सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ८/मार्गीयवम्
अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ नय ।
पुनाहीन्द्राय पातवे ॥ १२२५ ॥ ऋ. ९.५१.१
तव त्य इन्दो अन्धसो देवा मधोर्व्याशत ।
पवमानस्य मरुतः ॥ १२२६ ॥
दिवः पीयूषमुत्तमं सोममिन्द्राय वज्रिणे ।
सुनोता मधुमत्तमं ॥ १२२७ ॥
२. मार्गीयवम् । मृगयुः । गायत्री। पवमानस्सोमः ।।
अध्वौहोवा ॥ र्योआऽ२ । द्रिभाइस्सूऽ२३४ताम् । सोमम्पवि । त्रआनाऽ१याऽ२ ॥ पुना। हा। औऽ३होइ । हीऽ२३४न्द्रा ॥ याऽ२पाऽ२३४औहोवा ॥ एऽ३ । तवेऽ२३४५ ॥श्रीः।। तवौहोवा ॥ त्याआऽ२इ। दोअन्धाऽ२३४साः। देवामधोः । वियाशाऽ१ताऽ२ ॥ पवा। हा । औऽ३होइ । माऽ२३४ना ॥ स्याऽ२माऽ२३४औहोवा ॥ एऽ३ । रुताऽ२३४५: ॥ श्रीः ॥ दिवौहोवा ॥ पीयूऽ२ । षमुत्ताऽ२३४माम् । सोममिन्द्रा । यावाज्राऽ१इणाऽ२इ ॥ सुनो । हा। औऽ३होइ। ताऽ२३४मा । धूऽ२माऽ२३४औहोवा ॥ एऽ३ । तमाऽ२३४५म् ॥
दी. १९. उत् . ६”. मा. २०. तौ. ॥१४२।।
टिप्पणी
दशरात्रस्य अष्टमेऽहनि माध्यन्दिनपवमानस्य स्तोमक्लृप्तिः -- अध्वर्यो अद्रिभिः सुतम्"इति गायत्री भवत्यह्नो धृत्यै गायत्र्यः सत्यस्त्रिष्टुभोरूपेण त्रैष्टुभं ह्येतदहः अभि सोमास आयव"इत्यभीति रथन्तरस्य रूपं बृहदिति बृहत उभयोः सह रूपमुपैत्युभौ हि वर्णावेतदहः धर्ता दिवः पवते कृत्व्यो रस"इत्यधृत इव वा एषस्त्र्यहो यद्धर्तेति धृत्या एव जगत्यस्सत्यस्त्रिष्टुभो रूपेण तस्मात् त्रिष्टुभो लोके क्रियन्ते गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम् वैरूपं भवति पशवो वै वैरूपं पशूनामवरुध्यै विरूपः संवत्सरो विरूपमन्नमन्नाद्यस्यावरुध्यै आशु भार्गवं भवति अहर्वा एतदव्लीयत तद्देवा आशुनाभ्यधिन्वंस्तदाशोराशुत्वम् मार्गीयवं भवति देवं वा एतं मृगयुरिति वदन्त्येतेन वै स उभयेषां पशूनामाधिपत्यमाश्नुतोभयेषां पशूनामाधिपत्यमश्नुते मार्गीयवेण तुष्टुवानः सौमित्रं भवति यदेव सौमित्रस्य ब्राह्मणम् ऐटतं भवति इटन् वा एतेन काव्योऽञ्जसा स्वर्गं लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः साकमश्वं भवति यदेव साकमश्वस्य ब्राह्मणम् तदु धुरां सामेत्याहुः प्राणा वै धुरः प्राणानामवरुध्यै विलम्बसौपर्णं भवति आत्मा वा एष सौपर्णानां यदष्टमेऽहनि पक्षावेतावभितो भवतो ये सप्तमनवमयोर्वीव वा अन्तरात्मा पक्षौ लम्बते यदन्तरात्मा पक्षौ विलम्बते तस्माद्विलम्बसौपर्णम् स्वर्गस्य लोकस्य समष्ट्यै सौपर्णं क्रियते - तांब्रा. १४.९.१
अथ मार्गीयवं पदनिधनं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। मृगयुर् वै देवो ऽकामयतोभयेषां पशूनाम् ऐश्वर्यम् आधिपत्यं गच्छेयं ये च ग्राम्या ये चारण्या इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स उभयेषां पशूनाम् ऐश्वर्यम् आधिपत्यम् अगच्छद् ये च ग्राम्या ये चारण्याः। ततो ह स्म वै तस्मै मृगो मृगम् आनयति। तद् एतत् पशव्यं साम। उभयेषां पशूनाम् ऐश्वर्यम् आधिपत्यं गच्छति ये च ग्राम्या ये चारण्या य एवं वेद। एष ह वाव स देवो मृगयुः। न हास्यैष पशून् अभिमन्यते य एवं वेद। यद् उ मृगयुर् देवो ऽपश्यत् तस्मान् मार्गीयवम् इत्य् आख्यायते॥3जै.ब्रा. ३.२१२2॥