सामग्री पर जाएँ

विश्वामित्रसंहिता/अध्यायः ७

विकिस्रोतः तः
← अध्यायः ६ विश्वामित्रसंहिता
अध्यायः ७
[[लेखकः :|]]
अध्यायः ८ →
विश्वामित्रसंहितायाः अध्यायाः

{{header
 | title = विश्वामित्रसंहिता
 | author =
 | translator =
 | section = अध्यायः ५
 | previous = अध्यायः ४
 | next = अध्यायः ६
 | notes =
}}

विश्वामित्रसंहितायाः अध्यायाः




<poem>
सप्तमोऽध्याय:
विश्वामित्र:----
श्रूयतां द्वादशार्णस्य मन्त्रराजस्य संविधि: ।
यस्य श्रवणमात्रेण मुच्यते सर्वपातकै: ।। 7.1 ।।
अभ्यर्च्य मातृकाचक्रादुद्धरेद् द्वादशाक्षरम् ।
उद्ग्रीथमुद्धरेत् पूर्वं विध्रेशं विष्णुपूर्वकम् ।। 7.2 ।।
मन्दरं चौदनयुतं सुभद्रं चाप्रमेयकम् ।
गदध्वंसं विप्णुशीर्षं वरुणं चादिसंयुतम् ।। 7.3 ।।
संप्रसारणसंयुक्तमेकनेत्रमत: परम् ।
आदिदेवयुतं कुम्भमनन्तरसुदीरयेत् ।। 7.4 ।।
सश्रीधरं पूर्णचन्द्रमत्रिं माधवसंयुतम् ।
मधुसूदनसंयुक्तं पीयूषात्मानम???ञ्चितम् ।। 7.5 ।।
अप्रमेययुतं शङ्खमुद्धरेन्मुनिसत्तम ।
एंव द्वादशवर्णस्य मन्त्रवर्यस्य सुव्रत ।। 7.6 ।।
विष्णुर्दण्डसमायुक्तो बीजमस्य प्रकीर्तित: ।
क्रुद्धोल्काय महोल्काय वीरोल्काय तथैव च ।। 7.7 ।।
व्युल्काय च सहस्त्रादि उल्कायेति च पञ्चम: ।
तेजोल्काय च षष्ठ: स्यादिग्रजायान्तिमा इमे ।। 7.8 ।।
हृदयाद्यङ्गमन्त्रा: स्यु: षडेते मन्त्रसत्त्मा: ।
अथवा द्वादशार्णस्य स्थानेषु द्वादशखपि ।। 7.9 ।।
इयं क्लृप्ति: परस्यैव वासुदेवस्य कीर्तिता ।
विभवादे: पुनबींजं भास्कर: स गुणालय: ।। 7.10 ।।
अर्धचन्द्रसमायुक्तं पुनरङ्गप्रकल्पनम् ।
द्वादशात्मानमुद्धृत्य वरुणेन समन्वितम् ।। 7.11 ।।
आदिदेवं पञ्चबिन्दुं हृषीकेशं च गोधनम् ।
अनिरुद्धमनुं चौर्वं षडिमान् दण्डिन: पठेत् ।। 7.12 ।।
एते क्रमेण संयोज्या नत्यन्ताश्चाङ्गकल्पने ।
व्यूहादौ विष्णुरस्य स्यात् बीजदण्डेन संयुतम् ।। 7.13 ।।
क्रुद्धोल्कादीनि वा बीजं वर्णद्वादशकं तु वा ।
बीजपक्षे द्वादशाङ्ग: षडङ्गोऽन्यस्य मन्त्रराट् ।। 7.14 ।।
त्रिषु पक्षेषु ब्रह्मार्षिर्वासुदेव: स्वयं स्मृत: ।
छन्दश्च देवीगायत्रं देवतापि स्वयं भवेत् ।। 7.15 ।।
सितो वर्णश्च तत्त्वं स्यात् बुद्धि: क्षेत्रं परं वियत् ।
बीजपक्षे द्वादशाङेग बीजानि द्वादशच्छवि: ।। 7.16 ।।
प्रणवाद्यं नमोऽन्तं च बीजान्ते नामसंयुतम् ।
न्यस्य पश्चाज्जपेन्मन्त्रं पूर्ववद्ध्यानसंयुतम् ।। 7.17 ।।
करयोर्व्यापकं न्यस्य दशव्ङ्गुलिषु क्रमात् ।
विन्यस्य दशवर्णांश्च शिष्टं तं मूध्रिं विन्यसेत् ।। 7.18 ।।
[देव](हे ?)पि पूर्ववत् जञ्च वर्णान् विन्यस्य देशिक: ।
शिरसश्च चतुर्दिक्षु पूर्वादिषु चतुष्टयम् ।। 7.19 ।।
विन्यस्य पूर्ववच्छेषं न्यसेद्वर्णत्रयं द्विज ।
पूर्वस्मात्तु विशेषोऽस्य देव: स्फटिकसंनिभ: ।। 7.20 ।।
