सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०८/क्षुरपविणी(अवद्रप्सो)

विकिस्रोतः तः
क्षुरपविणी द्वे - स्यौमरश्मी द्वे।.
क्षुरपविणी द्वे - स्यौमरश्मी द्वे।

(३२३।१) ॥ क्षुरपविणी द्वे । इन्द्रस्त्रिष्टुबिन्द्रः ( इन्द्राबृहस्पती वा )

अ꣢वद्रा꣣ऽ२३४प्सा꣥:॥ आ꣢ꣳशू᳐मा꣣ऽ२३४ती꣥म्꣱ । आ꣡ती꣢ऽ३ । ष्ठाऽ२३꣡४꣡५꣡त् ॥ ई꣢या᳐ना꣣ऽ२३४ःकॄ꣥ । ष्णो꣢᳐दाशा꣣ऽ२३४भी꣥: । सा꣡हा꣢ऽ३ । स्राऽ२३꣡४꣡५꣡इ: ।। आ꣢व᳐त्ता꣣ऽ२३४मी꣥꣱ । द्र꣢:शा᳐ची꣣ऽ२३४या꣥꣱। धा꣡मा꣢ऽ३ । ताऽ२३꣡४꣡५꣡म् ।। आ꣢प᳐स्नी꣣ऽ२३४ही꣥꣱ । तिं꣢नॄ᳐मा꣣ऽ२३४णा꣥꣱: । अ꣡धाऽ२᳐द्रा꣣ऽ२३४औ꣥꣯हो꣯वा ॥ अ꣢धाऽ३द्रा꣡ऽ२३꣡४꣡५꣡: ॥

(दी० २ । प० १६ । मा० १० ) १८ ( चौ । ५४६ )

(३२३।२)

अ꣥वद्रप्साऽ६ए꣥। आ꣡ꣳशु꣢म꣣ती꣯मति꣢ष्ठा꣡ऽ२३त् । ई꣣꣯या꣢᳐न꣣:कृ꣤ष्णा꣥:। दा꣡श꣢भि꣣:सह꣢स्रा꣡ऽ२३इः ।। आ꣣꣯व꣢᳐त्त꣣मि꣤न्द्रा꣥:। शा꣡चि꣢᳐या꣣꣯धम꣢न्ता꣡ऽ२३म्॥ अ꣣पा꣢᳐स्नी꣣꣯हि꣤ती꣥꣱म्। नृ꣡मणा s२३:। अ꣤धाs५द्राः। हो꣤ऽ५ ॥डा॥

(दी० ५ । प० ११ । मा० ११ )१९ ( प । ५४७)


(३२३।३) ॥ स्यौमरश्मे द्वे । स्युमरश्मिस्त्रिष्टुबिन्द्रः॥

अ꣣व꣤द्रप्सो꣣꣯अꣳशु꣥म꣤ती꣥꣯म् । औऽ३हो꣢ऽ३४इ । औ꣣हो꣤꣯वा꣥ ॥ आ꣡ती꣢ऽ३ष्ठा꣢त् । औऽ३हो꣢ऽ३४इ । औ꣣꣯हो꣯वा꣥ । ई꣣꣯या꣢᳐न꣣:कृ꣤ष्णा꣥: । औऽ३हो꣢ऽ३४इ । औ꣣꣯हो꣤꣯वा꣥ । दा꣡श । भा꣢इ᳐:स꣣ह꣤स्रै꣥:। औऽ३हो꣢ऽ३४इ । औ꣯हो꣤꣯वा꣥ ॥ आ꣣꣯व꣢꣱त्त꣣मि꣤न्द्रा꣥: । औऽ३हो꣢ऽ३४इ । औ꣣हो꣤वा꣥ । शा꣡ऽचि । या꣢᳐ध꣣म꣤न्ता꣥꣱म् । औऽ३हो꣢ऽ३४इ । औ꣣꣯हो꣤꣯वा꣥। अ꣣पा꣢᳐स्नी꣣꣯हि꣤ती꣥꣱म् । औऽ३हो꣢ऽ३४इ । औ꣣꣯हो꣤꣯वा꣥ । नृ꣡माऽ᳐२᳐णा꣣ऽ२३४औ꣥꣯हो꣯वा ॥ अ꣢धाऽ३द्रा꣡ऽ२३꣡४꣡५꣡: ॥

(दी० २१। प० २५ । मा० १८ )२० (ङै । ५४८)

(३२३।४)

अ꣣व꣤द्रप्सो꣣꣯अ꣤ꣳशु꣥म꣤ती꣥꣯म् । ए꣢ऽ३ । औ꣢ऽ३हो꣤ऽ५वाऽ ॥ आ꣡ताऽ२३४५इष्ठाऽ६५६त् । ई꣢꣯या꣯न꣡: कृ꣢ष्णो꣡꣯द꣢श꣡भि꣢स्सह꣡स्रै꣢꣯:॥ आ꣡꣯वत्तम् । आ꣡ऽइ । द्रा꣢ऽ३:श꣡चि । या꣢᳐ध꣣मं꣤ता꣥꣱म् ॥ अ꣤प꣥स्नी꣤꣯हि꣥तिंनृम꣤णा꣥꣯:। ओ꣤वा꣥।। अ꣢धद्राऽ३आ꣡ऽ२३꣡४꣡५꣡।।

(दी. १। प० १२ । मा० १०)२१(थौ। ५४९)

