सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ५/मानवोत्तरम्

विकिस्रोतः तः
मानवोत्तरम्
मानवोत्तरम्.

१२
सोम उ ष्वाणः सोतृभिरधि ष्णुभिरवीनां ।
अश्वयेव हरिता याति धारया मन्द्रया याति धारया ॥ ९९७॥ ऋ. ९.१०७.८
अनूपे गोमान्गोभिरक्षाः सोमो दुग्धाभिरक्षाः ।
समुद्रं न संवरणान्यग्मन्मन्दी मदाय तोशते ॥ ९९८॥




२५ मानवोत्तरम् ।। मनुः । बृहती । पवमानस्सोमः ।

होवाइ । सोमउष्वाणस्सोतृभिः । होवाइ । आधिष्णुभिरवीनाम् । आश्वयेव । हारितायाऽ३१ । तिधाऽ२राऽ२३४या ।। मन्द्रायाऽ२३याऽ३ ।। ताऽ२इधाऽ२३४औहोवा ।। राऽ२३४या ।। श्रीः ।। होवाइ । मन्द्रयायाति धारया । होवाइ ।। मान्द्रयायातिधारया । आनूपे । गोमान्गोऽ३१ । भाऽ२इराऽ२३४क्षाः ।। सोमोदूऽ२३ग्धाऽ३ ।। भाऽ२इराऽ२३४औहोवा ।। आऽ२३४क्षाः ।। श्रीः ।। होवाइ । सोमोदुग्धाभिरक्षाः । होवाइ ।। सोमोदुग्धाभिरक्षाः । सामुद्रन्न । साम्वरणाऽ३१ । नियाऽ२आऽ२३४ग्मान् ।। मन्दाइमाऽ२३दाऽ३ ।। याऽ२तोऽ२३४औहोवा ।। शाऽ२३४ते ।।

दी. ३२. उत् ४. मा. २२. झा. ।।८५।।

[सम्पाद्यताम्]

टिप्पणी

सोम उ ष्वाणस् सोतृभिर् इति सिमानां रूपम्। अधि ष्णुभिर् अवीनाम् इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्ध्यै। पशवो ह्य् एतद् अहः। समुद्रं न (संवरणान्य् अग्मन् मन्दी मदाय) तोशत इति समुद्रवतीर् भवन्ति। आपो ह्य् एतद् अहः। ता न्यूनाक्षरा भवन्ति। सप्ताक्षराण्य् एकानि पदानि भवन्ति, नवाक्षराण्य् एकान्य्, एकादशाक्षराण्य् एकानि, द्वादशाक्षराण्य् एकानि। तद् एतद् अभिपूर्वम् एव शक्वरीणां रूपम् उपगच्छन्ति। - जैब्रा ३.९७

मानवं भवति। एतेन वै मनुः प्रजापतिं भूमानमगच्छत् प्रजायते बहुर्भवति मानवेन तुष्टुवानः - तांब्रा १३.३

सोमसामानि षट् (ग्रामगेयः)

मानवोत्तरम्

आनूपम्

वाम्रम्

अग्नेस्त्रिणिधनम्