सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ११/आभीके(इन्द्रोमदा)
दिखावट
इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः ।
तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु प्र नोऽविषत् ॥४११ ॥ ऋ. १.८१.१
टिप्पणी
मत्स्याक्षक शङ्खपुष्पी वचा केरडी घृतानि बार्हद्गिरेणाभिजुहुयात्सहस्रकृत्वः शतावरमेतेनैव प्राश्नीयाच्छ्रुतनिगादी भवति ॥ सामविधानब्रा. २.७.११॥
बार्हद्गिरम् (आरण्यकगेयः)
बार्हद्गिरम् (ऊह्यगानम्)