सामग्री पर जाएँ

विश्वामित्रसंहिता/अध्यायः १३

विकिस्रोतः तः
← अध्यायः १२ विश्वामित्रसंहिता
अध्यायः १३
[[लेखकः :|]]
अध्यायः १४ →
विश्वामित्रसंहितायाः अध्यायाः

त्रयोदर्शोऽध्याय:
काश्यप:----
भगवन् मन्त्रमुद्राणां प्रभेदं [विनिबोध मे] (विनियोजनम्?) ।
वक्तुमर्हसि सर्वज्ञ दया चेन्मयि वर्तते ।। 13.1 ।।
विश्वामित्र:----
अङ्गलीनां समावेशभेदो मुद्रेति कथ्यते ।
मुदं द्रावयते यस्त्माद् दुष्टनां दर्शनात् क्षणात् ।। 13.2 ।।
ततो मुद्रेति कथिता मन्त्रतन्त्रन्विशारदै: ।
हिंसकानां निरसनं देवानां प्रीणनं भवेत् ।। 13.3 ।।
कर्मादौ दर्शनादासां तस्मादेता: प्रदर्शयेत् ।
मन्त्रजातस्?य संख्यानं यथाग्रप्तं विधीयते ।। 13.4 ।।
तथैव मुद्रां रहसि दर्शयेन्न जनाम्रत: ।
करावुभौ च संक्षाल्य पञ्चगव्यैर्विशोध्य च ।। 13.5 ।।
विलिप्य च शुभैर्गन्धै मुद्रां पश्चात् प्रदर्शयेत् ।
मध्यमानाभिकाङ्गुल्योर्मध्येऽङ्गष्ठं समायतम् ।। 13.6 ।।
प्रवेश्य हृदये मुष्टिं विधाय स्थापयेच्च ताम् ।
हृन्मुद्रैषा विधातव्या मन्त्राङ्यासकर्मणि ।। 13.7 ।।
अधोमुखीं विधायैनां मस्तके विनिवेश्य च ।
हन्यादङ्गष्ठशिरसा तर्जनीं शीर्षमुद्रिका ।। 13.8 ।।
मुष्टिं कृत्वोर्ध्वगाङ्गष्ठामङ्गुष्ठाग्रं शिखोपरि ।
स्पर्शयेदियमाख्याता शिखामुद्रेति सूरिभि: ।। 13.9 ।।
अङ्गष्ठमुद् कृत्वा बध्वा मुष्टिं समुन्नताम् ।
प्रदेशिनीं किंचिदग्रं नतां मुष्ट्यानया पुन: ।। 13.10 ।।
वर्मबन्धं हृदा ध्यायेन्मुद्रैषा कवचात्मिका ।
अङ्गुष्ठं तर्जनी [पङ्क्ति(?)तिसृभिर्मुष्टिबन्धनम्] ।। 13.11 ।।
विघाय तर्जन्यगङ्ष्ठे मूर्ध्रा (र्ध्रो ?) मण्डलवद्बहि: ।
स्फोटयेद्दिक्षु सर्वासु सैषा मुद्रास्त्रसंज्ञिता ।। 13.12 ।।
अधोमुखीं शिखामुद्रां भ्रुवोध्ये निवेशयेत् ।
चक्षुर्मुद्रेयमुद्दिष्टा कुर्यादङ्गेष्विमा: क्रमात् ।। 13.13 ।।
दक्षिणेन करेणैता विदध्यात् क्रमशो मुने ।
तर्जनीमुन्नतां कृत्वा तिसृणां मध्यसंगतम् ।। 13.14 ।।
विधायाङ्गुष्ठमेतेन स्वदेहं भ्रामयेद्बहि: ।
प्रदक्षिणं समाख्याता सग्रिप्राकरमुदिका ।। 13.15 ।।
स्वदेहरक्षणं कुर्यादनया मुद्रया बुध: ।