शेषाहिभोगे विपूले सुखासीनो भवेत् स्वयम् ।
उभाभ्यां पार्श्वसंस्थाभ्यां देवीभ्यां सहितो विभु: ।। 7.21 ।।
जपेद् द्वादशलक्षं तु तदर्धं तर्पणं भवेत् ।
तदर्धं च भवेद्धोम एवं सिध्यति मन्त्रराट् ।। 7.22 ।।
द्वादशार्णसमो मन्त्रो विद्यते न कदाचन ।
संकर्षणमनुं वक्ष्ये श्रृणु त्वमवधानत: ।। 7.23 ।।
द्वादशार्णात् समुद्धृत्य प्रथमं सप्तवचर्णकम् ।
चतुर्थ्यान्तं स्वनामैव पठेद्विन्यस्य वै द्विज ।। 7.24 ।।
प्रद्युम्रस्यानिरुद्धस्याप्येवमेव विधि: स्मृत: ।
द्विषट्काक्षरवत् सर्वे ऋष्यादिकमुदीरितम् ।। 7.25 ।।
अग्रिप्राकारमन्त्रस्य विधानं श्रृणु सर्वत: ।
वेदीन् (दिं ?) पूर्वमुद्धृत्य वह्निं गोपे(प?)नसंयुतम् ।। 7.26 ।।
सार्धचन्द्रे समुद्धृत्य भद्रपाणिं समाधवम् ।
उद्धृत्य द्वादशार्णोऽयमाग्रिप्राकारसंज्ञित: ।। 7.27 ।।
सर्वमन्त्रसमारम्भे कृतोर्ध्वस्तां सतर्जनीम् ।
मूर्ध्र: परिसमुद्धृत्य भ्रामयेत् त्रि: प्रदक्षिणम् ।। 7.28 ।।
गायत्र्या विष्णुपूर्वाया वर्णोद्धारक्रमं श्रृणु ।
उदग्रीथं पूर्वमुद्धृत्य मन्त्रस्याष्टाक्षरस्य तु ।। 7.29 ।।
[आद्य:](द्यात् ?) परं पञ्चवर्णास्तत: कुम्भं सविष्णुकम्(?) ।
वैराजं मन्दरयुतं साप्रमेयमुदीरयेत् ।। 7.30 ।।
संप्रसारणसंयुक्तं दीप्तिमन्तं समुद्धरेत् ।
द्वादशाक्षरमन्त्रस्य पञ्च पर्णानुदाहरेत् ।। 7.31 ।।
धीमहीति पदं चोक्त्वा विजयं विष्णुसंयुतम् ।
भद्रपाणियुतं पश्चाद् वीरसेनयुतं पठेत् ।। 7.32 ।।
कलशं बन्धुसहितं शान्तं मुमुखसंयुतम् ।
सश्रीधरं सर्गयुतं पिठीत्वा तदनन्तरम् ।। 7.33 ।।
?पवित्रमग्रिविष्णुभ्यामुद्धृत्य प्रेतनायकम् ।
वासुदेवसमाक्रान्तमत्रिं प्रथमसंयुतम् ।। 7.34 ।।
चतुर्गति[साति(दि ?)देश](व ?)मुक्त्वा वैराजमुद्धरेत् ।
केवलं (लो ?) विष्णुगायत्रीमनूरेवं समुद्धृत: ।। 7.35 ।।
ऋषिर्ब्रह्मास्य गायत्रं छन्दो विष्णुश्च देवता ।
क्रूद्धोल्कादीनि चास्य स्यु: षडङ्गानि महामते ।। 7.36 ।।
शिरोललाटनयनद्वयश्रवणयुग्मके ।
मुखे कण्ठे च हृदये बाहुमूल्युगेऽपि च ।। 7.37 ।।
कूर्परद्वितये चैव मणिबन्धयुतेऽपि च ।
करयोरुदरे गुह्मे चोरुजङ्घापदद्वये ।। 7.38 ।।
?B विन्यसेत् क्रमशो वर्णान् वर्णवर्णानत: शृणु ।
हेमाभरक्तधूमाभसितासितसुपाअला: ।। 7.39 ।।
श्वेतपीतारुणश्यामसितरक्तनिभा: क्रमात् ।
स्फटिकस्वर्णदुर्वर्णशशिरश्मिसमं तत: ।। 7.40 ।।
पह्मकिञ्चल्कसंकाशं विद्रूमस्वर्णवर्णकम् ।
नक्षत्राभं तथा रक्तं तारावर्णं तथारुणम् ।। 7.41 ।।
रविबिम्बाभमित्येते वर्णा: प्रोक्ता महामते ।
देव: पूर्वोक्तवद्ध्येयो विशेषो गरुडस्थित: ।। 7.42 ।।
इत्थं ध्यात्वा जपेत् प्रात: मध्याह्ने स्फटिकप्रियम् (प्रभम् ?) ।
सायं च प्रातरेवं तु नवाम्बुदनिभं स्मरेत् ।। 7.43 ।।
