सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/संवत्सरपर्व/चतुर्थीदशतिः/बृहत्साम(त्वमग्ने)

विकिस्रोतः तः
बृहत्.
बृहत्.

त्वमग्ने यज्ञानां होता विश्वेषां हितः ।
देवेभिर्मानुषे जने ।। १४७४ ।। ऋग्वेदः ६.१६.१
स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः ।
आ देवान्वक्षि यक्षि च ।। १४७५ ।।
वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा ।
अग्ने यज्ञेषु सुक्रतो ।। १४७६ ।।



५. बृहत्साम ।। भरद्वाजः ।। गायत्री । अग्निः ।।
औहोइत्वमग्नेयज्ञानाꣲहोऽ३ए ।। ताऽ२३४वाइ । शुवाऽ३४ । औहोवा । षाऽ३१म् । ।।हाऽ२३४इताः ।। देवेभिर्माऽ३४ । औहोवा । नूऽ२षाइजाऽ२३४ । नाइ । उहुवाऽ६हाउ । वा ।। श्रीः ।। औओइनेसाऽ३ए ।। नोमन्द्रा । भाइरध्वाऽ२३४राइ । जिह्वाऽ३४ । औहोवा । भाइः । याजाऽ३१ । माऽ२३४हाः । । आदेवान्वाऽ३४ । औहोवा ।। क्षाऽ२इयाक्षाऽ२३४इ । चा । उहुवाऽ६हाउ । वा ।।श्रीः।। औहोइचवाऽ३ए ।। थाहिवे । धोअध्वाऽ२३४नाः । पथाऽ३४ । औहोवा । चदाइ । वाआऽ३१ । जाऽ२३४सा ।। अग्नेयज्ञाऽ३४ । औहोवा ।। षूऽ२सू । षूऽ२सुक्राऽ२३४ । ताउ । उहुवाऽ६हाउ । वा । । हस् । ।
दी. ३०. उत् ६ मा. २८. पै ।।६३।।


[सम्पाद्यताम्]

टिप्पणी

गवामयनम्- विश्वजित् अह-- इति आर्भवः पवमानः ।।........ त्वमग्ने यज्ञानां होते-( सा० १४७४-६ )ति बृहदग्निष्टोमसाम (र० २ .२.८) ।। ६ ।। तस्य गायत्री छन्दः । स्तुतिकाले दुन्दुभिघोषः कार्यः ।। ६ ।। आर्षेयकल्पः अध्यायः २, पृ. १३४


अप्तोर्यामो द्विविधः - सर्वपृष्ठाप्तोर्यामो ज्योतिरप्तोर्यामश्च। सर्वपृष्ठाप्तोर्यामो पुनर्द्विविधो बृहत्पृष्ठो रथन्तरपृष्ठश्च। - श्रौतकोशः

सर्वपृृष्ठाप्तोर्यामस्य ये द्विप्रकारौ स्तः, तत्र अग्निष्टोमसामोपरि(यज्ञायज्ञीयम्) बृहत्साम्नः प्रयोगस्य निर्देशः ( आर्षेयकल्पः २९८ )। माघशुक्लएकादशी, विक्रमसंवत् २०७१ तिथौ(३०जनवरी २०१५ ई.) कर्नूलमध्ये यस्य ज्योतिरप्तोर्यामसोमयागस्य अनुष्ठानं अभवत्, तत्र यज्ञायज्ञीयस्यानन्तरं बृहत्पृष्ठस्य प्रयोगं नासीत्। यत्र यजमानः ब्राह्मणः भवति, तत्र ज्योति अप्तोर्यामस्य प्रयोगं भवति।

महाभारते शान्तिपर्व ३४२/३५१.६ मध्ये अग्नीषोमीयस्य प्रकृत्याः विवेचने त्वमग्ने यज्ञानां मन्त्रस्य उल्लेखस्य किं तात्पर्यमस्ति, अन्वेषणीयः।