सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ९/सांवर्तम्

विकिस्रोतः तः
सांवर्तम्.
सावर्तम्.

एन्द्र नो गधि प्रिय सत्राजिदगोह्य ।
गिरिर्न विश्वतः पृथुः पतिर्दिवः ॥ १२४७ ॥ ऋ. ८.९८.४
अभि हि सत्य सोमपा उभे बभूथ रोदसी ।
इन्द्रासि सुन्वतो वृधः पतिर्दिवः ॥ १२४८ ॥
त्वं हि शश्वतीनामिन्द्र धर्त्ता पुरामसि ।
हन्ता दस्योर्मनोर्वृधः पतिर्दिवः ॥ १२४९ ॥

[सम्पाद्यताम्]

टिप्पणी

ऐन्द्र नो गधि प्रिय इतीन्द्रियस्य वीर्यस्यावरुध्यै.......सांवर्तं भवति। देवानां वै यज्ञं रक्षांस्यजिघांसंस्तान्येतेन इन्द्रः संवर्तमपावपद्यत् संवर्तमपावपत् तस्मात् सांवर्तं पाप्मा वाव स तानसचत तं सांवर्तेनापाघ्नताप पाप्मानं हते सांवर्तेन तुष्टुवानः - पञ्च.ब्रा १४.१२.६

एन्द्र नो गधि प्रिय सत्राजिद् अगोह्य। गिरिर् न विश्वतः पृथुः पतिर् दिवः॥ अभि हि सत्य सोमपा इत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः। उभे बभूथ रोदसी इतीमे ह वाव रोदसी। एते एवैतद् अभिवदति। इन्द्रासि सुन्वतो वृधस् पतिर् दिव इति वृद्धं ह्य् एतद् अहर् यच् चतुश्चत्वारिंशम्॥जैब्रा ३.२३२

तासु सांवर्तं पदनिधनं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। संवर्त आङ्गिरस स्वर्गकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स पतिर् दिवः पतिर् दिव इत्य् एव स्वर्गं लोकम् आरोहत्। यथाह पतेद् एवम् एतद् यत् पतिर् दिव इति। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। यद् उ संवर्त आङ्गिरसो ऽपश्यत् तस्मात् सांवर्तम् इत्य् आख्यायते। देवासुरा अस्पर्धन्त। ते ऽसुरा महद् अभिव्यासत। स इन्द्रो ऽकामयत सार्धम् एवासुरान् संवृत्य हन्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। त्वं हि शश्वतीनाम् इन्द्र धर्ता पुराम् असि। हन्ता दस्योर् मनोर् वृधः पतिर् दिवः॥ इत्य् एवैनान् सार्धं संवृत्याहन्। तद् व् एव सांवर्तस्य सांवर्तत्वम्। सार्धम् एव संवृत्य द्विषन्तं भ्रातृव्यं हन्ति य एवं वेद॥ जैब्रा ३.२३३