सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/दशरात्रपर्व/तृतीयादशतिः/सङ्कृति

विकिस्रोतः तः
सङ्कृति
सङ्कृति.

४. सङ्कृति ॥ प्रजापतिः। देवाः वा । बृहती। पवमानस्सोमः। .

ए꣡पारी꣢ ॥ तो꣯षि꣡ञ्चताऽ२३हो꣡ऽ२३।। सु꣡ताऽ२३म् ।। हा꣢꣯ओ꣣꣯वा꣯।
सो꣡꣯मो꣢꣯य꣡उत्त꣢म꣡ꣲह꣢वि꣡:। द꣢धन्वा꣡꣯ꣲयो꣯नर्यो꣯अ꣢॥ प्सु꣡व꣢न्त꣡रा꣯॥ सु꣢षा꣡꣯व꣢सो꣡꣯म꣢म꣡द्रिभि꣢: ॥श्रीः॥ ए꣡सूषा꣢ ॥ वसो꣡꣯ममाऽ२३हो꣡ऽ२३ । द्रि꣡भाऽ२३इः । हा꣢꣯ओ꣣꣯वा । सु꣢षा꣡꣯व꣢सो꣡꣯म꣢म꣡द्रिभि꣢: । नू꣯नं꣡पुना꣢꣯नो꣡꣯विभि꣢: । प꣡रिस्र꣢व ॥ अ꣡दब्ध꣢स्सुरभि꣡न्तर꣢: ।। श्रीः ॥ ए꣡आदा꣢॥ ब्धस्सु꣡रभाऽ२३इहो꣡ऽ२३ । त꣡राऽ२३: ॥ हा꣢꣯ओ꣣꣯वा꣯ । अ꣡दब्ध꣢स्सुरभि꣡न्तर꣢:। सुते꣡꣯चित्त्वा꣢꣯प्सु꣡मदा꣢꣯। मो꣯अ꣡न्धसा꣢꣯ ॥ श्री꣯ण꣡न्तो꣢꣯गो꣡꣯भि꣢रु꣡त्तर꣢म् ॥ हौऽ३ । आ꣢ऽ३ । ऊ꣢ऽ३ । ईऽ२३꣡४꣡५꣡ ॥

दी. ३२. उत् . १०.मा. २०. ञौ ॥२४॥


परीतो षिञ्चता सुतं सोमो य उत्तमं हविः ।
दधन्वां यो नर्यो अप्स्वा३न्तरा सुषाव सोममद्रिभिः ।। १३१३ ।। ऋ. ९.१०७.१
नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः ।
सुते चित्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरं ।। १३१४ ।।

४. सङ्कृति ॥ प्रजापतिः। देवाः वा । बृहती। पवमानस्सोमः।

एपारी ॥ तोषिञ्चताऽ२३होऽ२३।। सुताऽ२३म् ।। हाओवा। सोमोय उत्तम8हविः। दधन्वा8योनर्योअ॥ प्सुवन्तरा॥ सुषावसोममद्रिभिः ॥श्रीः॥ एसूषा ॥ वसोममाऽ२३होऽ२३ । द्रिभाऽ२३इः । हाओवा । सुषावसोममद्रिभिः । नूनंपुनानोविभिः । परिस्रव ॥ अदब्धस्सुरभिन्तरः ।। श्रीः ॥ एआदा ॥ ब्धस्सुरभाऽ२३इहोऽ२३ । तराऽ२३: ॥ हाओवा । अदब्धस्सुरभिन्तरः। सुतेचित्त्वाप्सुमदा। मोअन्धसा ॥ श्रीणन्तोगोभिरुत्तरम् ॥ हौऽ३ । आऽ३ । ऊऽ३ । ईऽ२३४५ ॥

दी. ३२. उत् . १०.मा. २०. ञौ ॥२४॥


[सम्पाद्यताम्]

टिप्पणी

संकृत्यच्छावाकसाम भवति उत्सन्नयज्ञ इव वा एष यदश्वमेधः किं वा ह्येतस्य क्रियते किं वा न यत्संकृत्यच्छावाकसाम भवत्यश्वस्यैव सर्वत्वाय सर्वस्तोमोऽतिरात्र उत्तममहर्भवति सर्वं वै सर्वस्तोमोऽतिरात्रः सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै - माश १३.३.३.६

अथ संकृति। त्रिरात्रेण वै देवा ऊर्ध्वा स्वर्गं लोकम् आयन्। स एषाम् असंगृहीतो वीवावृह्यत। तं गायत्रपार्श्वेणैवोदत्तभ्नुवन्, सन्तनिना समतन्वन्, संकृतिना समकुर्वंस्, त्रिषन्धिना समदधुः, श्रायन्तीयेन समश्रीणन्न्, अरिष्टेनारिष्टताम् अगमयन्। त्रिरात्रेण यद् देवा स्वर्गं लोकम् आयन्न् एतेन वै तद् आयन्। स एषां संव्यवृह्यत। तस्मिन्न् एतानि भूयिष्ठानि सामानि क्रियन्ते। एतम् एवैतत् त्रिरात्रं भिषज्यन्ति। भेषजम् एवैतेन प्रायश्चित्तिं कुर्वते। संकृतिना वै देवाः प्रजाः पशूञ् छ्रियम् अन्नाद्यं समकुर्वत। तत् संकृतिनस् संकृतित्वम्। प्रजाः पशूञ् छ्रियम् अन्नाद्यं संस्कुरुते य एवं वेद। तस्यो एते वृकणावा भवन्त्य्, उभय्या एव वाच उपाप्त्यै या च ग्राम्या या चारण्या। तच् चतुर्निधनं भवति - चतुष्पदा वै पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्धयै॥जैब्रा ३.२५३