सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ७/वात्सम्

विकिस्रोतः तः
वात्सम्.
वात्सम्.

आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् ।
अग्ने त्वां कामये गिरा ॥ ११६६ ॥ ऋ. ८.११.७
पुरुत्रा हि सदृङ्ङसि दिशो विश्वा अनु प्रभुः ।
समत्सु त्वा हवामहे ॥ ११६७ ॥
समत्स्वग्निमवसे वाजयन्तो हवामहे ।
वाजेषु चित्रराधसं ॥ ११६८ ॥

 
१७. वात्सम्। वत्सः काण्वः । गायत्री । अग्निः ।।

आतेवत्साः ।। मनोयमत् । परमात् । चित्सधाऽ२३स्थात् ।। अग्नाइत्वाऽ३ङ्काऽ३ ।। मयोवा ।। गाऽ५इरोऽ६हाइ। ।।श्रीः।। पुरुत्राही ।। सदृङ्ङसि । दिशोविश्वाः । अनुप्राऽ२३भूः ।। समात्सूऽ३त्वाऽ३ ।। हवोवा । माऽ५होऽ६हाह ।। श्रीः ।। समत्सुवा ।। ग्निमवसे । वाजयन्तः । हवामाऽ२३हाइ । वाजाइषूऽ३चाऽ३इ ।। त्ररोवा । धाऽ५सोऽ६हाइ।।
दी११ उत् ३ मा. १५. गु.।।१३७।।



[सम्पाद्यताम्]

टिप्पणी

आ ते वत्सो मनो यमद्"इत्यपच्छिदिव वा एतद्यज्ञकाण्डं यदुक्थानि यदेति सलोमत्वायैव...... वत्सश्च वै मेधातिथिश्च काण्वावास्तां तं वत्सं मेधातिथिराक्रोशदब्राह्मणोऽसि शूद्रापुत्र इति सोऽब्रवीदृतेनाग्निं व्ययाव यतरो नौ ब्रह्मीयानिति वात्सेन वत्सो व्यैन्मैधातिथेन मेधातिथिस्तस्य न लोम च नौषत् तद्वाव स तर्ह्यकामयत कामसनि साम वात्सं काममेवैतेनावरुन्धे - तांब्रा. १४.६.१

आ ते वत्सो मनो यमद् इत्य् आवतीर् भवन्ति। अपच्छिद् इव वा एतद् यज्ञकाण्डं यद् उक्थानि। तद् यद् आवतीर् भवन्ति यज्ञस्यैव सलोमतायै। तासु वात्सम्। वत्सः काण्वः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स ह वाव त्रिशोको यान् एवामूंस् त्रीन् छोकान् अपाहन् सास्य त्रिशोकता। स ह स सद्य एवालोम्नो कर्णकान् पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ वत्सः काण्वो ऽपश्यत् तस्माद् वात्सम् इत्य् आख्यायते। - जैब्रा. ३.१९८

वात्से द्वे