कृत्वा सव्यकरं नाभेरधस्तात् प्रसृतं पुन: ।। 13.16 ।।
उत्तानीकृत्य विन्यस्येत् तस्योपरि च दक्षिणम् ।
योगमुद्रेति विख्याता सव्यं करतलं पुन: ।। 13.17 ।।
नाभेरथोर्ध्वविधिभिश्रन्तरं च करं पुन: ।
समाङ्गष्ठं तदुपरि स्थापयेद्द्विजपुंगव ।। 13.18 ।।
योगसंपुटमुद्रा स्यादियं मुद्रायुगं त्विदम् ।
योगिनां तत्त्वसंहारे समुत्पादनकर्मणि ।। 13.19 ।।
योगाभ्यासविधौ शस्तं कुर्यात्तत्रैव कर्मणि ।
कुम्भमुद्रेति कथिता योगसंपुटमुद्रिका ।। 13.20 ।।
छिद्रिता घटसंस्थाना तथैवोर्ध्वमुखस्थिता ।
तया समाचरेत् स्त्रानं तर्जन्यानाभिकाशिर: ।। 13.21 ।।
संवेश्य क्रमश: कुर्यात् तथाङ्ष्ठकनिष्ठिके ।
इयं संहारमुद्रा स्यात् तत्त्वसंहृतिकर्मणि ।। 13.22 ।।
उद्वासने देवतानामेतां मुद्रां प्रदर्शयेत् ।
अङ्गुलीभिश्चतसृभि:संहृताभिश्च संहृति : ।। 13.23 ।।
तर्जन्यां तु विमुक्तायां सृष्टिमुद्रेति तां बिद: ।
आवाहने देवानां तत्त्वसृष्टौ च सा मता ।। 13.24 ।।
ज्ञानमुद्रा समाख्याता तर्जन्यङ्गुष्ठसंहति: ।
तत्त्वमुद्रेति च विदुरिमां पूर्वे तु सूरय: ।। 13.25 ।।
[उत्तानयोर्ध्व(?)गतयो]र्हस्तयोरुभयोरपि ।
मध्यमाभ्यां स्पृशेन्मध्यमेषा सा न्यासमुद्रिका ।। 13.26 ।।
मन्त्रन्यासे तु मुद्रेयं ख्याता देवात्मिका ययो: ।
जपमुद्रां शृणु ब्रहृमन् अङ्गुष्ठभ्यां करद्वये ।। 13.27 ।।
तर्जन्यो: संस्पृशेन्मध्यं विस्तृता: स्युतथेतरा: ।
जपकालेषु सर्वेषु जपमुद्रां प्रदर्शयेत् ।। 13.28 ।।
करद्वये समस्ताभिरङ्गलीभिर्द्विजोत्तम ।
सेयं पुटाकृति: प्रोक्ता मुद्रा ब्राह्मी द्विजोत्तमै: ।। 13.29 ।।
करद्वयेऽङ्गष्ठयुगं कनिष्ठातर्जनीयुगम् ।
संयोज्य श्लेषयेदग्रं विष्णुमुद्रामिमां विदु: ।। 13.30 ।।
रुद्रमुद्रेति कथिताप्यङ्गष्ठान्योऽन्यसंयुता ।
उभयाङ्गुष्ठमुद्रा सा कथिता तव सुव्रत ।। 13.31 ।।
करद्वयाङ्गभ्यां(येन ?) श्रवसी पिधायैकं प्रसारयेत् ।
दक्षिणं सा भवेन्मुद्रा पितॄणामभिवादने ।। 13.32 ।।
विन्यस्य वामश्रवणे वामहस्ताङ्गुलीस्तथा ।
प्रसारयेत् करं चान्यं विध्रराजस्य मुद्रिका ।। 13.33 ।।
अङ्गुष्ठयुगलं मध्ये तर्जन्यो: संहरेद् द्वयो: ।
