सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १६/कावम् (अभिप्रियाणि)

विकिस्रोतः तः
कावम्.
कावम्.

(५५४।१) ॥ कावम् । (कुत्सो) कविः जगती सोमसूर्यौ ।
आ꣢᳐भि꣣प्रीऽ२३४या꣥। णी꣢पा᳐वा꣣ऽ२३४ता꣥इ । चा꣢꣯नो꣯हिताऽ२३:॥ ना꣢मा᳐नी꣣ऽ२३४या꣥ । ह्वो꣢अ᳐धी꣣ऽ२३४ये꣥ । षू꣢꣯व꣡र्द्धताये꣢ऽ३॥ आ꣢सू᳐री꣣ऽ२३४या꣥ । स्या꣢बॄ᳐हा꣣ऽ२३४ता꣥:।। बॄ꣢꣯ह꣡न्नधाये꣢ऽ᳐३᳐॥ रा꣢थं᳐वा꣣ऽ२३४इष्वा꣥ । चा꣢मा᳐रू꣣ऽ२३४हा꣥त् । वि꣢चा᳐ऽ३१उवाऽ२३॥ क्षा꣣ऽ२३४णा꣥:।।
(दी० ४ । प० १३ । मा० ८ )१(दै । १०८९)

(५५४।२) ऐडंकावम् । कविर्जगती सोमसूर्यौ॥
ए꣤ऽ५ । अ꣤भिप्रि꣥याऽ᳐२ । णि꣣प꣤वता꣥इ । ए꣤ऽ५ । च꣤नो꣯हि꣥ताः । ए꣤ऽ५ । ना꣤꣯मा꣯नि꣥याऽ᳐२᳐ । ह्वो꣣꣯अ꣤धिया꣥इ । ए꣤ऽ५ । षु꣤वर्द्ध꣥ताइ ॥ ए꣤ऽ५ । आ꣤꣯सू꣯रि꣥याऽ᳐२᳐ । स्य꣣बृ꣤हता꣥:। ए꣤ऽ५ । बृ꣤हन्न꣥धी ॥ ए꣤ऽ५ । र꣤थंवि꣥ष्वाऽ᳐२᳐ । च꣣म꣤रुहा꣥त् । ए꣤ऽ५ । वि꣤चक्ष꣥णाः । हो꣤ऽ५इ ॥ डा ।।
(दी० ६ । प० २२ । मा० ९ )२ (खो । १०९०)

(५५४।३) वाजसनि । वाजसनिर्जगती सोमसूर्यौ ॥
अ꣥भ्यौ꣯हो꣯वा꣯हा꣯इप्रिया꣤णी꣥ ॥ प꣡वता꣢इ᳐चा꣣ऽ२३४नो꣥ । हि꣢ता꣡: । ना꣢꣯मा꣡नि꣢यह्वो꣯अधिये꣯षुवर्द्धताइ । आ꣢꣯सू꣡र्य꣢स्यबृहतो꣯बृहन्नधा꣡इ ॥ र꣢थ꣡म् । वाइष्व꣢ञ्चमरु꣡ह꣢त् । विचाऽ᳐३᳐१उवाऽ२३ ॥ क्षा꣢ऽ᳐३᳐णा꣡ऽ२३꣡४꣡५꣡:
( दी० १ । प० ९ । मा० ११ )३ (ध । १०९१)

(५५४।४) ॥वाजजिती द्वे । द्वयोर्वाजजिज्जगती सोमसूर्यौ॥
अ꣢भिप्रि꣡या । णी꣢꣯प꣡वताइ । होइहोवा꣢ऽ३हो꣡ये꣢ऽ३᳐४ । च꣤नो꣥꣯हिता꣤: । हा꣥꣯हो꣤ । वाहा꣥इ ॥ ना꣢꣯मा꣯नि꣡या । ह्वो꣢꣯अ꣡धियाइ । होइहोवा꣢ऽ३हो꣡ये꣢ऽ᳐३४ । षुव꣥र्द्धता꣤इ । हा꣥꣯हो꣤ । वाहा꣥इ ॥ आ꣢꣯सू꣯रि꣡या । स्या꣢꣯बृ꣡हताः । होइहोवा꣢ऽ᳐३हो꣡ये꣢ऽ३४ । बृह꣥न्नधी꣤ । हा꣥꣯हो । वाहा꣥इ ॥ र꣢थंवि꣡ष्वा । चा꣢꣯म꣡रुहात् । होइहोवा꣢ऽ᳐३᳐हो꣡ये꣢ऽ᳐३᳐४ । विच꣥क्षणा꣤: । हा꣥꣯हो । वा꣥ऽ६हा꣥उ । वा॥ वा꣢꣯जी꣡꣯जिगी꣢ऽ᳐३᳐वा꣢ꣳऽ१॥
(दी० १५ । प० २६ । मा० १६ )४( पू । १०९२)

(५५४।५)
अ꣢भिप्रि꣡या । णी꣢꣯प꣡वताइ । चा꣢꣯नो꣡꣯हिताः । होवा꣢ऽ᳐३हो꣡इ ॥ ना꣢꣯मा꣯नि꣡या । ह्वो꣢꣯अ꣡धियाइ । षू꣢꣯व꣡र्द्धताइ । होवा꣢ऽ३᳐हो꣡इ ।। आ꣢꣯सू꣯रि꣡या । स्या꣢꣯बृ꣡हताः । बॄ꣢꣯ह꣡न्नधाइ । होवा꣢ऽ᳐३᳐हो꣡ ॥ र꣢थंवि꣡ष्वा । चा꣢꣯म꣡रुहात् । वी꣢꣯च꣡क्षणाः । होवा꣢ऽ᳐३हो꣡ऽ२ । वा꣣ऽ२३४औ꣥꣯हो꣯वा ॥ वा꣢꣯जी꣡꣯जिगी꣢꣯वा꣡꣯विश्वा꣢꣯ध꣡ना꣯ऽ२᳐नी꣰꣣ऽ२३꣡४꣡५꣡ ।
(दी० २१ । प० १८ ! मा० १२) ५ ( गा । १०९३)

