सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ७/जराबोधीयम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
जराबोधीयम्.
जराबोधीयम्.

ये सोमासः परावति ये अर्वावति सुन्विरे ।
ये वादः शर्यणावति ॥ ११६३ ॥ ऋ. ९.६५.२२
य आर्जीकेषु कृत्वसु ये मध्ये पस्त्यानां ।
ये वा जनेषु पञ्चसु ॥ ११६४ ॥
ते नो वृष्टिं दिवस्परि पवन्तामा सुवीर्यं ।
स्वाना देवास इन्दवः ॥ ११६५ ॥

१६. जराबोधीयम् । अग्निः। गायत्री। पवमानस्सोमः॥

येसोमासोवा ॥ पारावताइ । येआर्वाऽ२३वा । तिसुन्वाइराइ ॥ येवादाऽ१श्शाऽ२३र्या । णा। वतोऽ३४५६इ ॥ डा ॥ श्रीः ॥ यआर्जीकोवा ॥ षूकृत्वसू । येमाध्याऽ२३इपा । स्तियानाम् ॥ येवाजाऽ१नाऽ२३इषू। प । चसोऽ३४५इ ॥डा॥ श्रीः ॥ तेनोवृष्टोवा ॥ दाइवस्पराइ । पवान्ताऽ२३मा । सुवीरायाम् ॥ स्वानादाऽ१इवाऽ२३साः । इ। दवोऽ३४५इ ॥डा॥

दी. १५. उत्. ९. मा. १६. भू. ॥१३६॥


[सम्पाद्यताम्]

टिप्पणी

जराबोधीयेनाश्विभ्यां स्तुवन्ति। रुद्रस्य वा एतद् देवस्य साम यज् जराबोधीयम्। एतेन वै रुद्रो देवः पशूनाम् ऐश्वर्यम् आधिपत्यम् अगच्छत् तेन पशूनाम् ऐश्वर्यम् आधिपत्यं गच्छामेति। - जैब्रा ३.११

ये सोमासः परावतीति परावतम् इव ह्य् एतर्हि यज्ञो ऽगच्छत्॥ तासु जराबोधीयम्। शाक्त्यास् तरसपुरोडाशास् सत्रम् आसत। स गौरिवीतिश् शाक्त्यो मृगम् अहन्। तं तार्क्ष्यस् सुपर्ण उपरिष्टाद् अभ्यवापतत्। तस्या उपप्रत्यधत्त। तम् अब्रवीद् - ऋषे, मा मे ऽस्थः। यत्कामो ऽसि तं ते कामं समर्धयिष्याम इति। किंकामः खल्व् अहम् अस्मीत्य् अब्रवीत्। असितस्य धाम्न्यस्य दुहितरं कामयसे। तस्यै त्वा निवक्ष्यामीति। अथ हासितो धाम्न्य ईर्ष्युर् आस। तस्य हान्तरिक्षे प्रासाद आस। तद् धास्य दुहितरं जुगुपुः। तं ह स्म पत्रनाड्याम् उपगुह्यास्यै कुमार्यै निवहति। तं ह स्मैतेनैव साम्ना प्रातर् बोधयति - जार बुध्यस्वेति। तद् एव जराबोधीयस्य जराबोधीयत्वम्। सेयं कुमारी गर्भम् अधत्त। स कुमारो ऽजायत। तम् असुरा विच्छिद्य परास्यन्तो ऽब्रुवञ् - जामीगर्भो वा अयं, रक्षो वा इदम् अजनीति। तम् अकामयत - सम् एनम् ईरयेयम् इति। स एतत् सामापश्यत्। तेनैनं समैरयत्। स एव संकृतिर् गौरिवीतो ऽभवत्। तद् एतद् भेषजं प्रायश्चित्तिस् साम। भेषजं वै स तत् प्रायश्चित्तिम् अकुरुत। विभ्रष्टम् इवैतद् अहर् यत् सप्तमम्। तद् एवैतेन भिषज्यन्ति। भेषजम् एवैतेन प्रायश्चित्तिं कुर्वते। तद् उ कामसनि। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समार्ध्यत। यत्काम एवैतेन साम्ना स्तुते, सम् अस्मै स काम ऋध्यते। तस्यो प्राचीम् इळाम् उपयन्ति। पशवो वा इळा। पशवश् छन्दोमाः। पशुष्व् एवैतद् रेतांसि दधति॥जैब्रा ३.१९७