सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ८/आशुभार्गवम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
आशुभार्गवम्
आशुभार्गवम्.

अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ नय ।
पुनाहीन्द्राय पातवे ॥ १२२५ ॥ ऋ. ९.५१.१
तव त्य इन्दो अन्धसो देवा मधोर्व्याशत ।
पवमानस्य मरुतः ॥ १२२६ ॥
दिवः पीयूषमुत्तमं सोममिन्द्राय वज्रिणे ।
सुनोता मधुमत्तमं ॥ १२२७ ॥

चतुर्थस्यार्धᳲप्रपाठकः ॥
सप्तमो विंशः॥
१. आशुभार्गवम् ॥ भृगुः। गायत्री। पवमानस्सोमः ॥
अध्वर्योअद्रि। भिस्सूऽ३ताम् ॥ सोमम्पवाऽ३इ । त्राआऽ२नाऽ२३४या ॥ पुनाहाऽ१ इन्द्राऽ२ ॥ यपाऽ३ । ताऽ२३४वोऽ६”हाइ ॥श्रीः॥ तवत्यइन्दो । अन्धाऽ३साः ॥ दाइवामधोऽ३ः । वायाऽ२शाऽ२३४ता ॥ पवामाऽ१नाऽ२ ॥ स्यमाऽ३ । रूऽ२३४तोऽ६” हाइ ॥श्रीः॥ दिवᳲपीयूषम् । उत्ताऽ३माम् ॥ सोममिन्द्राऽ३। यावाऽ२ज्राऽ२३४इणाइ ॥ सुनोताऽ१माऽ२ ॥ धुमाऽ३ । ताऽ२३४मोऽ६”हाइ ॥
 
दी. ५. उत्. १. मा. १६”. पू. ॥१४१॥

[सम्पाद्यताम्]

टिप्पणी

दशरात्रस्य अष्टमेहनि माध्यन्दिनपवमानस्य स्तोमक्लृप्तिः -- अध्वर्यो अद्रिभिः सुतम्"इति गायत्री भवत्यह्नो धृत्यै गायत्र्यः सत्यस्त्रिष्टुभोरूपेण त्रैष्टुभं ह्येतदहः अभि सोमास आयव"इत्यभीति रथन्तरस्य रूपं बृहदिति बृहत उभयोः सह रूपमुपैत्युभौ हि वर्णावेतदहः धर्ता दिवः पवते कृत्व्यो रस"इत्यधृत इव वा एषस्त्र्यहो यद्धर्तेति धृत्या एव जगत्यस्सत्यस्त्रिष्टुभो रूपेण तस्मात् त्रिष्टुभो लोके क्रियन्ते गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम् वैरूपं भवति पशवो वै वैरूपं पशूनामवरुध्यै विरूपः संवत्सरो विरूपमन्नमन्नाद्यस्यावरुध्यै आशु भार्गवं भवति अहर्वा एतदव्लीयत तद्देवा आशुनाभ्यधिन्वंस्तदाशोराशुत्वम् मार्गीयवं भवति देवं वा एतं मृगयुरिति वदन्त्येतेन वै स उभयेषां पशूनामाधिपत्यमाश्नुतोभयेषां पशूनामाधिपत्यमश्नुते मार्गीयवेण तुष्टुवानः सौमित्रं भवति यदेव सौमित्रस्य ब्राह्मणम् ऐटतं भवति इटन् वा एतेन काव्योऽञ्जसा स्वर्गं लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः साकमश्वं भवति यदेव साकमश्वस्य ब्राह्मणम् तदु धुरां सामेत्याहुः प्राणा वै धुरः प्राणानामवरुध्यै विलम्बसौपर्णं भवति आत्मा वा एष सौपर्णानां यदष्टमेऽहनि पक्षावेतावभितो भवतो ये सप्तमनवमयोर्वीव वा अन्तरात्मा पक्षौ लम्बते यदन्तरात्मा पक्षौ विलम्बते तस्माद्विलम्बसौपर्णम् स्वर्गस्य लोकस्य समष्ट्यै सौपर्णं क्रियते - तांब्रा. १४.९.१

अथाशु। देवा वा अकामयन्ताशु स्वर्गं लोकम् इयामेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै त आशु स्वर्गं लोकम् आयन्। तद् एवाशोर् आशुत्वम्। तद् एतत् स्वर्ग्यं साम। आश्व् एवैतेन स्वर्गं लोकम् एति य एवं वेद। तद् व् एवाचक्षत आशु भार्गवम् इति। देवासुरा अस्पर्धन्त। ते देवा भृगुम् उपाधावन् - जयामासुरान् इति। स एतद् भृगुस् सामापश्यत्। तेनास्तुत। ततो वै देवा असुरान् अजयन्। ते ऽब्रुवन्न् आशु वावेदं भृगोर् अभूद् इति। तद् व् एवाशोर् आशुत्वम्। तद् उ भ्रातृव्यहा कामसनि। हन्ति द्विषन्तं भ्रातृव्यम्। यत्काम एनेन स्तुत, सम् अस्मै स काम ऋध्यते॥जै.ब्रा. ३.२११

आशुभार्गवम् (वृषा पवस्व धारया) (ग्रामगेयः, ४६९.३)