सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ५/वाम्रम्

विकिस्रोतः तः
वाम्रम्.
वाम्रम्.

७. वाम्रम् । वम्रः। बृहती। पवमानस्सोमः।
सो꣣꣯म꣤उष्वा꣯णस्सो꣥꣯। हा꣢ऽ३हा꣢ऽ३इ । तॄ꣡ऽ२३४ । भिस्तृभोवा꣥ ॥ अ꣡धाहोऽ᳒२᳒इ । ष्णु꣡भाइर्होऽ᳒२᳒ । आ꣡वा꣢ऽ१इनाऽ᳒२᳒म् । आ꣡श्वये꣢व । हरा꣡इताया꣢᳐। ति꣣धा꣢उवाऽ३। ऊ꣢३४पा꣥। र꣡याऽ᳒२᳒ ॥ मा꣡न्द्राऽ᳒२᳒या꣡याऽ᳒२᳒ ॥ तिधा꣡꣯। राऽ२᳐या꣣ऽ२३४औ꣥꣯होवा ॥श्रीः॥ म꣤न्द्र꣣या꣤꣯या꣥꣯तिधा꣯। हा꣢ऽ३हा꣢ऽ३इ । रा꣡ऽ२३४ । या꣯रयोवा꣥ ॥ म꣡न्द्राहोऽ᳒२᳒इ । या꣡꣯याहोऽ᳒२᳒ । ता꣡इधा꣢ऽ१रायाऽ᳒२᳒ । आ꣡नू꣯पे꣢꣯गो꣯ । मा꣡न्गो꣢᳐। भि꣣रा꣢उवाऽ३ । ऊ꣢ऽ३४पा꣥ । अ꣡क्षाऽ᳒२᳒: ॥ सो꣡मोऽ᳒२᳒दू꣡ग्धाऽ᳒२᳒ ॥ भिरा꣡ऽ२᳐ । क्षा꣣ऽ२३४औ꣥꣯होवा ॥ श्रीः॥ सो꣣꣯मो꣤꣯दुग्धा꣣꣯भि꣤रा꣥꣯। हा꣢ऽ३हा꣢ऽ३इ । आ꣡ऽ२३४ । क्षा꣯:स्थिक्षोवा꣥ ॥ सो꣡꣯मोहोऽ᳒२᳒इ। दु꣡ग्धाहोऽ᳒२᳒ । भा꣡इरा꣢ऽ१क्षाऽ᳒२᳒: । सा꣡मुद्र꣢न्न । संवा꣡राणा꣢᳐ । नि꣣या꣢उवाऽ३ । ऊ꣢३४पा꣥। अ꣡ग्माऽ᳒२᳒न् । मा꣡न्दीऽ᳒२᳒मा꣡दाऽ᳒२᳒ ॥ यतो꣡꣯। शाऽ᳐२᳐ता꣣ऽ२३४ओ꣥꣯हो꣯वा ॥ ऊ꣢ऽ३२३४पा꣥ ॥
दी. २६. उत्. ५. मा. २३. डि. ॥८७॥


सोम उ ष्वाणः सोतृभिरधि ष्णुभिरवीनां ।

अश्वयेव हरिता याति धारया मन्द्रया याति धारया ॥ ९९७॥ ऋ. ९.१०७.८

अनूपे गोमान्गोभिरक्षाः सोमो दुग्धाभिरक्षाः ।

समुद्रं न संवरणान्यग्मन्मन्दी मदाय तोशते ॥ ९९८॥


७. वाम्रम् । वम्रः। बृहती। पवमानस्सोमः।

सोमउष्वाणस्सो। हाऽ३हाऽ३इ । तॄऽ२३४ । भिस्तृभोवा ॥ अधाहोऽ२इ । ष्णुभाइर्होऽ२ । आवाऽ१इनाऽ२म् । आश्वयेव । हराइताया। तिधाउवाऽ३। ऊ३४पा। रयाऽ२ ॥ मान्द्राऽ२यायाऽ२ ॥ तिधा। राऽ२याऽ२३४औहोवा ॥श्रीः॥ मन्द्रयायातिधा। हाऽ३हाऽ३इ । राऽ२३४ । यारयोवा ॥ मन्द्राहोऽ२इ । यायाहोऽ२ । ताइधाऽ१रायाऽ२ । आनूपेगो । मान्गो। भिराउवाऽ३ । ऊऽ३४पा । अक्षाऽ२: ॥ सोमोऽ२दूग्धाऽ२ ॥ भिराऽ२ । क्षाऽ२३४औहोवा ॥ श्रीः॥ सोमोदुग्धाभिरा। हाऽ३हाऽ३इ । आऽ२३४ । क्षा:स्थिक्षोवा ॥ सोमोहोऽ२इ। दुग्धाहोऽ२ । भाइराऽ१क्षाऽ२: । सामुद्रन्न । संवाराणा । नियाउवाऽ३ । ऊ३४पा। अग्माऽ२न् । मान्दीऽ२मादाऽ२ ॥ यतो। शाऽ२ताऽ२३४ओहोवा ॥ ऊऽ३२३४पा ॥

दी. २६. उत्. ५. मा. २३. डि. ॥८७॥

[सम्पाद्यताम्]

टिप्पणी

अथ वाम्रम् अभ्यारम्भो यज्ञस्य प्रत्यपसारः। अभ्य एव षष्ठम् अहर् आरभते प्रति चतुर्थम् अपधावति। अभ्यारम्भैर् वै देवा असुरान् यज्ञाद् अन्तरायन्। वम्रो वैखानसः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स एतां मध्य इळाम् उपेत्याध्यर्धाम् इळाम् उपरिष्टाद् उपैत्। पशवो वा इळा। भूमो वा अध्यर्धेळा। ततो वै स भूमानम् अभिपूर्वं पशूनाम् अवारुन्द्ध। तद् एतत् पशव्यं साम। भूमानम् एवाभिपूर्वं पशूनाम् अवरुन्द्धे य एवं वेद। यद् उ वम्रो वैखानसो ऽपश्यत् तस्माद् वाम्रम् इत्य् आख्यायते॥जैब्रा. ३.९९

वाम्रं भवति। मामार्षेयेण प्रशस्तं यं वै गामश्वं पुरुषं प्रशंसन्ति वाम इति तं प्रशंसन्त्यहरेवैतेन प्रशंसन्ति। अध्यर्धेडं तथा ह्येतस्याह्नो रूपम् - तांब्रा १३.३

सोमसामानि षट् (ग्रामगेयः)

मानवोत्तरम्

आनूपम्

वाम्रम्

अग्नेस्त्रिणिधनम्