सामग्री पर जाएँ

सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.4 चतुर्थप्रपाठकः/1.1.4.10 दशमी दशतिः

विकिस्रोतः तः

इन्द्र सुतेषु सोमेषु क्रतुं पुनीष उक्थ्यं ।
विदे वृधस्य दक्षस्य महां हि षः ।। ३८१ ।।

तमु अभि प्र गायत पुरुहूतं पुरुष्टुतं ।
इन्द्रं गीर्भिस्तविषमा विवासत ।। ३८२ ।।

तं ते मदं गृणीमसि वृषणं पृक्षु सासहिं ।
उ लोककृत्नुमद्रिवो हरिश्रियं ।। ३८३ ।।
हारिवर्णानि चत्वारि

यत्सोममिन्द्र विष्णवि यद्वा घ त्रित आप्त्ये ।
यद्वा मरुत्सु मन्दसे समिन्दुभिः ।। ३८४ ।।

एदु मधोर्मदिन्तरं सिञ्चाध्वर्यो अन्धसः ।
एवा हि वीरस्तवते सदावृधः ।। ३८५ ।।

एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु ।
प्र राधांसि चोदयते महित्वना ।। ३८६ ।।

एतो न्विन्द्रं स्तवाम सखायः स्तोम्यं नरं ।
कृष्टीर्यो विश्वा अभ्यस्त्येक इथ् ।।३८७ ।।

इन्द्राय साम गायत विप्राय बृहते बृहत् ।
ब्रह्मकृते विपश्चिते पनस्यवे ।। ३८८ ।।

य एक इद्विदयते वसु मर्ताय दाशुषे ।
ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ।। ३८९ ।।
एकवृष प्रजापतिः
त्रैककुभानि त्रीणि

सखाय आ शिषामहे ब्रह्मेन्द्राय वज्रिणे ।
स्तुष ऊ षु वो नृतमाय धृष्णवे ।। ३९० ।।