सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.1 प्रथमप्रपाठकः/1.1.1.3 तृतीया दशतिः

विकिस्रोतः तः
Jump to navigation Jump to search

अग्निं वो वृधन्तमध्वराणां पुरूतमं |
अच्छा नप्त्रे सहस्वते || २१ ||

अग्निस्तिग्मेन शोचिषा यंसद्विश्वं न्या३त्रिणं |
अग्निर्नो वंसते रयिं || २२ ||

अग्ने मृड महां अस्यय आ देवयुं जनं |
इयेथ बर्हिरासदं || २३ ||

अग्ने रक्षा णो अंहसः प्रति स्म देव रीषतः |
तपिष्ठैरजरो दह || २४ ||

पयःसाम(आरण्यकगानम् ७०)


अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः |
अरं वहन्त्याशवः || २५ ||

नि त्वा नक्ष्य विश्पते द्युमन्तं धीमहे वयं |
सुवीरमग्न आहुत || २६ ||

अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयं |
अपां रेतांसि जिन्वति || २७ ||

इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसं |
अग्ने देवेषु प्र वोचः || २८ ||

तं त्वा गोपवनो गिरा जनिष्ठदग्ने अङ्गरः |
स पावक श्रुधी हवं || २९ ||

परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् |
दधद्रत्नानि दाशुषे || ३० ||

उदु त्यं जातवेदसं देवं वहन्ति केतवः |
दृशे विश्वाय सूर्यं || ३१ ||

कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे |
देवममीवचातनं || ३२ ||

शं नो देवीरभिष्टये शं नो भवन्तु पीतये |
शं योरभि स्रवन्तु नः || ३३ ||

कस्य नूनं परीणसि धियो जिन्वसि सत्पते |
जोषाता यस्य ते गिरः || ३४ ||