सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १४/त्रीणिधनमाग्नेयम्(प्रसोम)

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
त्रीणिधनमाग्नेयम्.
त्रीणिधनमाग्नेयम्

प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा ।
अंशोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतं ॥ ५१४ ॥ ऋ. ९.१०७.१२


(५१४।१) ॥ त्रीणिधनमाग्नेयम् । अग्निर्बृहती सोमः ॥
प्रसोमदा॥ वावीताऽ२३४याइ । सिन्धूर्नापाइप्यआऽ३१उवाऽ२३ । णाऽ२३४सा ॥ आꣳशोःपाऽ२३४या। सामदाइरोनजाऽ३१उवाऽ२३ । गॄऽ२३४वीः॥ आच्छाकोऽ२३४शाम् ॥ मधाऽ३१उवाऽ२३॥ श्चूऽ२३४ताम् ॥
(दी० ३ । प० १० । मा० १० )२०( णौ ९७३ ) ॥

(५१४।२) अग्नेर्वैश्वानरस्य साम । अग्निर्बृहती सोमः ।।
प्रसोमदेववी । तयोऽ२३४हाइ॥ सिन्धुर्नपिप्येअ । णसोऽ२३४हाइ । आꣳशाओऽ२३४वा। पायाओs२३४वा।। सामदिरोनजा। गॄऽ२३४। वीऽ६र्हाइ ॥ आच्छाओऽ२३४वा । कोशाओऽ२३४वा । मधूऽ५श्चुताम् । होऽ५६ ॥ डा॥
(दी. ७। प० १८ । मा० १० )२१ ( झौ । ९७४)


(५१४।३) ॥ द्विहिङ्कारं वामदेव्यम् । वामदेवो बृहती सोमः ॥
प्रसोमाऽ२३देववीतयाइ । साइन्धुर्नपिप्ये अर्णासाꣳशोपयसामदिरोनजोहोऽ३ । हिम्माऽ२ । गृऽ२३वीः ॥ अच्छाकोशा०मधौहोऽ३ । हिम्माऽ२ ॥ श्चुताम् । औऽ२३होवा । होऽ५इ ॥ डा॥
(दी० ११ । प० १० । मा० ६ )२२( ङू । ९७५ )


(५१४।४) ॥उत्सेधः । अंगिरसो बृहती सोमः ॥
प्रसोमदेववीतये । सिन्धुः । नपाऽ३४ओहावा ॥ प्येअर्णसाऽ२ । हाऽ३१उवाऽ२३ । ऊ३४पा ॥ अꣳशोऽ३:पया । औहोवाहाइ ॥ सामदिरो । नजागृविः । हाऽ३१उवाऽ२३ । ऊ३४पा॥ अच्छाऽ३कोशम् । औहोवाहाइ ॥ मधूऽ३श्चूऽ५ताऽ६५६म् ॥ ऊऽ२३४५ ॥
(दी० ११ । प० १६ । मा० १० )२३( कौं । ९७६ )



(५१४।५) ॥ निषेधः । अंगिरसो बृहती सोमः ॥
प्रसोमदाइवाऽ६वीतयाइ । सिन्धूर्नपाइ । प्येअर्णसाऽ२ । इहाऽ३ ॥ आꣳशोऽ३:पाया । हाहोऽ२३४हा । सामदिरो । नजागॄऽ२३वीः । इहाऽ३॥ आच्छाऽ३कोशाम् । हाहोऽ२३४हा ॥ मधूऽ३श्चूऽ५ताऽ६५६म् ।। हेऽ२३४५॥
( दी० ५। प० १३ ! मा० ७) २४ (बे ९७७)
 


[सम्पाद्यताम्]

टिप्पणी

ब्राह्मणायावगूर्य्य प्राणं गायेन्निहत्यापानँ शोणिते क्षरति प्र सोम देववीतय इति द्वितीयम् ॥सामविधानब्रा. १.७.४॥ द्र. सायण भा.

ज्योतिष्कान् कुर्य्यान्मानुषीणां घृतेन सद्यो मथितेन प्र सोम देववीतय इत्येतेनैनान्ज्वलयेद् यः पश्चाच्छाम्यति स चिरं जीवति स चिरं जीवति ॥सामविधानब्रा. ३.४.११॥ द्र. सायण भा.

प्र सोमासो विपश्चितः, प्र सोम देववीतये, प्र तु द्रव परि कोशं नि षीदेति प्रवतीर् भवन्ति राथन्तरे ऽहन्। प्रणिनीषेण्यं वा एतद् अहः। प्रेति गायत्र्यै रूपम्। गायत्र्या एवैतद् रूपेण प्रयन्ति। - जैब्रा ३.१३

अथ यद् वो ऽवोचं चतुश्चक्रं स्म पारयिष्णुं समारोहतेति, प्र सोम देववीतये, परीतो षिञ्चता सुतम्, अभि सोमास आयवः, पुनानस् सोम धारयेत्य् एता एव वस् तच् चतस्रो बृहतीर् अवोचम् इति। एष ह वै चतुश्चक्र पारयिष्णुर् यद् एता बृहत्यः। स यथा चतुश्चक्रेण पारयिष्णुना यत्र जिगमिषेत तद् गच्छेद्, एवम् एवैताभिर् बृहतीभिर् बृहतीभि स्वर्गं लोकं गच्छन्ति। अथो एष वाव देवरथः। - जैब्रा. २.४२१

उत्सेध - निषेधौ