सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/दशरात्रपर्व/तृतीयादशतिः/रथन्तरम्

विकिस्रोतः तः
रथन्तरम्
रथन्तरम्

कया नश्चित्र आ भुवदूती सदावृधः सखा ।
कया शचिष्ठया वृता ॥ ६८२ ॥ ऋ. ४.३१.१
कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः ।
दृढा चिदारुजे वसु ॥ ६८३ ॥
अभी षु णः सखीनामविता जरितॄणाम् ।
शतं भवास्यूतये ॥ ६८४ ॥

[सम्पाद्यताम्]

टिप्पणी

अथ रथन्तरम्। ब्रह्म वै रथन्तरम्। ब्रह्मण्य् एवैतत् प्रतितिष्ठन्तो यन्ति। तद् गायत्रीषु भवति। रेतो वै गायत्र्यै रथन्तरं, योनिर् वै रथन्तरस्य गायत्री। तद् यद् गायत्रीषु रथन्तरं भवति, योन्याम् एवैतद् रेतः प्रतिष्ठापयन्ति। अनुष्ठ्यास्य रेतस् सिक्तं प्रजायते य एवं वेद। गायत्रं ह खलु वै रथन्तरं गायत्री छन्दः। तद् यद् गायत्रीषु रथन्तरं पृष्ठं भवति, स्वेनैवैनं तद् आयतनेन समर्धयन्ति। तेनैभ्यस् समृद्धेन स्वायां जनतायाम् ऋद्धुकं भवति। त्रीणि वा एतानि सम्यञ्चि संधीयन्ते - गायत्री छन्दश्, चतुर्विंश स्तोमो, रथन्तरं साम। तद् यद् एतानि सम्यञ्चि संधीयन्ते समृद्ध्या एव। सम् अस्मा ऋध्यते य एवं वेद॥जैब्रा. ३.२९२

एते ह खलु वा अर्क्योदामनीये एते रथन्तरस्याक्षरे व्यतिषक्ते। एताभ्याम् एवैतद् द्विषन्तं भ्रातृव्यम् उपोभ्योत्तिष्ठन्ति। तद् आहुर् व्यूढम् एतद् अहा3स् समूढा3म् इति। उभयम् इति ब्रूयाद्, व्यूढं च समूढं चेति। सामभिर् व्यूढं छन्दोभिस् समूढम् इति। एता भवन्ति मा चिद् अन्यद् वि शंसतेति मासान् एवैतद् अर्धमासान् अभिवदति। अथो तेषाम् एव प्रजापतिम् अनु प्रजायत। - जैब्रा ३.२९३