सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/संवत्सरपर्व/चतुर्थीदशतिः/राजनम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
राजनम्.

८ राजनम्।। इन्द्रः । त्रिष्टुप् । इन्द्रः ।।
त꣢दि꣡दा꣯सा । भुव । ने꣢꣯षु꣣ज्ये꣤꣯ष्ठा꣥म् ( त्रीणि-त्रिः) ।। य꣢तो꣡꣯जज्ञाइ । उ꣢ग्रः꣡ । त्वे꣢꣯ष꣣नृ꣤म्णाः꣥ (त्रीणि-त्रिः) ।। स꣢द्यो꣡꣯जज्ञा । नो꣢ऽ३नि꣡रि । णा꣢꣯ति꣣श꣤त्रू꣥न् । (त्रिणि-त्रिः) ।। अ꣢नु꣡यम्वाइ । श्वे꣢꣯म꣡ । द꣢न्ति꣣यू꣤꣯माः꣥ ।। (त्रीणि-त्रिः) ।।श्रीः।। वा꣢꣯वृ꣡धा꣯नाः । श꣢व꣡सा꣯ । भू꣢꣯रि꣣यो꣤꣯जाः꣥ (त्रीणि-त्रिः) ।। श꣢त्रु꣡र्दा꣯सा । य꣢भि꣡य । स꣢न्द꣣धा꣤꣯ता꣥इ (त्रीणि-त्रिः) ।। अ꣢वि꣡यनात् । चा꣢ऽ३वि꣡य । न꣢च्च꣣स꣤स्ना꣥इ (त्रीणि- त्रिः) ।। स꣢न्ते꣡꣯नवा । त꣢प्र꣡भृ । ता꣢꣯म꣣दे꣤꣯षू꣥ । (त्रीणि-त्रिः) ।। श्रीः ।। तु꣢वे꣡꣯क्रतूम् । अ꣢पि꣡वृ। । ज꣢न्ति꣣वि꣤श्वा꣥इ ।। (त्रीणि-त्रिः)।। द्वि꣢र्य꣡दाइ । ते꣢꣯त्रि꣡र्भ । व꣢न्ति꣣यू꣤꣯माः꣥ ।। (त्रीणि-त्रिः)।। स्वा꣢꣯दो꣡꣯स्वा꣯दी । य꣢स्वा꣡꣯दु । ना꣢꣯सृ꣣जा꣤꣯सा꣥म् । (त्रीणि-त्रिः)।। अ꣢द꣡स्सुमा । धु꣢म꣡धु । ना꣢꣯भि꣣यो꣤꣯धीः꣥ । (त्रीणि-त्रिः) ।। वा꣡꣯गी꣯डा꣯सू꣯वो꣯बॄ꣯ह꣢द्भा꣣ऽ२३꣡४꣡५꣡ ।।

दी.२६. उत्. ६३. मा. ५५. गु. ।।६६।।

राजनम्

तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः ।
सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमाः ।। १४८३ ।। ऋग्वेदः १०.१२०.१
वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति ।
अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ।। १४८४ ।।
त्वे क्रतुमपि वृञ्जन्ति विश्वे द्विर्यदेते त्रिर्भवन्त्यूमाः ।
स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ।। १४८५ ।।


८ राजनम्।। इन्द्रः । त्रिष्टुप् । इन्द्रः ।।

तदिदासा । भुव । नेषुज्येष्ठाम् ( त्रीणि-त्रिः) ।। यतोजज्ञाइ । उग्रः । त्वेषनृम्णाः (त्रीणि-त्रिः) ।। सद्योजज्ञा । नोऽ३निरि । णातिशत्रून् । (त्रिणि-त्रिः) ।। अनुयम्वाइ । श्वेम । दन्तियूमाः ।। (त्रीणि-त्रिः) ।।श्रीः।। वावृधानाः । शवसा । भूरियोजाः (त्रीणि-त्रिः) ।। शत्रुर्दासा । यभिय । सन्दधाताइ (त्रीणि-त्रिः) ।। अवियनात् । चाऽ३विय । नच्चसस्नाइ (त्रीणि- त्रिः) ।। सन्तेनवा । तप्रभृ । तामदेषू । (त्रीणि-त्रिः) ।। श्रीः ।। तुवेक्रतूम् । अपिवृ। । जन्तिविश्वाइ ।। (त्रीणि-त्रिः)।। द्विर्यदाइ । तेत्रिर्भ । वन्तियूमाः ।। (त्रीणि-त्रिः)।। स्वादोस्वादी । यस्वादु । नासृजासाम् । (त्रीणि-त्रिः)।। अदस्सुमा । धुमधु । नाभियोधीः । (त्रीणि-त्रिः) ।। वागीडासूवोबॄहद्भाऽ२३४५ ।।

