सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १२क/एवयामरुतः(प्रवोमहे)

विकिस्रोतः तः
एवयामरुतः
एवयामरुतः

प्र वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत् ।
प्र शर्धाय प्र यज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे ।। ४६२ ।। ऋग्वेदः ५.८७.१


(४६२।१) ।। एवयामरुतः साम । एवयामरुदतिजगतीन्द्रः ।।
प्राऽ२३४ । वोमहेमतयोयन्तुविष्णवो । हाइ ।। मरुत्वताऽ३इगिरिजाऽ३४ः । हाहोइ । एवायाऽ२ । माऽ२३४रूत् । प्राशर्द्धायाऽ२ । प्रायज्यावाऽ२३इ । सूखादाऽ२३४याइ । तवसेभंददिष्टये ।। धुनाइव्राऽ३ताऽ३ ।। याऽ२शाऽ२३४औहोवा ।। वाऽ२३४से ।।
( दी० ९ । प० १४। मा० ९)३३(धो । ८०४)

[सम्पाद्यताम्]

टिप्पणी