चतुर्विशतिलक्षं स्यात् जपस्तर्पणहोमयो: ।
प्रमाणमध्यर्षमिति प्रोक्ता मन्त्रेश्वरा इमे ।। 7.44 ।।
[चत्वार: साधके] (चतुषुं साधिते ?) ष्वेषु साक्षाद्विष्णुर्भवेत् स्वयम् ।
श्रीकराष्टाक्षरमनोरुद्धारं कथयाम्यहम् ।। 7.45 ।।
उत्तरे श्रीधरं पूर्वं मायाबीजद्वयं भवेत् ।
उग्रात्मा कौस्तुभयुतो विष्णुशीर्षीस्ततो भवेत् ।। 7.46 ।।
श्रीकरेति त्रयो वर्णा: पठितस्य ततोऽप्यनु ।
उच्चरेदयुगं पश्चादष्टार्णोऽयं मनूत्तम: ।। 7.47 ।।
सानलं द्वादशात्मानं महामायासमन्वितम् ।।
आद्येन संयुतं बीजं मन्त्रस्यास्य प्रचक्षते ।। 7.48 ।।
क्रुद्धादीति षडङ्गानि प्रजा?पतिमृषिं द्विज ।
अवेहि देवीगायत्रं छन्दो देव: श्रिय: पति: ।। 7.49 ।।
पूर्वाष्टाक्षरवत् सर्वं प्रत्यर्णं मुनिपूर्वकम् ।
छायायां कल्वृक्षस्य सर्वभूषणधरिणम् ।। 7.50 ।।
गरुडस्य चतुर्बाहो: स्कन्धस्योपरि संस्थितम् ।
उष्टबाडुं किरीटादिसर्वाभरणभूषितम् ।। 7.51 ।।
सततं दिव्यगन्धादिविलेपनविभूषितम् ।
दक्षिणे चक्रमुसले बाणाङ्कुशधरं भुजे ।। 7.52 ।।
वामे च शङ्खं सगदं धनु:पाशौ च बिभ्रतम् ।
पीताम्बरधरं पूर्णचन्द्रवत् प्रियदर्शनम् ।। 7.53 ।।
[गरुत्मन्तोपरि संस्थाप्य भुजाभ्यां पादपङ्कजे] (?) ।
[बिभ्राणं देवदेवस्य शेषपाणियुगेन च] ।। 7.54 ।।
पीयूषकुम्भं स - - (?) निक्षिप्तं दधतं स्मरेत् ।
देवीं लक्ष्मी च देवस्य वामपादोरुसंभृताम् ।। 7.55 ।।
हेमवर्णां शुभां क्षौमवासिनीं दिव्यभूषणाम् ।
[स्थितिचच्चदिव्यपुष्प] (सततं दिव्यगन्धादि ?)विलेपनविभूषिताम् ।। 7.56 ।।
पाशाङ्कुशधरां सौम्यविग्रहां गीतयेन्मनुम् ।
जपेद् द्वादशसाहस्त्रं व्रतस्थ: संयतेन्द्रिय: ।। 7.57 ।।
लक्ष्मीनारायणमनुं वक्ष्यामि शृणु सुव्रत ।
उच्यते [द्विषड्वर्ण](डर्ण)स्य प्रथमं [सर्व](प्त ?) वर्णकम् ।। 7.58 ।।
उद्धृत्य मूर्तिनामानि चतुर्थ्यन्तानि योजयेत् ।
बीजान्याद्याक्षराण्येवं तारबिन्दुयुतानि च ।। 7.59 ।।
[अन्योषां द्वादशार्णां तु (?) पूर्वं चत्वार ईरिता:] ।
[व्यूहाख्यायितरेषां (?) तु अष्टानां शृणु सुव्रत] ।। 7.60 ।।
नारसिंहोऽधोक्षजश्च अच्युत: पुरुषोत्तम: ।
[जनार्दनोपेन्द्रहरि:] (?) कृष्णश्चाष्टौ प्रकीर्तिता: ।। 7.61 ।।
एतेऽष्टौ - -(?) वर्णानां प्रागुक्ता ये च पूर्ववत् ।
चतुर्थ्यन्त[स्वनाम्ने](म्रै ?)व पश्चाद्वीजेन पूर्ववत् ।। 62 ।।
अङ्गानि च यथापूर्वं छन्दो गायत्रमुच्यते ।
ऋष्यादि पूर्ववत् सर्वं पुनश्चर्या च पूर्ववत् ।। 63 ।।
मत्स्यादिदशमूतींनां उक्त्वादौ वर्णसप्तकम् ।
उक्त्वा च मूर्तिनामानि रूपायेत्यन्तिमे पदे ।। 64 ।।
बीजमाद्यर्ण एव स्यात् सामान्येन सबिन्दुक: ।।
इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायां
[द्वादशाक्षरादिमन्त्रोद्धारविधिर्नाम] सप्तमोऽध्याय: ।।

--------*--------