(५५४।६) ॥ स्वारकावम् । कविः प्रजापतिर्जगती सोमसूर्यौ ।
अ꣥भ्यो꣤वा ॥ प्रि꣢या꣡꣯णिपवताइ। च꣢नो꣯हा꣡इताऽ᳒२᳒ः । ना꣡꣯मा꣯नियह्वो꣯अधियाइ । षुव꣢र्द्धा꣡ताऽ᳒२᳒इ ॥ आ꣡꣯सू꣯र्यस्यबृहतो । बृ꣢हन्ना꣡धीऽ२३॥ रा꣡था꣢ऽ᳐३०वा꣤इष्वा꣥ । च꣢मरू꣡हाऽ२३त् । वा꣡इचा꣢ऽ᳐३क्षा꣤ऽ५णाऽ६५६ः ॥
(दी० ७ । प० १० । मा०१० )६ ( औ । १०९४ )


अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते ।
आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः ।। ५५४ ।। ऋ. ९.७५.१


(५५४।१) ॥ कावम् । (कुत्सो) कविः जगती सोमसूर्यौ ।
आभिप्रीऽ२३४या। णीपावाऽ२३४ताइ । चानोहिताऽ२३:॥ नामानीऽ२३४या । ह्वोअधीऽ२३४ये । षूवर्द्धतायेऽ३॥ आसूरीऽ२३४या । स्याबॄहाऽ२३४ताः।। बृहन्नधायेऽ३॥ राथंवाऽ२३४इष्वा । चामारूऽ२३४हात् । विचाऽ३१उवाऽ२३॥ क्षाऽ२३४णाः।।
(दी० ४ । प० १३ । मा० ८ )१(दै । १०८९)

(५५४।२) ऐडंकावम् । कविर्जगती सोमसूर्यौ॥
एऽ५ । अभिप्रियाऽ२ । णिपवताइ । एऽ५ । चनोहिताः । एऽ५ : नामानियाऽ२ । ह्वोअधियाइ । एऽ५ । षुवर्द्धताइ ॥ एऽ५ । आसूरियाऽ२ । स्यबृहता:। एऽ५ । बृहन्नधी ॥ एऽ५ । रथंविष्वाऽ२ । चमरुहात् । एऽ५ । विचक्षणाः । होऽ५इ ॥ डा ।।
(दी० ६ । प० २२ । मा० ९ )२ (खो । १०९०)

(५५४।३) वाजसनि । वाजसनिर्जगती सोमसूर्यौ ॥
अभ्यौहोवाहाइप्रियाणी ॥ पवताइचाऽ२३४नौ । हिताः । नामानियह्वोअधियेषुवर्द्धताइ । आसूर्यस्यबृहतोबृहन्नधाइ ॥ रथम् । वाइष्वञ्चमरुहत् । विचाऽ३१उवाऽ२३ ॥ क्षाऽ३णाऽ२३४५:
( दी० १ । प० ९ । मा० ११ )३ (ध । १०९१)

(५५४।४) ॥वाजजिती द्वे । द्वयोर्वाजजिज्जगती सोमसूर्यौ॥
अभिप्रिया । णीपवताइ । होइहोवाऽ३होयेऽ३४ । चनोहिताः । हाहो । वाहाइ ॥ नामानिया । ह्वोअधियाइ । होइहोवाऽ३होयेऽ३४ । षुवर्द्धताइ । हाहो । वाहाइ ॥ आसूरिया । स्याबृहताः । होइहोवोऽ३होयेऽ३४ । बृहन्नधी । हाहो । वाहाइ ॥ रथंविष्वा । चामरुहात् । होइहोवाऽ३होयेऽ३४ । विचक्षणाः । हाहो । वाऽ६हाउ । वा॥ वाजीजिगीऽ३वाꣳऽ१॥
(दी० १५ । प० २६ । मा० १६ )४( पू । १०९२)

(५५४।५)
अभिप्रिया । णीपवताइ । चानोहिताः । होवाऽ३होइ ॥ नामानिया । ह्वोअधियाइ । षूवर्द्धताइ । होवाऽ३होइ ।। आसूरिया । स्याबृहताः । बृहन्नधाइ । होवाऽ३हो ॥ रथंविष्वा । चामरुहात् । वीचक्षणाः । होवाऽ३होऽ२ । वाऽ२३४औहोवा ॥ वाजीजिगीवाविश्वाधनाऽ२नीऽ२३४५ ।
(दी० २१ । प० १८ ! मा० १२) ५ ( गा । १०९३)

(५५४।६) ॥ स्वारकावम् । कविः प्रजापतिर्जगती सोमसूर्यौ ।
अभ्योवा ॥ प्रियाणिपवताइ। चनोहाइताऽ२ः । नामानियह्वोअधियाइ । षुवर्द्धाताऽ२इ ॥ आसूर्यस्यबृहतो । बृहन्नाधीऽ२३॥ राथाऽ३०वाइष्वा । चमरूहाऽ२३त् । वाइचाऽ३क्षाऽ५णाऽ६५६ः ॥
(दी० ७ । प० १० । मा०१० )६ ( औ । १०९४ )


[सम्पाद्यताम्]

टिप्पणी

कावम् (ऊहगानम्)