सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/अथारण्यार्चिकः/1.2.4 चतुर्थी दशतिः

विकिस्रोतः तः
Jump to navigation Jump to search

भ्राजन्त्यग्ने समिधान दीदिवो जिह्वा चरत्यन्तरासनि ।
स त्वं नो अग्ने पयसा वसुविद्रयिं वर्चो दृशेऽदाः ॥६१५ ।।

वसन्त इन्नु रन्त्यो ग्रीष्म इन्नु रन्त्यः ।
वर्षाण्यनु शरदो हेमन्तः शिशिर इन्नु रन्त्यः ॥६१६ ।।

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिं सर्वतो वृत्वात्यतिष्ठद्दशाङ्गुलं ॥६१७ ।।

त्रिपादूर्ध्व उदैत्पुरुषः पदोऽस्येहाभवत्पुनः ।
तथा विष्वङ्व्यक्रामदशनानशने अभि ॥६१८ ।।

पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यं ।
पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि ॥६१९ ।।

तावानस्य महिमा ततो ज्यायांश्च पूरुषः ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥६२० ।।

ततो विराडजायत विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥६२१ ।।

मन्ये वां द्यावापृथिवी सुभोजसौ ये अप्रथेथाममितमभि योजनं ।
द्यावापृथिवी भवतं स्योने ते नो मुञ्चतमंहसः ॥६२२ ।।

हरी त इन्द्र श्मश्रूण्युतो ते हरितौ हरि ।
तं त्वा स्तुवन्ति कवयः पुरुषासो वनर्गवः ॥६२३ ।।

यद्वर्चो हिरण्यस्य यद्वा वर्चो गवामुत ।
सत्यस्य ब्रह्मणो वर्चस्तेन मा सं सृजामसि ॥६२४ ।।

सहस्तन्न इन्द्र दद्ध्योज ईशे ह्यस्य महतो विरप्शिन् ।
क्रतुं न नृम्णं स्थविरं च वाजं वृत्रेषु शत्रून्त्सुहना कृधी नः ॥६२५ ।।

सहर्षभाः सहवत्सा उदेत विश्वा रूपाणी बिभ्रतीर्द्व्यूद्नीः ।
उरुः पृथुरयं वो अस्तु लोक इमा आपः सुप्रपाणा इह स्त ॥६२६ ।।