स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/भागवतमाहात्म्यम्/अध्यायः ०२
।। श्रीऋषय ऊचुः ।। ।।
शांडिल्ये तौ समादिश्य परावृत्ते स्वमाश्रमम् ।।
कि कथं चक्रतुस्तौ तु राजानौ सूत तद्वद ।। १ ।। ।।
।। श्रीसूत उवाच ।। ।।
ततस्तु विष्णुरातेन श्रेणीमुख्वाः सहस्रशः ।।
इन्द्रप्रस्थात्समानाय्य मथुरास्थानमापिताः ।। २ ।।
माथुरान्ब्राह्मणांस्तत्र वानरांश्च पुरातनान् ।।
विज्ञाय माननीयत्वं तेषु स्थापितवान्स्वरादट् ।। ३ ।।
वज्रस्तु तत्सहायेन शाण्डिल्यस्याऽप्यनुग्रहात् ।।
गोविन्दगोपगोपीनां लीलास्थानान्यनुक्रमात् ।। ४ ।।
विज्ञायाऽभिधयाऽऽस्थाप्य ग्रामानावासयद्बहून् ।।
कुण्डकूपादिपूर्तेन शिवादिस्थापनेन च ।। ५ ।।
गोविन्दहरिदेवादिस्वरूपाऽऽरोपणेन च ।।
कृष्णैकभक्तिं स्वे राज्यं ततान च मुमोद ह ।। ६ ।।
प्रजास्तु मुदितास्तस्य कृष्णकीर्तनतत्पराः।।
परमानन्दसम्पन्ना राज्यं तस्यैव तुष्टुवुः ।। ७ ।।
एकदा कृष्णपत्न्यस्तु श्रीकृष्णविरहातुराः ।।
कालिन्दीं मुदिता वीक्ष्य पप्रच्छुर्गतमत्सराः ।। ८ ।।।।
।। श्रीकृष्णपत्न्य ऊचुः ।। ।।
यथा वयं कृष्णपत्न्यस्तथा त्वमपि शोभने ।।
वयं विरहदुःखार्तास्त्वं न कालिन्दि तद्वद ।। ९ ।।
तच्छ्रुत्वा स्मयमाना सा कालिन्दी वाक्यमब्रवीत् ।।
सापत्न्यं वीक्ष्य तत्तासां करुणापरमानसा ।। 2.6.2.१० ।। ।।
श्रीकालिन्द्युवाच ।। ।।
आत्मारामस्य कृष्णस्य ध्रुवमात्मास्ति राधिका ।।
तस्या दास्यप्रभावेण विरहोऽस्मान्न संस्पृशेत् ।। ११ ।।
तस्या एवांशविस्ताराः सर्वाः श्रीकृष्णनायिकाः ।।
नित्यसंभोग एवास्ति तस्याः साम्मुख्ययोगतः ।। १२ ।।
स एव सा स सैवास्ति वंशी तत्प्रेमरूपिका ।।
श्रीकृष्णनखचन्द्रालिसंगाच्चन्द्रावली स्मृता ।। १३ ।।
रूपान्तरं च गृह्णाना तयोः सेवातिलालसा ।।
रुक्मिण्यादिसमावेशो मयात्रैव विलोकितः ।। १४ ।।
युष्माकमपि कृष्णेन विरहो नैव सर्वतः ।।
किन्तु एवं न जानीथ तस्माद्व्याकुलतामिताः ।। १५ ।।
एवमेवात्र गोपीनामक्रूरावसरे पुरा ।।
विरहाभास एवासीदुद्धवेन समाहितः ।। १६ ।।
तेनैव भवतीनां चेद्भवेदत्र समागमः ।।
तर्हि नित्यं स्वकान्तेन विहारमपि लप्स्यथ ।। १७ ।।
।। श्रीसूत उवाच ।। ।।
एवमुक्तास्तु ताः पत्न्यः प्रसन्नां पुनरब्रुवन् ।।
उद्धवालोकनेनात्मप्रेष्ठसंगमलालसाः ।। १८ ।।
