत्तरशतं यवम् ।। 22.63 ।।
आद्यागुलं स्यात् त्रिस्थानमूरुमानं द्विजोत्तम ।
षङ्विंशत्यङ्गुलोच्छ्रायतद्वज्जङ्द्यो भवेत् ।। 22.64 ।।
अवशिष्टांशमानं स्यात्तत्तदुक्तमथ शृणु ।
दशतालेऽधमे वक्त्रं मतं शतयवं द्विज ।। 22.65 ।।
तद्वदेव भवेत् स्थानत्रयमूरू शतद्वयम् ।
यवानां कथितं जङ्द्या तावदुच्छ्रायसंयुता ।। 22.66 ।।
गलं(लो ?) जानु च गुल्कं च प्रत्येकं चतुङ्गुलम् ।
उच्छ्रायमानं बिम्बस्य कथितं द्विजपुंगव ।। 22.67 ।।
अनिर्वा(?)हत्वात् सूक्ष्मं ते मया चाभिहितं द्विज ।।

इति पञ्जरात्रे महोकपनिषदि विश्वामित्रसंहितायां
बिम्बमानं(नविधि:?)नाम द्वाविंशोऽध्याय:।।

--------*--------