सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/दशरात्रपर्व/द्वितीयादशतिः/भद्रम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
भद्रम्
भद्रम्.


( ८०।१) ।। भद्रम्। प्रज्ञापतिर्भुवनो द्विपदाविराड्विश्वे देवाः ।।
हो꣡꣯इहा꣯। (त्रिः)। इ꣢हो꣡꣯इहा꣯। (त्रिः)। औ꣯होऽ᳒२᳒। इ꣡हा । (द्वे द्वि.) । औ꣯हो꣢꣯इ꣣हा꣢ऽ३४ । औ꣥꣯हो꣯वा।। इ꣢मा꣡꣯नुकंभुवना꣢꣯सी꣯षधे꣯माऽ३ । इ꣡हा । इन्द्रश्च꣢वि꣡श्वे꣯च꣢दे꣯वाऽ३ः । इ꣡हा । हो꣯इहा꣯ । (त्रिः) । इ꣢हो꣡꣯इहा꣯ । (त्रिः) । औ꣯होऽ᳒२᳒ । इ꣡हा । ( द्वे द्विः) । औ꣯꣥हो꣢꣯इ꣣हा꣢ऽ३४ ।। औ꣥꣯हो꣯वा।। ए꣢ऽ३ । भ꣡द्र꣢म् ।।
(दी० ४२ । प० ३०।मा० १६ )२१ (ञू । १३२)

भद्रम् ।। प्रजापतिर्भुवनः । द्विपदात्रिष्टुप् (ज्योतिष्मती)इन्द्रः। विश्वेदेवाः।।
हो꣡꣯इहा꣯ । इ꣢मा꣡꣯नुकंभुवना꣢꣯सी꣯षधे꣯माऽ३ । इ꣡हा ।। इन्द्रश्च꣢वि꣡श्वे꣯च꣢दे꣯वाऽ३ः । इ꣡हा ।।श्रीः।। य꣢ज्ञ꣡ञ्चन꣢स्तन्व꣡ञ्चप्र꣢जा꣡꣯ञ्चा꣢ऽ३ । इ꣡हा । आ꣢꣯दित्यै꣡꣯रिन्द्रस्स꣢ह꣡सी꣯ष꣢धा꣯तूऽ३ । इ꣡हा ।। श्रीः ।। आ꣢꣯दित्यै꣡꣯रिन्द्र꣢स्स꣡गणो꣢꣯मरु꣡द्भी꣢ऽ३ः । इ꣡हा ।। अ꣢स्म꣡भ्यंभे꣢꣯षजा꣡꣯करा꣢ऽ३त् । इ꣡हा ।। एऽ३ । भ꣢द्र꣡म् ।।
दी. १८. उ. ६. मा. ५. ट. ।।२१।।
इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः ॥ १११० ॥ ऋ. १०.१५७.१
यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह सीषधातु ॥ ११११ ॥
आदित्यैरिन्द्रः सगणो मरुद्भिरस्मभ्यं भेषजा करत् ॥१११२ ॥



( ८०।१) ।। भद्रम्। प्रज्ञापतिर्भुवनो द्विपदाविराड्विश्वे देवाः ।।

होइहा। (त्रिः)। इहोइहा। (त्रिः)। औहोऽ२। इहा । (द्वे द्वि.) । औहोइहाऽ३४ । औहोवा।। इमानुकंभुवनासीषधेमाऽ३ । इहा । इन्द्रश्चविश्वेचदेवाऽ३ः । इहा । होइहा । (त्रिः) । इहोइहा । (त्रिः) । औहोऽ२ । इहा । ( द्वे द्विः) । औहोइहाऽ३४ ।। औहोवा।। एऽ३ । भद्रम् ।।

(दी० ४२ । प० ३०।मा० १६ )२१ (ञू । १३२)


 भद्रम् ।। प्रजापतिर्भुवनः । द्विपदात्रिष्टुप् (ज्योतिष्मती)इन्द्रः। विश्वेदेवाः।।

होइहा । इमानुकंभुवनासीषधेमाऽ३ । इहा ।। इन्द्रश्चविश्वेचदेवाऽ३ः । इहा ।।श्रीः।। यज्ञञ्चनस्तन्वञ्चप्रजाञ्चाऽ३ । इहा । आदित्यैरिन्द्रस्सहसीषधातूऽ३ । इहा ।। श्रीः ।। आदित्यैरिन्द्रस्सगणोमरुद्भीऽ३ः । इहा ।। अस्मभ्यंमेषजाकराऽ३त् । इहा ।। एऽ३ । भद्रम् ।।

दी. १८. उ. ६. मा. ५. ट. ।।२१।।

[सम्पाद्यताम्]

टिप्पणी

द्र. आरण्यकगाने भद्रश्रेयसी सामनी

महाव्रतम् -- नेष्टैकविंशेन पुच्छेन भद्रेणोद्गायति। इदं तत् पुच्छं प्रतिदधाति। तस्माद् इदं पुच्छं प्रतिहितम्। पराचीभिर् पुनरभ्यावर्तम्। तस्माद् इदं पुच्छं सं चाञ्चति, प्र च सारयति। तिस्रस् सतीर् एकविंशतिं करोति। तस्माद् इदं पुच्छं मेद्यतो ऽनुमेद्यति कृश्यतो ऽनुकृश्यति। - जै.ब्रा. २.४०८

इमा नु कं भुवना सीषधेमेन्द्रश् च विश्वे च देवा इति वैश्वदेव्यो भवन्ति। वैश्वदेवो वै वृषाकपिः। वैश्वदेवम् एतद् अहः। यज्ञं च नस् तन्वं च प्रजां चादित्यैर् इन्द्रस् सह सीषधात्व् इति सिद्ध्या एव। आदित्यैर् इन्द्रस् सगणो मरुद्भिर् अस्मभ्यं भेषजा करद् इति भेषजम् एवैतेन प्रायश्चित्तिं कुर्वते॥जैब्रा ३.१७१

तासु गोतमस्य भद्रम्। गोतमो वै श्रीकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स श्रियम् आश्नुत। तच् छ्रीर् वै भद्रम्। प्रजा वै भद्रम्। प्रजायै या प्रजा सा श्रेयः। अपि ह प्रजायै प्रजां पश्यते य एवं वेद। यद् उ गोतमो ऽपश्यत् तस्माद् गोतमस्य भद्रम् इत्य् आख्यायते। जैब्रा ३.१७२

गवामयने महाव्रतीये एकविंशं भद्रं पुच्छं - आर्षेयकल्पः अ. २, पृ. १४२

भद्रोपरि पौराणिक, वैदिकसंदर्भाः, टिप्पणी च।