एषा भागवती मुद्रा कथिता द्विजपुंगव ।। 13.34 ।।
वाराहमुद्रा कथिता करयो: संपुटे कृते ।
स्पृष्टवा (स्मृत्वा ?) तु दक्षिणकरे रक्तं सरसिजं पुन: ।। 13.35 ।।
त्रिकोणं मध्यतस्तस्य बीजमग्रे: समुज्ज्वलम् ।
अवाचितं निधायैतं निक्षिपेद् द्रवयमूर्धनि ।। 13.36 ।।
अग्नेरेषा भवेन्मुद्रा सर्वद्रव्यविशोधिनी ।
करे वामे सितं पह्मं स्मृत्वा षोडशपङ्कजम् ।। 13.37 ।।
तन्मध्ये शशिनं ध्यायेत् कलाषोडशकान्वितम् ।
तस्मात् स्त्रवन्तममृतं स्मृत्वा [तदभस्म सेचयेत् ](?) ।। 13.38 ।।
पुनस्तदुत्थितं ध्योन्मुद्रैषाप्यानी स्मृता ।
[जङ्गुष्ठर्जनीयुग्मे कनिष्ठायुगलं तथा] ।। 13.39 ।।
श्लिष्टं प्रसार्यं संहृत्य मध्यमं दक्षिणे करे ।
अनामिकां चेतरस्मिन् शेषं चैव प्रसारयेत् ।। 13.40 ।।
मुद्रैषा सौरभेयी स्याच्छोधनी सर्ववस्तुन: ।
अञ्जलिं करयुग्मेन विधायेषद्विकासयेत् ।। 13.41 ।।
मुद्रैषावाहनकरी ट्टष्ट्वैतां देवतागण: ।
संनिधिं याति विप्रेन्द्र तस्मादेतां प्रदर्शयेत् ।। 13.42 ।।
विकाससहिता सैषा हृदये शिरसि स्थिता ।
ख्याता प्रणाममुद्रेति क्षिप्रं देवप्रसादिनी ।। 13.43 ।।
वासदुदेवादिमूतीनां विष्ण्वादीनां च काश्यप ।
सत्यादीनां तथा मीनप्रभृतीनां च सत्तम ।। 13.44 ।।
प्रासुदनकरी मुद्रा सर्वेषामियमेव हि।
मणिबन्धौ संगमय्य संप्रसार्य तथाङ्गली: ।। 13.45 ।।
मध्ये तु कु??ञ्जितं कृत्वा तथा चाङ्गुष्ठयुग्मकम् ।
पा?तयित्वा तत: पृष्ठं स्पर्शयित्वा प्रासारयेत् ।। 13.46 ।।
पह्ममुद्रा भवेदेषा लक्ष्यादीन् संनिधापेयत् ।
सव्यहस्तस्य [मुष्टिस्तम](मुष्टौ तु अ?)ङ्गुष्ठमितरस्य च ।। 13.47 ।।
निधायाङ्गष्ठर्जन्यो:(न्यौ?) संयोज्य प्रसृते समे ।
अपसव्यस्य तिसृभिरन्याभिर्मुष्टिबन्धनात् (नम्?) ।। 13.48 ।।
कारयेच्छङ्खमुद्रैषा ज्ञानमोक्षप्रदायिनी ।
तिर्यक् करद्वयं कृत्वा मणिबन्धावसानकम् ।। 13.49 ।।
अन्योन्यं स्यादभिमुखं मण्डलीकृत्य काश्यप ।
भ्रामयेच्चक्रमुद्रैषा सर्वदुष्टनिबर्हिणी ।। 13.50 ।।
करद्वयेन मुष्टिं तु कृत्वाङ्गष्ठौ विनाम्य च ।
प्रसारयेदूर्ध्वमृजुं मध्यमायुगमञ्जसा ।। 13.51 ।।