दी.२६. उत्. ६३. मा. ५५. गु. ।।६६।।

भक्तीनां विभाजनम् --

हिम् । हिम् ( ५ आवृत्तियां ) । हो ( ५ )। हँ ( ५ ) । ओहा ( ५ ) । औहोइ ( ५ ) ।। तदिदासा । भुव । नेषुज्येष्ठाम् ( तीन शब्दों की ५ आवृत्तियां ) ।। हिम् ( ५ ) । हो ( ५ ) । हँ ( ५ ) । ओहा ( ५ ) । औहोइ ( ५ ) । वयोबृहत् ( ५ ) । विभ्राष्टयेविधर्मणे ( ५ ) ।। (प्रस्ताव: )।।
ओम् । हिम् ( ५ ) । हो ( ५ )। हँ ( ५ ) । ओहा ( ५ ) । औहोइ ( ५ ) । यतोजज्ञाइ । उग्र: । त्वेषनृम्णाः ( तीन शब्दों की पांच आवृत्तियां) ।
हिम् ( ५ ) । हो ( ५ ) । हँ ( ५ ) । ओहा ( ५ ) । औहोइ ( ५ ) । सत्यमोज: ( ५ ) । रजस्सुव: ( ५) ( उद्गीथ: ) ।।
हिम् ( ५ ) । हो ( ५ ) । हँ (५ ) । (५ ) । औहोइ (५ ) । सद्योजज्ञा: । नोऽ३निरि । णातिशत्रून् ( तीन शब्दों की पांच आवृत्तियां ) ।
हिम् ( ५ ) । हो ( ५ ) । हँ ( ५ ) । ओहा (५ ) । औहोइ ( ५ ) । भद्रँ सुधा ( ५ ) । भद्रँसुधे । षमूर्जम् । इषमूर्जम् ( ५ ) । ( प्रतिहार: ) ।।
हिम् ( ५ ) । हो ( ५ ) । हँ ( ५ ) । ओहा ( ५ ) । औहोइ ( ५ ) । अनुयम्वाइ । श्वेम । दन्तियूमा: ( तीन शब्दों की पांच आवृत्तियां ) ।
हिम् ( ५ ) । हो ( ५ ) । हँ ( ५ ) । ओहा ( ५ ) । औहोइ ( ५ ) । बृहद्यशः ( ५ ) । दिविदधेऽ३हस: ( ५ ) । दिविदधेऽ३। हाउवा । ( उपद्रव: ) ।
वागीडासूवोबृहद्भा ऽ२३४५ । (निधनम् )।। श्री: ।। (श्री मुरलीकृष्ण श्रौती, चेन्नई)

[सम्पाद्यताम्]

टिप्पणी

प्रजापतिः प्रजा असृजत सो ऽकामयत । आसाम् अहꣳ राज्यम् परीयाम् इति तासाꣳ राजनेनैव राज्यम् पर्य् ऐत् तद् राजनस्य राजनत्वम् । यद् राजनम् भवति प्रजानाम् एव तद् यजमाना राज्यम् परि यन्ति पञ्चविꣳशम् भवति प्रजापतेः आप्त्यै पञ्चभिस् तिष्ठन्त स्तुवन्ति देवलोकम् एवाभि जयन्ति पञ्चभिर् आसीना मनुष्यलोकम् एवाभि जयन्ति - तैसं ७.५.८.३

तद् ध वै प्रत्यक्षं वामदेव्यं यद् राजनम्। तस्य प्राणेन प्रस्तौति। ऋचा वै वामदेव्यस्य प्रस्तौति। प्राणेनैतस्य हिं हिं हिं प्राणो ऽसद् इति वै हिंकुर्वन्ति। यथा ह वै वयस आशय एवं राजनस्य वामदेव्यम्। प्रजापतिर् वै पितादित्यः पुत्रः। प्रजापतिर् वामदेव्यम् आदित्यो राजनम्। तस्माद् एष एतयोर् आभावत्तरं तपति। - जै २.१५

उद्गाता पञ्चविंशेनात्मना राजनेन स्तोष्यन्न् औदुम्बरीम् अधिरोहत्य् - ऊर्ग् वा अन्नम् उदुम्बर - ऊर्ज एवान्नाद्यस्यावरुद्ध्यै। ताम् अभिमन्त्रयते - बृहद्रथन्तरे ते पूर्वौ पादौ, वैरूपवैराजे ऽपरौ, शाक्वररैवते ऽनूच्यानि, छन्दांस्य् आस्तरणं, यजूंषि विवयनं, स्योनाम् आसदं सुषदाम् आसदम् इति। तस्यै प्रत्यवरोहो - मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम्। पिपृतां नो भरीमभिः॥ इति॥ - जै २.४०६

