सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०८/यामम्(नाकेसुप)

विकिस्रोतः तः
यामम्.
यामम्.

(३२०।१) ।। यामम् । यमस्त्रिष्टुबिन्द्रः (यमो वा) ।।
आऽ᳒२᳒या꣡म् । अ꣣या꣢꣯य꣡म्। । औ꣭ऽ३हो꣢ऽ३इ । आऽ᳒२᳒इ । ऊऽ२ । ना꣡꣯के꣯सुपार्णमुपयात्प꣣त꣢न्ता꣡꣱म् । प꣣त꣢न्त꣡म् । औ꣭ऽ३हो꣢ऽ३इ । आऽ᳒२᳒इ । ऊऽ᳒२᳒ ।। आऽ२या꣡म् । अ꣣या꣢꣯य꣡म् । औ꣭ऽ३हो꣢ऽ३इ । आऽ᳒२᳒इ । ऊऽ᳒२᳒ । हृ꣡दा꣯वे꣯नांतो꣯अभ्यचाक्ष꣣त꣢त्त्वा꣡ । क्ष꣣त꣢त्वौ꣭ऽ३ । हो꣢ऽ३इ । आऽ२इ । ऊऽ२ ।। आऽ᳒२᳒या꣡म् । अ꣣या꣢꣯य꣡म् । औ꣭ऽ३हो꣢ऽ३इ । आऽ२इ। ऊऽ२ । हि꣡रण्यपाक्षवरुणास्य꣣दू꣢꣯ता꣡꣱म् । स्य꣣दू꣢꣯त꣡म् । औ꣭ऽ३हो꣢ऽ३इ । आऽ२इ । ऊऽ२ ।। आऽ२या꣡म् । अ꣣या꣢꣯य꣡म् । औ꣭ऽ३हो꣢ऽ३इ । आऽ२इ । ऊऽ२ । य꣡मस्ययोनौ꣯शकुनांभु꣣र꣢ण्यू꣡म् । भु꣣र꣢ण्यु꣡म् । औ꣭ऽ३हो꣢ऽ३इ । आऽ२इ । ऊऽ२ । आऽ२या꣡म् । अ꣣या꣢꣯य꣡म् । औ꣭ऽ३हो꣢ऽ३इ । आऽ२इ । ऊ꣡ऽ᳐२ । वा꣯हाऽ३१उवाऽ२३ ।। ए꣢ऽ३ । दि꣡वम् । ए꣢ऽ३ । दि꣡वम् । ए꣢ऽ३ । दि꣡वाऽ२३꣡४꣡५꣡म् ।
( दी० १४ । प० ५२ । मा० ३९)१४ ( थो । ५४२)

नाके सुपर्णमुप यत्पतन्तं हृदा वेनन्तो अभ्यचक्षत त्वा ।
हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युं ॥ ३२० ॥ ऋ. १.१२३.६

(३२०।१) ।। यामम् । यमस्त्रिष्टुबिन्द्रः (यमो वा) ।।
आऽ२याम् । अयायम्। । औऽ३होऽ३इ । आऽ२इ । ऊऽ२ । नाकेसुपार्णमुपयात्पतन्ताम् । पतन्तम् । औऽ३होऽ३इ । आऽ२इ । ऊऽ२ ।। आऽ२याम् । अयायम् । औऽ३होऽ३इ । आऽ२इ । ऊऽ२ । हृदावेनांतोअभ्यचाक्षतत्त्वा । क्षतत्वौऽ३ । होऽ३इ । आऽ२इ । ऊऽ२ ।। आऽ२याम् । अयायम् । औऽ३होऽ३इ । आऽ२इ। ऊऽ२ । हिरण्यपाक्षवरुणास्यदूताम् । स्यदूतम् । औऽ३होऽ३इ । आऽ२इ । ऊऽ२ ।। आऽ२याम् । अयायम् । औऽ३होऽ३इ । आऽ२इ । ऊऽ२ । यमस्ययोनौशकुनांभुरण्यूम् । भुरण्युम् । औऽ३होऽ३इ । आऽ२इ । ऊऽ२ । आऽ२याम् । अयायम् । औऽ३होऽ३इ । आऽ२इ । ऊऽ२ । वाहाऽ३१उवाऽ२३ ।। एऽ३ । दिवम् । एऽ३ । दिवम् । एऽ३ । दिवाऽ२३४५म् ।
( दी० १४ । प० ५२ । मा० ३९)१४ ( थो । ५४२)


[सम्पाद्यताम्]

टिप्पणी

द्र. यामम् (आरण्यकगेयः)

नाके सुपर्णमिति स्थालीपाकँ हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति यमाय स्वाहा प्रेताधिपतये स्वाहा दण्डपाणये स्वाहेश्वराय स्वाहा सर्व्वपापशमनाय स्वाहेति व्याहतिभिर्हुत्वाथ साम गायेत् ॥३॥ - षड्विंशब्राह्मणम् ६.४

यज्ञपात्रस्थापनानन्तरं नाकेसुपर्णमितिसाम्नस्त्रिर्गानं प्राचीनावीती तिष्ठन्कुर्यात् कर्त्ता अन्यो वा। धूमे जाते, त्वेषस्ते धूम ऋण्वतीत्यस्य साम्नः त्रिर्गानं। अग्ने मृड महाँ असीति सामद्वयमध्ये अन्यतरस्य त्रिर्गानम्। - अन्त्येष्टिदीपिका पृ. ६३