सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०९/तार्क्ष्यसामनी(त्यमूषु)
त्यमू षु वाजिनं देवजूतं सहावानं तरुतारं रथानाम् ।
अरिष्टनेमिं पृतनाजमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम ॥ ऋ. १०.१७८.१॥
साम ३३२ (१.१.४.५)
तार्क्ष्यसामनी द्वे । तार्क्ष्यस्त्रिष्टुबिन्द्रः ( तार्क्ष्यो वा ) ॥
(३३२।१)
त्यम्॥ वाजि । नाऽ२३४५म् । देवजूताऽ२३४म् । सहोवानंता । रुताऽ३ । रँरथानाम् ।
अरिष्टनाऽ२३४इमीम् । पृतनाऽ३४३जमाशुम् ।। स्वस्त । याइ॥ तार्क्ष्यमिहाऽ३४३ । हूऽवाऽ५इमाऽ६५६ ॥
( दी० ८ । प० १३ । मा० ८ )१( डै । ५६३)
(३३२।२)
ईयइयाऽ३हाइ । त्यमूषुवाजिनाऽ३०देऽवजूतम् ॥ ईऽ४यइया । हाऽ२३४ । सहोवानता । रुताऽ३ । रँरथानाम् ॥ इयइयाऽ३हाइ । अरिष्टऽ३ । नाइ। मीऽ३० पृत । नाजमाशूम्।। ईऽ४यइया। हाऽ२३४५इ। स्वस्त। याइ। तार्क्ष्यमिहाऽ३४३ । हूऽ३वाऽ५इमाऽ६५६॥
(दी० १० । प० १८ । मा० १४ )२( बी । ५६४ )
टिप्पणी
सोमप्रवाकविधिः। दीक्षणीयाप्रवर्ग्योपसत्प्रायणीयासु प्रस्तोतुः सामगानम् -- प्रस्तोतारं त्वां वृणा इति यजमानेन वृतः प्रस्तोता पूर्वया द्वारा पत्नीशालां प्रविश्य उत्तरेण अग्नीन् गत्वा पश्चाद्गार्हपत्यस्योपविष्टस्तिष्ठन् वा दीक्षणीयायां त्यमूषु ( ग्राम गे० ९.११. ३३२.१-२) इति तार्क्ष्यसामनी गायेत् । अङ्गानां प्रधानसंनिधौ कर्तव्यत्वात् । - आर्षेयकल्पः उपोद्घातः
तस्माद्यत्र क्व च दूरोहणं रोहेद्धंसवत्यैव रोहेत्तार्क्ष्ये स्वर्गकामस्य रोहेत्तार्क्ष्यो ह वा एतं पूर्वोऽध्वानमैद्यत्रादो गायत्री सुपर्णो भूत्वा सोमामाहरत्तद्यथा क्षेत्रज्ञमध्वनः पुरएतारं कुर्वीत तादृक्तद्यदेव तार्क्ष्येऽयं वै तार्क्ष्यो योऽयं पवत एष स्वर्गस्य लोकस्याभिवोळ्हा त्यमू षु वाजिनं देवजूतमित्येष वै वाजी देवजूतः सहावानं तरुतारं रथानामित्येष वै सहावांस्तरुतैष हीमाँल्लोकान्सद्यस्तरत्यरिष्टनेमिं पृतनाजमाशुमित्येष व अरिष्टनेमिः पृतनाजिदाशुः स्वस्तय इति स्वस्तितामाशास्ते - ऐब्रा. ४.२०