उद्गाता पञ्चविंशेनात्मना राजनेनोद्गायति। इमं तद् आत्मानं प्रतिदधाति। तस्माद् अयम् आत्मा प्रतिहितः। पराचीभिर् पुनरभ्यावर्तम्। तस्माद् इदम् आत्मानं सं चाञ्चति, प्र च सारयति। तिस्रस् सतीः पञ्चविंशतिं करोति। तस्माद् अयम् आत्मा मेद्यतो ऽनुमेद्यति, कृश्यतो ऽनुकृश्यति। त एकैकयास्तुयोद्गातारम् उपसमायन्ति। ताभिर् उद्गातोद्गायति। आत्मन्न् एव तद् अंगानि प्रतिदधाति। तस्माद् आत्मन्न् अङ्गानि प्रतिहितानि। आत्मन्ययोत्तमयोद्गायति। तस्माद् इदम् आत्मन उद् इव शेते॥- जै २.४०८

वामदेव्यम् एवैतस्याह्नः पृष्ठं कार्यम् इति। आत्मा वै व्रतस्य वामदेव्यम्। स यथागत्य गृहान् न विन्देत् तादृक् तद् यद् एतस्याह्नोऽन्यद् वामदेव्यात् पृष्ठं कुर्युः। तद् आहु - स्वारं न पृष्ठतायै। तत्स्थानं राजनम् एवैतस्याह्नः पृष्ठं कार्यम् इति। राजनेन वै प्रजापतिः प्रजानां राज्यम् ऐश्वर्यम् आधिपत्यम् अगच्छत्। तद् येन प्रजापतिः प्रजानां राज्यम् ऐश्वर्यम् आधिपत्यम् अगच्छत्, तेन प्रजानां राज्यम् ऐश्वर्यम् आधिपत्यं गच्छामेति। परोक्षम् इव ह खलु वा एतद् वामदेव्यं यद् राजनम्। राजनं पृष्ठं भवति। - जै २.४११

तदाहुरपृष्ठं वै वामदेव्यमनिधनं हीति अनायतनं वा एतत् साम यदनिधनम् राजनं महाव्रतं कार्यम् एतद्वै साक्षादन्नं यद्राजनं पञ्चविधं भवति पाङ्क्तं ह्यन्नम् हिङ्कारवद्भवति तेन वामदेव्यस्य रूपम् निधनवद्भवति तेन पृष्ठस्य रूपम् - तां ५.२.७

दक्षिणतः पुच्छस्याऽऽत्मानं नमस्ते राजनाय यस्त आत्मेति, इति ।- ऐआ ५.१.२

महाव्रते राजनसाम्नः विनियोगं आत्मनः ध्रुवतायै अस्ति। यथा राजनस्य त्रिचे कथनमस्ति (तत् इत् आस भुवनेषु ज्येष्ठं यतो जज्ञे उग्रस्त्वेषनृम्णः ), भुवस्थाने यस्य प्राणस्य विकासः भवति, यस्य आत्मा नामास्ति, तत् रौद्रः, उग्रः अस्ति। तस्य शान्त्यै लोके सर्वेषां अन्नानां, अन्नाद्यानां व्यवहारं भवति, किन्तु आत्मनः उग्रतायाः शान्तिः क्षणिकरूपेणैव भवति। स्कन्दपुराणे २.६.२.११ कथनमस्ति - आत्मारामस्य कृष्णस्य ध्रुवमात्मास्ति राधिका ।। तस्या दास्यप्रभावेण विरहोऽस्मान्न संस्पृशेत् ।। आत्मनः ध्रुवता किं भवति, अस्य निदर्शनं पुराणेषु गयातीर्थमाहात्म्ये गयासुरस्य संदर्भे कृतमस्ति। देवाः गयासुरस्य देहोपरि यज्ञं कर्तुं इच्छन्ति, किन्तु गयासुरस्य देहः स्थिरं न भवति, कम्पितः भवति। यदा जनार्दनविष्णुः गदां गृहीत्वा तस्योपरि स्थितः भवति, तदानीमेव तस्य देहः स्थिरः भवति। अत्र स्थिरीकरणस्य तात्पर्यं बाह्यसुखदुःखेन आत्मनः अप्रभावित्वमस्ति, अयं कथितुं शक्यन्ते। आत्मनः ध्रुवतायै राजनस्य साम्नः व्यावहारिकरूपेण किमुपयोगं अस्ति, अयं विचारणीयः।

आत्मा उपरि संदर्भाः