सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ७/सौश्रवसम्
त्वं न इन्द्रा भर ओजो नृम्णं शतक्रतो विचर्षणे ।
आ वीरं पृतनासहं ॥ ११६९ ॥ ऋ. ८.९८.१०
त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ ।
अथा ते सुम्नमीमहे ॥ ११७० ॥
त्वां शुष्मिन्पुरुहूत वाजयन्तमुप ब्रुवे सहस्कृत ।
स नो रास्व सुवीर्यं ॥ ११७१ ॥
टिप्पणी
त्वं न इन्द्रा भरेति त्वम् इति भवति बृहतो रूपम्। बार्हतम् एतद् अहः। ओजो नृम्णं शतक्रतो विचर्षणे। आ वीरं पृतनासहम्॥ इति यद् वै शतवत् सहस्रवत् तच् छन्दोमानां रूपम्। पशवो वै छन्दोमाः॥जैब्रा ३.१९८॥
तासु सौश्रवसम्। कुत्सो ह वा औरव इन्द्रस्योरोर् अधि निर्मित आस। यादृश एवेन्द्रस् तादृश, यथात्मनो निर्मित स्याद् एवम्। तं ह संग्रहीतारं चक्रे। तं ह जाययाभिजग्राह शच्या पौलोम्या। तां होवाच कथेत्थम् अकर् इति। सा होवाच - न वां व्यज्ञासम् इति। स होवाच खलतिं वा एनं करिष्यामि, तथा विजानीताद् इति। तं ह खलतिं चकार। स होष्णीषं परिहृत्योपनिपेदे। स एवैष संग्रहीतुर् उष्णीषः। तं हाभ्य् एव जग्राह। तां होवाच कथेत्थम् अकर् इति। सा होवाच - न वां व्यज्ञासम्, उष्णीषेण वै मा परिहृत्योपन्यपादीति। स होवाचान्तरांसयोर् वा अस्य पांसून् अधिवप्स्यामि, तथा विजानीताद् इति। तस्य हान्तरांसयोः पांसून् अध्युवाप। त एवैते संग्रहीतुर् अन्तरांसयोः पांसवः। तान् ह प्रावृत्योपनिपेदे। तं हाभ्य् एव जग्राह। तां होवाच कथेत्थम् अकर् इति। सा होवाच - न वां व्यज्ञासम्। प्रावृत्य वै मोपन्यपादीति॥3.199॥तं ह बबाधे - मल्लो ऽसीति। स होवाच मघवन् मामुया भूम। तेभ्यो वै नस् त्वं तद् देहि, येन वयं जीवाम। त्वद् वै वयं जाता स्म इति। स वा एतान् अन्तरांसयोः पांसून् प्रध्वंसयस्वेति। तान् ह प्रध्वंसयांचक्रे। ते हैव रजसश् च रजीयांसश् च नाम महाञ् जनपद उत्तस्थौ। तेषां ह राजास। तस्य होपगुस् सौश्रवसः पुरोहित आस। स होवाच - मा कश्चन यष्ट। यो म ईशायां यजते, ज्येयस् सः। न वै देवा अहुतस्यादन्ति। न पर्णाहुतिश् च न होतव्येति। स हेन्द्र उपगुं सौश्रवसम् एत्योवाच - याजयानि त्वेति। स होवाच - न वा इह यजन्ते। यो वा इह यजेत, जिनीयुर् वै तम् इति। तं ह लोकं लोकं दर्शयांचकारेमम् इमं वै लोकम् इष्ट्वा जयतीति। स हेक्षांचक्रे - ऽपि त्यं जिनन्तु। हन्त यजा इति। तं होवाच याजय मेति। तं ह याजयांचकार। स्वयम् एव सदोहविर्धाने उत्तस्थतुः। उलूखले सोमम् अभिषुषाव। स होवाचाराद् एव कुत्साद् इहागहीति। स ह कुत्सम् एवोपेयाय। तं होवाच - कम् अयज इति। उपगुम् इति। एतम् उपगुं जिनीतेति॥3.200॥ तं ह जिग्युः। तं ह द्वितीयं तं ह तृतीयम् एत्योवाच - याजयानि त्वेति। स होवाच - न वा इह यजन्ते। यो वा इह यजेत, जिनीयुर् वै तम्। द्विर् वै स्यो ऽयजत। तं त्यम् अजिनन्न् एवेति। तम् उ ह लोकं लोकम् एव दर्शयांचकारेमम् इमम् उ वाव लोकम् इष्ट्वा जयतीति। स हेक्षांचक्रे - ऽपि त्यं जिनन्तु, हन्त यजा एवेति। तं होवाच - याजय मेति। तं ह याजयांचकार। स्वयम् एव सदोहविर्धाने उत्तस्थतुर्, उलूखले सोमम् अभिषुषाव। स होवाच - यथैव त्वा कुत्सो न पश्येत्, तथेताद् इति। स ह कुत्सम् एवोपेयाय। तं होवाच - कम् अयज इति। उपगुम् इति। तम् उ ह स्वयम् एवोपोत्थाय संवृश्च्योदके प्रचकार॥3.201॥ तद् उ ह सुश्रवा स्थौरायणः पितानुबुबुधे - कुत्सो ह वै म औरवः पुत्रं संवृश्च्योदके प्राकारीद् इति। तम् आद्रुत्याब्रवीत् - क्व मे पुत्रम् अकर् इति। एष उदके प्रकीर्णश् शेत इति। तं हान्वभ्यवेयाय। तस्य हेन्द्रो रोहितो भूत्वा मुखात् सोमं निष्पपौ। स हेक्षांचक्रे - ऽयं वावेन्द्रः। इमम् एव स्तवानि। अयम् एव म इमं समैरयिष्यतीति। स एतत् सामापश्यत्। तेनैनम् अस्तौद् - अपाद् उ शिप्रिय् अन्धसस् सुदक्षस्य प्रहोषिणः। इन्दोर् इन्द्रो यवाशिरः॥ (औपगवे द्वे) इति। तम् अब्रवीत् किंकामो मा स्तौषीति। इमम् एव मे पुत्रं समैरयेत्य् अब्रवीत्। तम् ए मथाया इत्य् उदमथ्नात्। तं समैरयत्। तद् एतद् भेषजं प्रायश्चित्तिस् साम। भेषजं वै स तत् प्रायश्चित्तिम् अकुरुत। विभ्रष्टम् इवैतद् अहर् यत् सप्तमम्। तद् एवैतेन भिषज्यन्ति। भेषजम् एवैतेन प्रायश्चित्तिं कुर्वते। तद् उ कामसनि। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समार्ध्यत। यत्काम एवैतेन साम्ना स्तुते सम् अस्मै स काम ऋध्यते। यद् उ सुश्रवा स्थौरायणो ऽपश्यत् तस्मात् सौश्रवसम् इत्य् आख्यायते॥ जैब्रा. ३.२०२॥