सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ११/उत्सेधः(आग्निंन)

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
उत्सेध-निषेधः
उत्सेधः-निषेधः

(४२०।१) ।। उत्सेधः, उत्सेधम् वा । अंगिरसः पंक्तिरग्निः ।।
हा꣢उ । औ᳐हो꣣ऽ२३४वा꣥ । आ꣡꣯ग्निन्नस्ववृक्ति꣢भी꣣ऽ२३꣡४꣡५꣡ः।। हा꣢उ। औ᳐हो꣣ऽ२३४वा । हो꣡꣯ता꣢꣯रन्त्वा꣯वृणी꣯महे꣣ऽ२३꣡४꣡५꣡ । हा꣢उ । औ᳐हो꣣ऽ२३४वा꣥ । शी꣢꣯रं꣡पा꣢꣯वक꣡शो꣢꣯चिष꣡म् । वि꣣वो꣢᳐मा꣣ऽ२३४दा꣥इ ।। हा꣢उ । औ᳐हो꣣ऽ२३४वा꣥ । य꣢ज्ञा꣡इषु꣢स्ती꣯र्ण꣡बर्हि꣢षा꣣ऽ२३꣡४꣡५꣡म्।। हा꣢उ । औ᳐हो꣣ऽ२३४वा꣥ ।। वि꣡वक्ष꣢से꣣ऽ२३꣡४꣡५꣡ ।।

दी० ९ । प० १६ । मा० १०)३( तौ । ७३६)


४२०।२) ।। निषेधः, निषेधम् वा । अंगिरसः पंक्तिरग्निः ।।
आ꣥꣯ग्निन्नस्ववृक्तिभिर्हइहा꣯हाइ ।। हो꣡꣯ता꣢꣯रन्त्वा꣯वृणी꣯महइ꣡हा꣢ऽ३। हा꣢इ । शी꣯रं꣡पा꣢꣯वक꣡शो꣢꣯चिषमि꣡ह꣢इ꣡हा꣢ऽ३। हा꣢इ। वि꣣वो꣢᳐मा꣣ऽ२३४दा꣥इ।। य꣢ज्ञा꣡इषु꣢स्ती꣯र्ण꣡ब꣢र्हिषमि꣡ह꣢इ꣡हा꣢ऽ३।। हा꣢ऽ३इ।। वा꣡ऽ२᳐इवा꣣ऽ२३४औ꣥꣯हो꣯वा।। क्षा꣣ऽ२३४से꣥।।

(पी०१२। प० १०। मा० १३)४(ञि।७३७)



आग्निं न स्ववृक्तिभिर्होतारं त्वा वृणीमहे ।
शीरं पावकशोचिषं वि वो मदे यज्ञेषु स्तीर्णबर्हिषं विवक्षसे ॥ ४२० ॥ ऋ. १०.२१.१


(४२०।१) ।। उत्सेधः, उत्सेधम् वा । अंगिरसः पंक्तिरग्निः ।।

हाउ । औहौऽ२३४वा । आग्निन्नस्ववृक्तिभीऽ२३४५ः।। हाउ। औहोऽ२३४वा । होतारन्त्वावृणीमहेऽ२३४५ । हाउ । औहोऽ२३४वा । शीरंपावकशोचिषम् । विवोमाऽ२३४दाइ ।। हाउ । औहोऽ२३४वा । यज्ञाइषुस्तीर्णबर्हिषाऽ२३४५म्।। हाउ । औहोऽ२३४वा ।। विवक्षसेऽ२३४५ ।।

दी० ९ । प० १६ । मा० १०)३( तौ । ७३६)


४२०।२) ।। निषेधः, निषेधम् वा । अंगिरसः पंक्तिरग्निः ।।
आग्निन्नस्ववृक्तिभिर्हइहाहाइ ।। होतारन्त्वावृणीमहइहाऽ३। हाइ । शीरंपावकशोचिषमिहइहाऽ३। हाइ। विवोमाऽ२३४दाइ।। यज्ञाइषुस्तीर्णबर्हिषमिहइहाऽ३।। हाऽ३इ।। वाऽ२इवाऽ२३४औहोवा।। क्षाऽ२३४से।।

(पी०१२। प० १०। मा० १३)४(ञि।७३७)


[सम्पाद्यताम्]

टिप्पणी

उत्सेधः (ऊहगानम्)

निषेधः (ऊहगानम्)

असुराणां वै बलस्तमसा प्रावृतोऽश्मापिधानश्चासीत् तस्मिन् गव्यं वस्वन्तरासीत् तं देवा नाशक्नुवन् भेत्तुं ते बृहस्पतिमब्रुवन्निमान्न उत्सृजेति स उद्भिदैव बलं व्यच्यावयद्बलभिदाभिनत् तानुत्सेधेनैवोदसृजन्निषेधेन पर्यगृह्णात्....उत्सेधनिषेधौ ब्रह्मसामनी भवत उत्सेधेनैवास्मै पशूनुत्सिध्य निषेधेन परिगृह्णाति - तांब्रा. १९.७.४

उत्सेधेन वै देवाः पशूनुदसेधन्निषेधेन पर्यगृह्णन्। अन्तरोत्सेधनिषेधौ यज्ञायज्ञीयम्। पशवोऽन्नाद्यं यज्ञायज्ञीयं पशूनेव तदन्नाद्यमुत्सेधनिषेधाभ्यां परिगृह्णाति - तांब्रा. १५.९.११

ततो याः सप्तत एव सप्ततयाः पशवो ऽथ यास् सप्तदश, स एव सप्तदशः प्रजापतिः। ताः पितरम् एव प्रजापतिं पश्यन्तीः प्रतिमोदमाना उदेयुः। ता होदेत्य महद् एवाभि विससृजिरे। तासां ह देवाः परावापाद् बिभयांचक्रुः। ता होत्सेधेनैवोत्सिध्य निषेधेन निषिध्यात्मन् दधिरे। स यः पशुकाम स्यात्, त एताभ्यां यजेत। वलभिदैव वलं भिनत्त्य्, उद्भिदा गा उत्सृजते। उत्सेधेनैवैना उत्सिध्य निषेधेन निषिध्यात्मन् धत्ते, अव पशून् रुन्द्धे, बहुपशुर् भवति॥जैब्रा 2.90

तद् यथा मयूखेन वा तीक्ष्णेनाभिनिधाय शंकुना वा कूटेनाभिहन्याद्, एवमेवैतेन त्रिवृता स्तोमेन वलम् अभिनिधाय पञ्चदशेन वज्रेण व्यासुः। अथो आहुर् - अग्निर् एवैष यत् त्रिवृत् स्तोमः। वज्र एष यत् पञ्चदशः। तद् यथाग्निनाश्मानम् अभ्योप्य तं कूटेन भिन्द्याद्, एवम् एवैतेन त्रिवृताग्निना स्तोमेन वलम् अभ्योप्य पञ्चदशेन वज्रेण व्यासुर् इति। ता हान्तर एव तस्थुर् अयनम् अविन्दमानाः। ता होत्सेधेनैवोत्सिषिधुः। - जैब्रा २.९०

हाउ । औहौऽ२३४वा । आग्निन्नस्ववृक्तिभीऽ२३४५ः इति द्वितीयतृतीयादिकम्। आग्निन्नस्ववृक्तिभिर्हइहाहाइ इति मन्द्रादिकम्। - आर्षेयब्राह्मण ४.८.२ सायणटीका