अन्योऽन्यबन्धनं कुर्यादितराङ्गुलयोरपि ।
श्लेषयेत् कूर्परयुगं गादमुद्रा प्रकीर्तिता ।। 13.52 ।।
स्पृशेन्मध्यमया तर्जन्यग्रं सा धनुमुद्रिका(धनुषो मता ?) ।
वामाङ्गुष्ठमृजूकृत्या मुष्टिं बध्वेतराङ्गुली: ।। 13.53 ।।
बन्धयेच्च तदङ्गुष्ठमितरेण क्रमेण च ।
प्रसार्य च तदङ्गुष्ठं मुद्रा सा मुसलाह्वया ।। 13.54 ।।
अङ्गुष्ठतर्जनीवर्जं तिसृभिर्मुष्टिबन्धन:(नम् ?) ।
नताग्रां तर्जनीं भूयस्तदङ्गुष्ठेन बन्धयेत् ।। 13.55 ।।
खङ्गुमुद्रा भवेत् सा तु दुष्टवर्गनिबर्हिणी ।
लम्बयित्वा करयुगमन्योऽन्यस्यामलात्मकै: ।। 13.56 ।।
निबध्याङ्गुष्ठयुग्मं तु संहरेद्वनमालिका ।
अपसव्यकरं स्पृ(स्प ?)ष्टमात्मनस्तु पराङ्मुखम् ।। 13.57 ।।
पराङ्मुखं सव्यकरं लम्बमानं प्रकल्पयेत् ।
वरदाभयाख्यं तु मुद्राद्वयमिदं द्विज ।। 13.48 ।।
इन्द्रादीशानपर्यन्तमेतन्मुद्राद्वयं भवेत् ।
करद्वये पृष्ठयुगं संश्लिष्य च कनिष्ठिके ।। 13.59 ।।
बध्वा प्रसारयेद्युग्मं तर्जन्यो ( नयौ?) स्तुण्डसंनिभम् ।
अङ्गुष्ठयुगलं पादयुगवल्लम्बयेदध: ।। 13.60 ।।
इतराङ्गुलियुग्मं तु चालयेत् पक्षसंनिभम् ।
एषा गरुडमुद्रा स्याद्विषसंहारकर्मणि ।। 13.61 ।।
अङ्गष्ठेन कनिष्ठादित्रयं संहृत्य तर्जनीम् ।
दर्शयन्मुद्रिका ह्मेषा विप्यकसेनप्रसादिनी ।। 13.62 ।।
सर्वाङ्गली: संप्रसार्य नताग्रा विरलाश्च ता: ।
कृत्वोर्ध्वगाभिनी: कुर्यादेषानन्तस्य मुद्रिका ।। 13.63 ।।
वामेन तर्जनीमूर्ध्वं संस्थाप्याङ्गुष्ठकं पुन: ।
कृत्वोष्ठादित्रयस्याग्रे स्थापयेच्चण्डमुद्रिका ।। 13.64 ।।
तथेतरकरे कुर्यात् प्रचण्डस्य च मुद्रिका ।
उत्थापयेद्वामहस्तमध्यमां जयमुद्रिका ।। 13.65 ।।
तथेतरकरे कुर्यान्मुद्रिका विजयाहृया ।
अनामिकां तथा वामात्कुर्याद्ग्राङ्गस्य मुद्रिका ।। 13.66 ।।
इतरस्मान्मुनिस्तस्य(द्यामुनस्य?) मुद्रैषा परिकीर्तिता ।
शङ्खस्य निधनाथस्य वामहस्तकनिष्ठिका ।। 13.67 ।।
[पह्मं स्वेन रहस्वस्थो कनिष्ठोर्ध्वीकृता भवेत्] ।
तथैवानामिकाङ्गुष्ठे कुर्याद्वस्त्रस्य मुद्रिका ।। 13.68 ।।
मुष्टिमुद्रा भवे न्मुष्टिर्वेष्टिताङ्गुष्ठिका भवेत् ।
