सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/दशरात्रपर्व/द्वितीयादशतिः/बार्हद्गिरम्
इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः ।
तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु प्र नोऽविषत् ।।१००२ ।। ऋ. १.८१.१
असि हि वीर सेन्योऽसि भूरि पराददिः ।
असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ।। १००३ ।।
यदुदीरत आजयो धृष्णवे धीयते धनां ।
युङ्क्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्मां इन्द्र वसौ दधः ।। १००४ ।।
टिप्पणी
आभीके इत्यादि (ग्रामगेयः)
बार्हद्गिरम्(आरण्यकम्)
इन्द्रो मदाय वावृध इत्यवर्धन्त ह्येतर्हि। तासु बार्हद्गिरम्। स्वादोरित्था विषूवत इति विषुवान् वै पञ्चममहस्तासु रायोवाजीयम्। इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत् तेषां त्रय उदशिष्यन्त पृथुरश्मिर्बृहद्गिरी रायोवाजस्तेऽब्रुवन् को न इमान् पुत्रान् भरिष्यतीत्यहमितीन्द्रोऽब्रवीत् तानाधिनिधाय परिचार्यं चरद्(?) वर्धयंस्तान् वर्धयित्वाब्रवीत् कुमारका वरान् वृणीध्वमिति, क्षत्रं मह्यमित्यब्रवीत् पृथुरश्मिस्तस्मा एतेन पार्थुरश्मेन क्षत्रं प्रायच्छत् क्षत्रकाम एतेन स्तुवीत क्षत्रस्यैवास्य प्रकाशो भवति, ब्रह्मवर्चसं मह्यमित्यब्रवीत् बृहद्गिरिस्तस्मा एतेन बार्हद्गिरेण प्रायच्छत् ब्रह्मवर्चसकाम एतेन स्तुवीत ब्रह्मवर्चसी भवति, पशून्मह्यमित्यब्रवीद्रायोवाजस्तस्मा एतेन रायोवाजीयेन पशून् प्रायच्छत् पशुकाम एतेन स्तुवीत पशुमान् भवति। पार्थुरश्मं राजन्याय ब्रह्मसाम कुर्यात् बार्हद्गिरं ब्राह्मणाय रायोवाजीयं वैश्याय स्वेनैवेनांस्तद्रूपेण समर्धयति स्तोमः - तांब्रा. १३.४.७