सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/दशरात्रपर्व/द्वितीयादशतिः/श्येनः

विकिस्रोतः तः
श्येनः.
श्येनः
श्येनः

१६
उभे यदिन्द्र रोदसी आपप्राथोषा इव ।
महान्तं त्वा महीनां सम्राजं चर्षणीनां ।
देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥१०९० ॥ऋ. १०.१३४.१
दीर्घं ह्यङ्कुशं यथा शक्तिं बिभर्षि मन्तुमः ।
पूर्वेण मघवन्पदा वयामजो यथा यमः ।
देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥१०९१ ॥
अव स्म दुर्हृणायतो मर्त्तस्य तनुहि स्थिरं ।
अधस्पदं तमीं कृधि यो अस्मां अभिदासति ।
देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥१०९२ ॥


श्येनः ।। प्रजापतिः। महापङ्क्तिः (षट्पदातिजगती) इन्द्रः ।।
ऊभाइ । । यदिन्द्ररोऽ२दसाइ । इडा ।। आपा । प्राथउषाऽ२इवा । इडा ।। माहा ।। तन्त्वामहाऽ२इऽनाम् । इडा ।। साम्रा । जञ्चर्षणाऽ२इनाम् । इडा ।।श्रीः।। दीर्घाम् । हियङ्कुशाऽ२म्यथा । इडा ।। शाक्तीम् ।। बिभर्षिमाऽ२न्तुमाः ।। इडा । पूर्वे ।। णमघवाऽ२न्पदा । इडा ।। वायाम् ।। अजोयथाऽ२यमाः । इडा ।।श्रीः।। आवा ।। स्मदुर्हृणाऽ२यताः । इडा ।। मार्ता । । स्यतनुहाऽ२इस्थिराम् । इडा ।। आधाः ।। पदन्तमाऽ२इङ्कृधाइ । इडा ।। योआ ।। स्माꣳअभिदाऽ२सताइ। । इडा ।। देवी ।। जनित्र्यजाऽ२इजनात्। । इडा ।। भाद्रा। । जनित्र्यजाऽ२इजनात् । इडाऽ२३४५ ।।

दी. ४. उ. १४. मा २६.धू. ।।१९।।


[सम्पाद्यताम्]

टिप्पणी

श्येनम् (आरण्यकगेयः)

उभे यदिन्द्र रोदसी इति षट्पदाः षष्ठस्याह्नो रूपं तेन षष्ठमहरारभन्ते सन्तत्यै। ......श्येनो भवति। श्येनो ह वै पूर्वप्रेतानि वयांस्याप्नोति पूर्वप्रेतानीव वै पूर्वाण्यहानि तेषामाप्त्यै श्येनः क्रियते। श्येनो वा एतदहः सम्पारयितुमर्हति स हि वयसामाशिष्ठस्तस्यानपहननाय सम्पारणायैतत् क्रियतेऽन्तो हि षष्ठं चाहः सप्तमं च-तांब्रा. १३.१०.१४