अव द्रप्सो अंशुमतीमतिष्ठदीयानः कृष्णो दशभिः सहस्रैः ।
आवत्तमिन्द्रः शच्या धमन्तमप स्नीहितिं नृमणा अधद्राः ॥ ३२३ ॥ ऋ. ८.९६.१३

(३२३।१) ॥ क्षुरपविणी द्वे । इन्द्रस्त्रिष्टुबिन्द्रः ( इन्द्राबृहस्पती वा )

अवद्राऽ२३४प्साः॥ आꣳशूमाऽ२३४तीम् । आतीऽ३ । ष्ठाऽ२३४५त् ॥ ईयानाऽ२३४ःकॄ । ष्णोदाशाऽ२३४भी: । साहाऽ३ । स्राऽ२३४५इ: ।। आवत्ताऽ२३४मी । द्र:शाचीऽ२३४या। धामाऽ३ । ताऽ२३४३म् ।। आपस्नीऽ२३४ही । तिनॄमाऽ२३४णाः । अधाऽ२द्राऽ२३४औहोवा ॥ अधाऽ३द्राऽ२३४५: ॥

(दी० २ । प० १६ । मा० १० ) १८ ( चौ । ५४६ )

(३२३।२)

अवद्रप्साऽ६ए। आꣳशुमतीमतिष्ठाऽ२३त् । ईयानःकृष्णाः। दाशभिःसहस्राऽ२३इः ।। आवत्तमिन्द्राः। शाचियाधमन्ताऽ२३म्॥ अपास्नीहितीम्। नृमणा s२३अधा s५द्राः। होऽ५ ॥डा॥

(दी० ५ । प० ११ । मा० ११ )१९ ( प । ५४७)


(३२३।३)

॥ स्यौमरश्मे द्वे । स्युमरश्मिस्त्रिष्टुबिन्द्रः॥

अवद्रप्सोअꣳशुमतीम् । औऽ३होऽ३४इ । औहोवा ॥ आतीऽ३ष्ठात् । औऽ३होऽ३४इ । औहोवा । ईयानःकृष्णाः । औऽ३होऽ३४इ । औहोवा । दाश । भाइःसहस्रैः। औऽ३होऽ३४इ । औहोवा ॥ आवत्तमिन्द्राः । औऽ३होऽ३४इ । औहोवा । शाऽचि । याधमन्ताम् । औऽ३होऽ३४इ । औहोवा। अपास्नीहितीम् । औऽ३होऽ३४इ । औहोवा । नृमाऽ२णाऽ२३४औहोवा ॥ अधाऽ३द्राऽ२३४५: ॥

(दी० २१। प० २५ । मा० १८ )२० (ङै । ५४८)

(३२३।४)

अवद्रप्सोअꣳशुमतीम् । एऽ३ । औऽ३होऽ५वाऽ ॥ आताऽ२३४५इष्ठाऽ६५६त् । इयानः कृष्णोदशभिस्सहस्रैः॥ आवत्तम् । आऽइ । द्राऽ३:शचि । याधमंताम् ॥ अपस्नीहितिंनृमणाः। ओवा।। अधद्राऽ३आऽ२३४५।।

(दी. १। प० १२ । मा० १०)२१(थौ। ५४९)


[सम्पाद्यताम्]

टिप्पणी

सा गायत्री दिवः सोममाहरत् । हिरण्मय्योर्ह कुश्योरन्तरवहित आस । ते ह स्म क्षुरपवी निमेषं निमेषमभिसंधत्तो दीक्षातपसौ हैव ते आसतुस्तमेते गन्धर्वाः सोमरक्षा जुगुपुरिमे धिष्ण्या इमा होत्राः । तयोरन्यतरां कुशीमाचिच्छेद । तां देवेभ्यः प्रददौ सा दीक्षा तया देवा अदीक्षन्त । अथ द्वितीयां कुशीमाचिच्छेद । तां देवेभ्यः प्रददौ तत्तपस्तया देवास्तपऽउपायन्नुपसदस्तपो ह्युपसदः - माश ३.६.२.११

प्रजापतिर् अग्निम् अचिनुत स क्षुरपविर् भूत्वातिष्ठत् तं देवा बिभ्यतो नोपायन् ते छन्दोभिर् आत्मानं छादयित्वोपायन् तच् छन्दसां छन्दस्त्वम् ब्रह्म वै छन्दाꣳ सि ब्रह्मण एतद् रूपं यत् कृष्णाजिनम् । - तैसं. ५.६.६.१

याभिः शारीराजतं स्यूमरश्मये ताभिरू षु ऊतिभिरश्विना गतम् ॥ऋ. १.११२.१६

अपि च स्यूमरश्मये स्यूतः संबद्धः रश्मिर्दीप्तिर्यस्य तस्मै एतत्संज्ञकाय ऋषये "याभिः ऊतिभिः “शारीः । शरो नाम वेणुविशेषः । तद्विकारभूता इषूः "आजतं शत्रून्प्रति प्रैरयतम् । ताभिरूतिभिरित्यादि पूर्ववत् ॥ - सा.भा.

स्यूमरश्मिर्भार्गवः- ऋग्वेदस्य १०.७७ ऋषिः।

स्यूमरश्मिना ऋषिणा गां प्रविश्य कपिलेन सह संवादः - महाभारतम् शान्तिपर्वः२६८- २७०

द्रप्सोपरि संदर्भाः

अंशुमती उपरि टिप्पणी