सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ६/वारवन्तीयम्

विकिस्रोतः तः
Jump to navigation Jump to search
वारवन्तीयम्
वारवन्तीयम्.

१४
रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः |
क्षुमन्तो याभिर्मदेम || १०८४ || (ऋग्वेदः १.३०.१३-१५)
आ घ त्वावां त्मना युक्तः स्तोतृभ्यो धृष्णवीयानः |
ऋणोरक्षं न चक्र्योः || १०८५ ||
आ यद्दुवः शतक्रतवा कामं जरित्ऱीणां |
ऋणोरक्षं न शचीभिः || १०८६ ||



८. वारवन्तीयम् ॥ इन्द्रः। गायत्री। इन्द्रः॥
रेवतीर्नाऔहोहाइ ॥ साधामाऽ२३४दाइ। इन्द्राइसाऽ२३४हा। तुतुविवाऽ३४ । औहोवा । इहाऽ२३४हाइ । उहुवाऽ२३४जाः ॥ क्षुमन्तः । या“भिर्मदाऽ३४ । औहोवा । इहाऽ२३४हाइ । औहोऽ३१२३४ । मा । एहियाऽ६हा ।। श्रीः ॥ आघत्वावाꣳऔहोहाइ ॥ त्मानायूऽ२३४क्ताः । स्तोतृभ्योऽ२३४हाइ । धृष्णवीयोऽ३४ । औहोवा । इहाऽ२३४हाइ । उहुवाऽ२३४नाः ॥ ऋणोर । क्षा“न्नचक्राऽ३४ । औहोवा। इहाऽ२३४हाइ । औहोऽ३१२३४ । योः । एहिया६हा ॥श्रीः॥ अयद्दुवाऔहोहाइ ॥ शातक्राऽ२३४ताउ। आकामाऽ२३४ꣳ हाइ। जरितॄऽ३४ । औहोवा । इहाऽ२३४हाइ । उहुवाऽ२३४णाम् ॥ ऋणोर। क्षा“न्नशचाऽ३४ । औहोवा । इहाऽ२३४हाइ । औहोऽ३१२३४ । भीः। एहियाऽ६हा । होऽ५इ ॥डा॥
दी. ३४. उत् . ९. मा. २५. धु.॥१०८।।


[सम्पाद्यताम्]

टिप्पणी

द्र. रेवती उपरि टिप्पणी

सोमयागेषु यदा सुत्यादिवसस्य (सोमाभिषवदिवसस्य) संख्या एकाधिकः भवति, तदा यस्य सोमस्य अभिषवणं ऋजुतममस्ति, तत् प्रथमे दिवसे भवति। पञ्चमसुत्यादिवसं यावत् यः सोमः अभिषवणीयः अस्ति, तस्य अभिषवणं कृतं भवति। अतः परं यः सोमः शेषः भवति, तस्य प्रकृतिः द्वेषप्रकारस्य भवति, यः रूपान्तरणतः द्वेषं करोति। संभवतः अस्य सोमस्य उपयोगः जीवनधारणार्थाय अस्ति। किन्तु यदि केनापिप्रकारेण अस्य रूपान्तरणं स्यात्, तदा सोमयागस्य सातत्यं भवेत्। अन्यथा, अवरोधनं भवेत्। अस्मिन् सामे कथनमस्ति - रेवतीर्नः सधमादे इति। यस्य सोमस्य रूपान्तरणं भविष्यति, तत् अस्माकं हितकारकमेव भवेत्। साम्नः संज्ञा वारवन्तीयं अस्ति। वारवन्तीयं अर्थात् वालवन्तीयं। पादपस्य मूलस्य परितः यः क्षेत्रं भवति, तस्य संज्ञा वालः भवति। वालस्य अन्य अर्थं बालः, विरलः अस्ति। अयं संकेतमस्ति यत् अभिषवणात् पूर्वं सोमस्य स्थितिः द्वेषकरः अस्ति, अभिषवणोपरि अयं वालप्रकारस्य भविष्यति। वालप्रकारस्य संकेतं साम्नः अन्याभ्यां पदाभ्यां अपि प्राप्तं भवति - ऋणोरक्षं न चक्र्योः एवं ऋणोरक्षं न शचीभिः। आधुनिकविज्ञाने ज्ञातमस्ति यत् यदा कस्मिंश्चित् वृत्ताकारे धातुतन्तुमध्ये विद्युत्प्रवाहः भवति, तदा तस्य अक्षोपरि चुम्बकशक्त्याः जननं भवति। अभिषवणात् पूर्वं या चेतनाधारा वहति, तत् मुख्यतन्त्रे निष्ठावान् नास्ति।

चक्र - अक्ष

कथनमस्ति यत् शक्वरीसंज्ञकस्य पंचमसुत्यादिवसतः पशूनांं जननं भवति, रेवतीसंज्ञकस्य षष्ठं सुत्यादिवसतः पशुभ्यः पयः प्राप्तिः भवति। पय़ः अर्थात् बन्धनमुक्त अवस्था। अयं संभवमस्ति यत् षष्ठे दिवसे तन्त्रमध्ये विद्युतस्य विकासं भवति।