स्नानमुद्रा विनिर्मुक्ततानिष्ठान्ता ( क्तकनिष्ठ:?)ङ्गुमूर्धनि ।। 13.69 ।।
विमुक्तानामकां तां च गन्धमुद्रां विदुर्बुधा: ।
विमुक्तमध्यमा सैव पुष्पमुद्रेति कीर्तिता ।। 13.70 ।।
यज्ञोपवीतमुद्रा स्यान्मध्यमाङ्गुष्ठमूर्धनि ।
अग्रपर्वसमायोग: कनिष्ठाङ्गुष्ठमूर्धनि ।। 13.71 ।।
विधानं पूर्वविन्यासात् सैषाकल्पस्य मुद्रिका ।
करावूध्वीकृताङ्गुष्ठौ विधायान्याङ्गुलीगणम् ।। 13.72 ।।
कृतव्यतिकराग्रं तु कुर्यात् सा धूपमुद्रिका ।
संहृत्य वामहस्तस्य कनिष्ठामूर्ध्वसंस्थिताम् ।। 13.73 ।।
विधाय मध्यमां पश्चादङ्गुष्ठं संहरेत्तथा ।
अनामिकार्जनीभ्यां संहरेच्च कनिष्ठिकाम् ।। 13.74 ।।
करेण दक्षिणेनापि विहितायां तथैव च ।
दीपमुद्रां विदु: प्राज्ञा देवस्य प्रियकारिणीम् ।। 12.75 ।।
उपचारन्तराणां तु मुद्रैषा स्यात्कृताञ्जलि: ।
अङ्गुष्ठमूर्ध्वगं स्थाप्य शोषाभि: कृतमुष्टिका ।। 12.76 ।।
प्रतिमामुद्रिका चैव ज्ञेया देवप्रियावहा ।
हस्तुमुत्तानितं कृत्वा क्रमाद्वति(क्र? )कृताञ्जलि: ।। 13.77 ।।
पृथक् कुर्यात् तथाङ्गुष्ठं सैषा स्वागतमुद्रिका ।
प्रार्थनामुद्रिका सेयं ध्यानमुद्रापि सा भवेत् ।। 13.78 ।।
अपसव्यकरस्याग्रमङ्गुलीपञ्चकस्य च ।
अन्वारब्धेनेतरेण परमान्ननिवेदनम् ।। 13.79 ।।
ग्रासमुद्रां विदु: प्राज्ञा: सदा देवप्रसादनी(नीम् ?) !
दीघीकृत्य कनिष्ठां च तर्जनीं चाप्पुभे हमे ।। 13.80 ।।
अङ्गष्ठं मध्यमानाममूर्ध्रि संयोजयेदपि ।
मुद्रैषा व्रीहिमुख्स्यानं धान्यानां हवने बुधै: ।। 13.81 ।।
आधारशक्तिपूर्वाणां मुद्रागणमथोच्यते ।
करद्वये मुष्टियुगं विधायाङ्गुष्ठमध्यत: ।। 13.82 ।।
क्षेपयेद्वाममुष्टे: स्यादितरा दक्षिणोपरि ।
अस्पृष्टा स्यादियं मुद्रा संप्रोक्ताधारशक्तिजा ।। 13.83 ।।
व्यत्यस्ता कूर्मकालाग्रेर्मुद्रैषात् स्या प्रियंकरी ।
विधायाधेमुखं वाममध्यमापृष्टगे उभे ।। 13.84 ।।
तर्जन्यनामिके कुर्यात् कुञ्चितो(ते ?)मध्यमामृजूम् ।
विधाय प्रसृतं कुर्यात् कनिष्ठाङ्गुष्ठिके अपि ।। 13.85 ।।
अनन्तासनमुद्रैषा नास्यां योजयते यत: ।
कराभ्यां मुष्टियुग्मं तु लग्रं कृत्वाङ्गुलित्रयै: ।। 13.86 ।।
तर्जन्यङ्गुष्ठयुगलं प्राप्तलग्रं च मीलयेत् ।
