मुख्यपृष्ठम्

Wikisource तः
(Main Page इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
Wikisource-logo-sa.svg
कश्चित् स्वतन्त्रः पुस्तकालयः
यं हि कोऽपि सम्पादयितुं शक्नोति

संस्कृतविकिस्रोतसि स्वागतम्

संस्कृतविकिस्रोतसि भवतां स्वागतम् । संस्कृतविकिस्रोतः अन्तर्जालाधारितः ग्रन्थालयः वर्तते । अस्य सम्पादनं यः कोऽपि कर्तुम् अर्हति । इदं स्रोतः प्रतिलेखाधिकारमुक्तानां प्राचीनग्रन्थानां सङ्कलनाय विद्यते । विविधविषयेषु लेखानां पठनाय सम्पादनाय च संस्कृतविकिपीडिया दृश्यताम् ।


संस्कृतविकिस्रोतसि सम्प्रति १०,३३७ लेखाः सन्ति।

ईशोपनिषदः शान्तिमन्त्रः

ईशावास्योपनिषत् (Ishavasyopanishat) शुक्लयजुर्वेदीया उपनिषत् । उपनिषत्सरणौ ईशोपनिषत् प्रथमा वर्तते । शुक्लयजुर्वेदस्य संहितोपनिषदियम् । अष्टादशमन्त्रात्मिका विद्यते ।इयम् उपनिषत् शुक्लयजुर्वेदीयकाण्वशाखीयसंहितायाम् अन्तर्भवति । पूर्णमदः पूर्णमिदमिति शान्तिपाठः आरभ्यते । अनन्तगुण-अनन्तशक्ति-अनन्तज्ञानेन युक्तः परमात्मा सर्वसम्पूर्णः । इदं व्यक्तविश्वमपि नियमबद्धमित्यतः वस्तुतः सम्पूर्णमस्ति । इदं नियमबद्धं सम्पूर्णं विश्वं सर्वसम्पूर्णेन अनन्तपरमात्मना एव उद्भूतम् । किन्तु अस्य विश्वस्य उत्पत्त्या परमात्मनि न्यूनता भवेत् किम् ? सर्वथा न । सः अनन्तः, अखण्डः, अच्युतः, परिपूर्णश्च । तस्मात् अनन्तानि ब्रह्माण्डानि सृष्टानि चेदपि तदीयाः अनन्तज्ञानगुणविक्रमाः अच्युताः तिष्ठन्ति । अनन्तसङ्ख्यया अनन्तसङ्ख्या व्यवकलितः चेदपि अनन्तसङ्ख्या एव यथा अवशिष्येत तथा परमात्मनः अनन्तत्वस्य अखण्डत्वस्य बाधा न कापि विद्यते ।

(सम्पूर्णग्रन्थः)





रामायणम्

रामायणम् अत्यन्तं प्रसिद्धं संस्कृतकाव्यम् ।

» भारतीयसाहित्ये अतिप्रमुखयोः काव्ययोः अन्यतमं इदं रामायणम् आदिकाव्यमिति प्रसिद्धम् ।
» आदिकाव्यस्य रामायणस्य कर्ता श्रीमद्वाल्मीकिः ।
» रामायणे २४००० श्लोकाः सन्ति । एते श्लोकाः अनुष्टुप्-छन्दसि निबद्धाः सन्ति ।
» रामयणे सप्तकाण्डानि (बालकाण्डम्, अयोध्याकाण्डम्, अरण्यकाण्डम्, किष्किन्धाकाण्डम्, सुन्दरकाण्डम्, युद्धकाण्डम्, उत्तरकाण्डम्) ५०० सर्गाश्च विद्यन्ते ।
» रामायणकथानायकः श्रीरामः हिन्दुभिः पूज्यमानेषु देवेषु अन्यतमः । अयं विष्णोः दश अवतारेषु सप्तमः अवतारः ।
» रामायणं त्रेतायुगे सम्पन्नम्ते । इदं क्रिस्तपूर्वपञ्चमे चतुर्थे शतके जातमिति इतिहासकारैः ऊह्यते ।
» वाल्मीकिरामायणे रामस्य जन्मनः आरभ्य तस्य अवतारसमाप्तिपर्यन्तमपि कथा भवति ।
» अस्मिन् मानवकर्तव्यानि प्रतिपाद्यन्ते । आदर्शपुत्रः, आदर्शपिता, आदर्शपतिः, आदर्शपत्नी, आदर्शभ्राता, आदर्शसेवकः...... इत्यादयः अत्र चित्रिताः सन्ति ।
»रामायणस्य प्रतिसहस्रतमस्य श्लोकस्य आदौ गायत्रीमन्त्रस्य एकैकम् अक्षरं प्राप्यते । पाठभेदादयः न भवेयुः इति उद्देशेन एवं कृतं स्यात् कविना।

पुरुषसूक्तम्

ॐ तच्छं योरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये ।
दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् ।
शं नो अस्तु द्विपदे । शं चतुष्पदे ॥
हरि: ॐ स॒हस्त्र॑शीर्षा॒पुरु॑ष:सहस्त्रा॒क्ष:स॒हस्त्र॑पात्।
सभूमिं॑वि॒श्वतो॑वृ॒त्वाऽत्य॑तिष्ठद्दशांगु॒लम्।
पुरु॑ष॒एवेदंसर्व॒यद्भू॒तंयच्च॒भव्य॑म्।
उ॒तामृ॑त॒त्वस्येशा॑नो॒यदन्ने॑नाति॒रोह॑ति।
ए॒तावा॑नस्यमहि॒मातो॒ज्यायांश्च॒पूरु॑ष:।
पादोस्यविश्वाभू॒तानि॑त्रि॒पाद॑स्या॒मृतं॑दिवि।
त्रि॒पादू॒र्ध्वउदै॒त्पुरु॑ष॒:पादो॑स्ये॒हाभ॑व॒त्पुन॑:।
ततो॒विष्व॒ङ्व्य॑क्रामत्साशनानश॒नेअ॒भि।
त्समा॑द्वि॒राळ॑जायतवि॒राजो॒अधिपूरु॑ष:।

सजा॒तोअत्य॑रिच्यतप॒श्चाद्भूमि॒मथो॑पुर:॥१॥ .. .. ..









"https://sa.wikisource.org/w/index.php?title=मुख्यपृष्ठम्&oldid=91628" इत्यस्माद् पुनः प्राप्तिः