सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/संवत्सरपर्व/तृतीयादशतिः/भासे

विकिस्रोतः तः
भासे

मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निं ।
कविं सम्राजमतिथिं जनानामासन्नः पात्रं जनयन्त देवाः ॥ ११४० ॥ ऋ. ६.७.१
त्वां विश्वे अमृत जायमानं शिशुं न देवा अभि सं नवन्ते ।
तव क्रतुभिरमृतत्वमायन्वैश्वानर यत्पित्रोरदीदेः ॥ ११४१ ॥
नाभिं यज्ञानां सदनं रयीणां महामाहावमभि सं नवन्त ।
वैश्वानरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः ॥ ११४२ ॥


भासे।
मू꣢꣯र्धा꣡꣯नंदिवो꣯अरतिंपृ꣢था꣡ऽ२३इव्याः꣢। वै꣯श्वा꣯नर꣡मृतआ꣯जा꣯त꣢मा꣡ऽ२३ग्नी꣢म्। कविँ꣡सम्रा꣯जमतिथिंज꣢ना꣡ऽ२३ना꣢म्। आ꣡꣯सन्नःपा꣯त्रंजनयन्त꣢दा꣡ऽ२३इवाऽ३ः। श्रीः।
त्वा꣡꣯ंविश्वे꣯अमृतजा꣯य꣢मा꣡ऽ२३ना꣢म्। शि꣡शुन्नदे꣯वा꣯अभिसन्न꣢वा꣡ऽ२३न्ता꣢इ। त꣡वक्रतुभिरमृतत्व꣢मा꣡ऽ२३या꣢न्। वै꣡꣯श्वा꣯नरयत्पित्रो꣯र꣢दा꣡ऽ२३इदाऽ३इः। श्रीः।
ना꣡꣯भिंयज्ञा꣯नाँ꣯सदनँर꣢या꣡ऽ२३इणा꣢म्। महा꣡꣯मा꣯हा꣯वमभिसन्न꣢वा꣡ऽ२३न्ता। वै꣯श्वा꣯नरँ꣡रथ्यमध्व꣢रा꣡ऽ२३णा꣢म्।यज्ञस्य꣡के꣯तुंजनयन्त꣢दा꣡ऽ२३इवाऽ३ः।
दी.२७.उत्.६.मा.२१.च.।५७ ।

भासे ।। वायुः। त्रिष्टुप् । अग्निः ।।
मूर्द्धानंदिवोअरतिंपृथाऽ२३इव्याः ॥ वैश्वानरमृतआजातमाऽ२३ग्नीम् ॥ कविꣲ सम्राजमतिथिंजनाऽ२३नाम् ॥ आसन्नᳲ पात्रंजनयन्तदाऽ२३इवाऽ३ः ॥ श्रीः ॥ त्वांविश्वेअमृतजायमाऽ२३नाम् ॥ शिशुन्नदेवाअभिसन्नवाऽ२३न्ताइ ॥ तवक्रतुभिरमृतत्वमाऽ२३यान् ॥ वैश्वानरयत्पित्रोरदाऽ२३इदाऽ३इ: ॥श्रीः।। नाभिंयज्ञानाꣲ सदनꣲ रयाऽ२३इणाम् ॥ महामाहावमभिसन्नवाऽ२३न्ता ॥ वैश्वानरꣲ रथ्यमध्वराऽ२३णाम् ॥ यज्ञस्यकेतुंजनयन्तदाऽ२३इवाऽ३:
दी. २७. उत् . ६. मा. २१. च. ॥५७॥

[सम्पाद्यताम्]

टिप्पणी

मूर्धानं दिवो अरतिं पृथिव्या इत्य् एवंरूपेण वैश्वानरः कार्यः। तन् न वाचं विछिनत्ति, नाग्निं वैश्वानरम् अन्तरेतीति। .....वैश्वानरम् ऋत आ जातम् अग्निम् इत्य् अग्निर् एव वैश्वानरः प्रत्यक्षं भवति।- (जै.ब्रा. ३.१७७)

मूर्धानं दिवो अरतिं पृथिव्या इति द्यावापृथिव्योर् अन्त्यायातयाम्नी परमा गुह्या तनूः। वैश्वानरम् ऋत आ जातम् अग्निम् इत्य् अग्नेर् वैश्वानरस्यान्त्यायातयाम्नी परमा गुह्या तनूः। कविं सम्राजम् अतिथिं जनानाम् इतीन्द्रस्य सम्राड्वतीष्व अन्त्यायातयाम्नी परमा गुह्या तनूः। आसन्ना पात्रं जनयन्त देवा इति विश्वेषां देवानाम् अन्त्यायातयाम्नी परमा गुह्या तनूः॥जैब्रा ३.१७८