सामवेदः/कौथुमीया/संहिता/ऊहगानम्/सत्रपर्व/विंशः २/आष्कारणिधनं काण्वं

विकिस्रोतः तः
आष्कारणिधनं काण्वम्

अभि सोमास आयवः पवन्ते मद्यं मदं ।
समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः ।। ८५६ ।। ऋ. ९.२३.४
तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् ।
अर्षा मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत् ।।८५७ ।।

[सम्पाद्यताम्]

टिप्पणी

अथ काण्वम्। कण्वो वै नार्षदो ज्योग् अप्रतिष्ठितश् चरन् सो ऽकामयत - प्रति - तिष्ठेयम् इति। स एतत् सामापश्यत्। तस्य निधनं नापश्यत्। स वृषदंशस्य क्ष्वत उपाशृणोत्। तद् अपश्यत्। तेनास्तुत। ततो वै स प्रत्यतिष्ठत्। तद् एतत् प्रतिष्ठा - साम। प्रतितिष्ठति य एवं वेद। यद् उ कण्वो नार्षदो ऽपश्यत् तस्मात् काण्वम् इत्य् आख्यायते। - जैब्रा. ३.४६