सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०५/भारद्वाजम्(पावकानः)

विकिस्रोतः तः
भारद्वाजम्


पावका नः सरस्वती वाजेभिर्वाजिनीवती ।
यज्ञं वष्टु धियावसुः ॥ १८९ ॥ ऋ. १.३.१०

पावकानईया। सरास्वाऽ१तीऽ२। वाजेभिर्वा। जिनाइवाऽ१तीऽ२। यज्ञाऽ२३म्। वाऽ२ष्टूऽ२३४औहोवा। धियावसूऽ२३४५ः॥१४॥
(दी० ७। प० ७। मा० ५ )१४ (छु।३३०)

[सम्पाद्यताम्]

टिप्पणी