सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ९/इडानां संक्षारः(पवमानस्य)

विकिस्रोतः तः
इडानां संक्षारः
इडानां संक्षारम्.

पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत ।
जीरा अजिरशोचिषः ।। १३१० ।। ऋ. ९.६६.२५
पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः ।
हरिश्चन्द्रो मरुद्गणः ।। १३११ ।।
पवमान व्यश्नुहि रश्मिभिर्वाजसातमः ।
दधत्स्तोत्रे सुवीर्यं ।। १३१२ ।।



१९. इडानांसंक्षारः । इडा । गायत्री । पवमानस्सोमः ।

औहोइहुवाऽ३होइ । पवमानाऽ३स्याऽ३जिघ्नतः ।। हरेश्चन्द्राऽ३आऽ३सृक्षत ।। जीराआऽ२३४जाइ ।। रशोचिषः । इडाऽ२३ ।।श्रीः।। पवमानोऽ३राऽ३थीतमः ।। शुभ्रेभिश्शूऽ३भ्राऽ३शस्तमः ।। हराइश्चाऽ२३४न्द्राः ।। मरुद्गणः । इडाऽ२३ ।।श्रीः।। पवमानाऽ३वीऽ३यश्नुहि ।। रश्मिभिर्वाऽ३जाऽ३सातमः ।। औहोइहुवाऽ३होइ । दधात्स्तोऽ२३४त्राइ ।। सुवीरियम् ।। इडाऽ२३भाऽ३ । एहीडा । होऽ५इ ।।डा।।

दी. १४ उत् ३ मा. १८. दै. ।।१७९।।



९.६६.२५ पवमानस्य जङ्घ्नतो इति

अदारसृक् १.९.१४

सुरूपोत्तरम् १.९.१५

हरिश्रीनिधनम् १.९.१६

सैन्धुक्षितम् १.९.१७

गतनिधनबाभ्रवम् १.९.१८

इडानां संक्षारः १.९.१९

ऋषभः पवमानः १.९.२०


[सम्पाद्यताम्]

टिप्पणी

पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत"इति हरिवत्यो गायत्र्यो भवन्ति छन्दोमानामयातयामतायै। पवमानस्य जिघ्नत"इति वै बृहतो रूपंऽऽहरेश्चन्द्रा असृक्षत"इति जगत्या उभयोः सहरूपमुपैति साम्नश्च छन्दसश्च। .....इडानां संक्षारो भवति। पशवो वा इडा पशवश्छन्दोमाः पशुष्वेव तत् पशून् दधाति। - तांब्रा. १५.३.१५

पवमानस्य जिघ्नत इति बृहतो रूपं, हरेश् चन्द्रा इति जगत्यै। पवमानो रथीतमश् शुभ्रेभिश् शुभ्रशस्तमः। हरिश्चन्द्रो मरुद्गणः॥ इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। पवमान व्य् अश्नुहीति वैश्वदेवं रूपम् उपगच्छन्ति। वैश्वदेवं ह्य् एतद् अहः। ता घ्नद्वतीर् भवन्ति। अन्तो नवमम् अहः। अन्तम् एवैतद् आगत्यैताभिस् सर्वं पाप्मानम् अपघ्नते। - जैब्रा. ३.२४५

अथाङ्गिरसां निवेष्टः। अङ्गिरसो वा अकामयन्ताव पशून् रुन्धीमहीति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै तान् सर्वाभ्यो दिग्भ्यः पशवो ऽभिन्यवेष्टन्त। तद् यद् एनान् सर्वाभ्यो दिग्भ्यः पशवो ऽभिन्यवेष्टन्त तन् निवेष्टस्य निवेष्टत्वम्। ते ऽब्रुवन् सं वै न इमा इळा अक्षारिषुर् इति। पशवो वा इळा। तस्माद् व् इळानां संक्षारः। - जै.ब्रा. ३.२५०