।। श्रीकृष्णपत्न्य ऊचुः ।। ।।
धन्यासि सखि कान्तेन यस्या नैवास्ति विच्युतिः ।।
यतस्ते स्वार्थसंसिद्धिस्तस्या दास्यो बभूविम ।। १९ ।।
परन्तूद्धवलाभे स्यादस्मत्सर्वार्थसाधनम् ।।
तथा वदस्व कालिन्दि तल्लाभोऽपि यथा भवेत् ।। 2.6.2.२० ।।
।। श्रीसूत उवाच ।। ।।
एवमुक्ता तु कालिन्दी प्रत्युवाचाथ तास्तथा ।।
स्मरन्ती कृष्णचन्द्रस्य कलाषोडशरूपिणी ।। २१ ।।
साधनभूमिर्बदरी व्रजता कृष्णेन मंत्रिणे प्रोक्ता ।।
तत्रास्ते स तु साक्षात्तद्वयुनं ग्राहयँल्लोकान् ।। २२ ।।
फलभूमिर्व्रजभूमिर्दत्ता तस्मै पुरैव सरहस्यम् ।।
फलमिह तिरोहितं सत्तदिहेदानीं स उद्धवोऽलक्ष्यः ।। २३ ।।
गोवर्द्धनगिरिनिकटे सखीस्थले तद्रजःकामः ।।
तत्रत्याङ्कुरवल्लीरूपेणास्ते स उद्धवो नूनम् ।। २४ ।।
आत्मोत्सवरूपत्वं हरिणा तस्मै समर्पितं नियतम् ।।
तस्मात्तत्र स्थित्वा कुसुमसरःपरिसरे सवज्राभिः ।। २५ ।।
वीणावेणुमृदंगैः कीर्तनकाव्यादिसरससंगीतैः ।।
उत्सव आरब्धव्यो हरिरतलोकान्समानाय्य ।। २६ ।।
तत्रोद्धवावलोको भविता नियतं महोत्सवे वितते ।।
यौष्माकीणामभिमतसिद्धिं सविता स एव सवितानाम् ।। २७ ।।
।। श्रीसूत उवाच ।। ।।
इति श्रुत्वा प्रसन्नास्ताः कालिन्दीमभिवन्द्य तत् ।।
कथयामासुरागत्य वज्रं प्रति परीक्षितम् ।। २८ ।।
विष्णुरातस्तु तच्छ्रुत्वा प्रसन्नस्तद्युतस्तदा ।।
तत्रैवागत्य तत्सर्वं कारयामास सत्वरम् ।। २९ ।।
गोवर्धनाददूरेण वृन्दारण्ये सखीस्थले ।।
प्रवृत्तः कुसुमाम्भोधौ कृष्णसंकीर्तनोत्सवः ।। 2.6.2.३० ।।
वृषभानुसुताकान्तविहारे कीर्तनश्रिया ।।
साक्षादिव समावृत्ते सर्वेऽनन्यदृशोऽभवन् ।। ३१ ।।
ततः पश्यत्सु सर्वेषु तृणगुल्मलताचयात् ।।
आजगामोद्धवः स्रग्वी श्यामः पीताम्बरावृतः ।। ३२ ।।
गुञ्जामालाधरो गायन्बल्लवीवल्लभं मुहुः ।।
तदागमनतो रेजे भृशं संकीर्तनोत्सवः ।। ३३ ।।
चन्द्रिकागमतो यद्वत्स्फाटिकाट्टालभूमणिः ।।
अथ सर्वे सुखाम्भोधौ मग्नाः सर्वं विसस्मरुः ।। ३४ ।।
क्षणेनागतविज्ञाना दृष्ट्वा श्रीकृष्णरूपिणम् ।।
उद्धवं पूजयांचक्रुः प्रतिलब्धमनोरथाः ।। ३५ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीमद्भागवतमाहात्म्ये गोवर्द्धनपर्वतसमीपे परीक्षिदादीनामुद्धवदर्शनवर्णनोनाम द्वितीयोऽध्यायः ।। २ ।।