सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/दशरात्रपर्व/तृतीयादशतिः/स्वाशिरामर्कः

विकिस्रोतः तः
स्वाशिरामर्कः
स्वाशिरामर्कः.

पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः ।
वायुमा रोह धर्मणा ॥ १२३५ ॥ ऋ. ९.६३.२२
पवमान नि तोशसे रयिं सोम श्रवाय्यं ।
इन्दो समुद्रमा विश ॥ १२३६ ॥
अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः ।
नुदस्वादेवयुं जनं ॥ १२३७ ॥

[सम्पाद्यताम्]

टिप्पणी

पवस्व देव आयुषगिन्द्रं गच्छतु ते मद"इति गायत्री भवति मदवद्वै रसवत् तृतीयसवनं मदमेव तद्रसं दधाति........स्वाशिरामर्को भवति। अन्नं वा अर्कोऽन्नाद्यस्यावरुध्यै प्राणा वै स्वाशिरः प्राणानामवरुध्यै - पञ्च.ब्रा १४.११.८

अथ स्वाशिराम् अर्को - ऽन्नं वा अर्को - ऽन्नाद्यस्यैवावरुद्ध्यै। स्वाशिरो वै नामाप्सरस इमा एवौषधयः। ता अकामयन्त - बह्वी स्याम, प्रजायेमहि, वीमं लोकम् आप्नुयामेति। ता एतत् सामापश्यन्। तेनास्तुवत। ततो वै ता बह्वीय आसन्, प्राजायन्त, वीमं लोकम् आप्नुवन्। सो ऽयं सर्वो लोक ओषधीभिस् संछन्नो ऽपि गिरयः। तद् एतत् प्रजननं साम। बहुः प्रजया पशुभिः प्रजायते, वीमं लोकम् आप्नोति य एवं वेद। यद् उ स्वाशिरो ऽप्सरसो ऽपश्यंस् तस्मात् स्वाशिराम् अर्क इत्य आख्यायते। - जैब्रा ३.२२६