सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ५/वाचःव्रतपर्व/ऋष्यस्यसाम(हरीत)

विकिस्रोतः तः
ऋष्यस्यसाम व्रतम्.

( १३९।१ ) ॥ ऋष्यस्यसाम व्रतम् । कश्यपोऽनुष्टुबिन्द्रः॥
ह꣢री꣯तइन्द्रश्मश्रू꣡णी꣢ ।। उतो꣡꣯ते꣯हरिता꣢ऽ१उहा꣢ऽ३री꣢ ॥ तन्त्वा꣡꣯स्तुवन्तिका꣢ऽ३᳐ । वा꣤या꣥:॥ प꣢रुषा꣡꣯सो꣯वना꣢ऽ३ । गा꣤वा꣥: ।। ऋ꣡श्या꣯स꣢इन्द्रभु꣡ङ्ङिति꣢म꣡घव꣢न्निन्द्रभु꣡ङ्ङिति꣢भु꣡ङ्ङितिप्र꣢भु꣡ङ्ङिती꣯न्द्रस्तसर꣢पू꣯ता꣣ऽ२३꣡४꣡५꣡: ॥
( दी० ९ । प० ७ । मा० ६ )२२( थू । २२८ )


हरी त इन्द्र श्मश्रूण्युतो ते हरितौ हरी ।

तं त्वा स्तुवन्ति कवयः परुषासो वनर्गवः ॥६२३ ।।


( १३९।१ ) ॥ ऋष्यस्यसाम व्रतम् । कश्यपोऽनुष्टुबिन्द्रः॥

हरीतइन्द्रश्मश्रूणी ।। उतोतहरिताऽ१उहाऽ३री ॥ तन्त्वास्तुवन्तिकाऽ३ । वायाः॥ परुषासोवनाऽ३ । गावाः ।। ऋश्यासइन्द्रभुङ्ङितिमघवन्निन्द्रभुङ्ङितिभुङ्ङितिप्रभुङ्ङितीन्द्रस्तसरपूताऽ२३४५: ॥

( दी० ९ । प० ७ । मा० ६ )२२( थू । २२८ )

[सम्पाद्यताम्]

टिप्पणी

गवामयने महाव्रतम् -- अन्तर्वेदि प्रत्यङ्मुखास्तिष्ठन्तः ऋश्यस्य साम्ना गार्हपत्यमुपतिष्ठेरन् । तस्यैव पश्चात् प्राङ्मुखा वा । गार्हपत्यः शालामुखीयः । हरी त इन्द्रे इति ऋश्यस्य साम्नः कश्यपोऽनुष्टुबिन्द्रः । ऋष्यास इन्द्रेत्यादि निधनम् । अत्र सूत्रम्--इन्द्रप्रभृति प्रत्यक्षं निधनमुपेयुः (ला० श्रौ० ३.९ .२२) इति इन्द्र तसरपूतेति संबुद्ध्य तं ब्रूयुरित्यर्थ । - आर्षेयकल्पः अध्यायः २, पृ. १४५

ऋश्यस्य साम्ना गार्हपत्यमुपतिष्ठन्ते। इन्द्रं सर्वाणि भूतान्यस्तुवंस्तस्यर्श्य एकमङ्गमस्तुतमचायत् तदस्यैतेनास्तौत् तेनास्य प्रियं धामोपागच्छत् प्रियमेवास्यैतेन धामोपगच्छन्ति - तांब्रा. ५.४.१३