पृथिवीमुद्रिकैषा स्याच्छृणु क्षीराब्धिमुद्रिकाम् ।। 13.87 ।।
संश्लंष्य मणिबन्धौ च ह्मङ्गुष्ठं चाङ्गुलीगणम् ।
अन्योन्यसंमुखं कुर्यान्नखाग्रै: सुषिरं मुने ।। 13.88 ।।
तन्मध्येऽङ्गुष्ठयुगलं निराधारं प्रचालयेत् ।
एषा सा मुद्रिका प्रोक्ता पङ्कजस्य पुरोदिता ।। 13.89 ।।
संयोज्य हस्तयुगलं तर्जनीभ्यां मुखे मुखे ।
[अमध्यके मस्तकं चेद्बद्धं कुर्यादितीदृशम्] ।। 13.90 ।।
[तत्त्यवतानामिकायुग्मं ततस्तं चोपसंहरेत्] ।
नियोजयेत् कनिष्ठे द्वे बद्धे चैवैकशस्तथा ।। 13.91 ।।
अङ्गुष्ठयुगलं लग्रं कुयाद्धर्मादिमुद्रिका ।
क्रमेणैता विजानीहि निर्व्यासिङ्गेन चेतसा ।। 13.92 ।।
तर्जन्यङ्गुष्ठयुगलं मेलयेद्दक्षिणे करे ।
पश्चाच्छनै: शनै: कुर्यात् तद्बन्धस्य विकासनम् ।। 13.93 ।।
शाखाशङ्ख(संघ?)स्य च पुन: समुत्थानात् पृथग्भवेत् ।
धाम्नां त्रयाणां मुद्रा: स्पुरेता हंसत्य कथ्यते ।। 13.94 ।।
हस्तौ प्रसारितौ स्पृष्टौ विदध्यादञ्जलिर्यथा ।
एषा भावासनस्य स्यान्मुद्रा शुद्धा परतात्मन: ।। 13.95 ।।
[सर्वा हस्तादयो वक्त्राद्गृहीत्वा मध्यमाङ्गुलि:]।
दक्षिणस्यय कनिष्ठस्य शेषाभिस्तिसृभिर्मुने ।। 13.96 ।।
मुष्टिं विधाय चाङ्गुष्ठमुन्नतं कारयेद्बुध: ।
एषा मुद्रा जयानाम्रा निरुक्ता मन्त्रवित्तमै: ।। 13.97 ।।
अधोमुखे स्थिते वामे करे तत्पृष्ठसंस्थिते ।
दक्षिणे बद्धमुष्टिस्ते (ष्टौ तु ?) विष्णुं ध्यायेच्छ्रिय: पतिम् ।। 13.98 ।।
सर्वार्थसाधनी मुद्रा जयेत्येषापि कीर्तिता ।
गरुडोपरिसंस्थस्य देवस्यैषा प्रियंकरी ।। 13.99 ।।
शक्तियुक्तस्य देवस्य मुद्रां शक्त्यात्मिकां शृणु ।
उत्तानवामहस्तं तु प्रसार्य विरलाङ्गुली: ।। 13.100 ।।
कुर्यादाकु?ञ्चितप्रान्ता: तच्छाखा: सेतुवदभवेत् ।
अङ्गुष्ठसंमुखं तासु लग्राश्चाङ्गुलिध्यत: ।। 13.101 ।।
हृदयाभिमुखीमेनां बध्रीयादियमेव सा।
अन्यासामप्यनुक्तानां मुद्राणां द्विजपुंगव ।। 13.102 ।।
पह्ममुद्रां विदध्याद्वा यद्वा कुर्यादथाञ्जलिम् ।

इति पञ्चरात्रे महोपनिषदि विश्वाममित्र----
संहितायां [मुद्रालक्षणविधिर्नाम]त्रयोदशोऽध्याय:।।

---------*----------