सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ९/त्रैतम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
त्रैतम्
त्रैतम्

प्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिं ।
विश्वा परि प्रिया भुवदध द्विता ।। १०१३ ।। ऋ. ९.१०२.१
उप त्रितस्य पाष्यो३रभक्त यद्गुहा पदं ।
यज्ञस्य सप्त धामभिरध प्रियं ।। १०१४ ।।
त्रीणि त्रितस्य धारया पृष्टेष्वैरयद्रयिं ।
मिमीते अस्य योजना वि सुक्रतुः ।। १०१५ ।।

[सम्पाद्यताम्]

टिप्पणी

प्राणा शिशुर् महीनाम् इति पशुरूपम् एवैतद् उपगच्छन्ति। पशूनां वै शिशुर् भवति। तासु त्रैतम् उक्तब्राहमणम्। - जैब्रा ३.२२७

त्रैतं भवति प्रतिष्ठायै - तांब्रा १४.११.२१