सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ५/क्रोशम्

विकिस्रोतः तः
क्रोशम्.
क्रोशम्.

प्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिम्।
विश्वा परि प्रिया भुवदध द्विता॥ १०१३ तु. ऋ. ९.१०२.१ (क्राणा शिशु इति)
उप त्रितस्य पाष्यो३ अभक्त यद्गुहा पदम्।
यज्ञस्य सप्त धामभिरध प्रियम्॥ १०१४
त्रीणि त्रितस्य धारया पृष्टेष्वैरयद्रयिम्।
मिमीते अस्य योजना वि सुक्रतुः॥ १०१५



१२. क्रोशम् ।। इन्द्रः । उष्णिक् । पवमानः सोमः ।
प्राणा । शिशुर्मही । नाम् । होईऽ२ । वाहोइ । हिन्वन्नृतस्यदीधिताइम् । विश्वापाऽ१राऽ२३इ ।। प्रीऽ३याभूऽ३वात् ।। अधाऽ२३द्विताऽ३४३ ।।श्रीः।। उपा ।। त्रितस्यपा । ष्योः । होईऽ२ । हो । वाहोइ । अभक्तयद्गुहापदाम् । यज्ञास्याऽ१साऽ२३ ।। प्ताऽ३धामाऽ३भाइः ।। अधाऽ२३प्रियाऽ३४३म् ।। श्रीः ।। त्रीणी ।। त्रितस्यधार । या । होईऽ२ । हो । वाहोइ । पृष्ठेष्वैरयद्रयाइम् । मिमाइतेऽ१आऽ२३ ।। स्याऽ३योजाऽ३ना ।। विसूऽ२३क्रतूऽ३४३ः । ओऽ२३४५इ। ।। डा ।।
दी. १५. उत्. ९ . मा. २२. भा. ।।९२।।

[सम्पाद्यताम्]

टिप्पणी

दशरात्रस्य पञ्चमस्याह्नः - प्राणा शिशुर्महीनामिति च्यावन - क्रोशे । - आर्षेयकल्पः उपोद्घातः पृ ७४

आर्भवपवमानम् -- प्राणा शिशुर्महीनाम्"इति सिमानां रूपं मह्यो हि सिमाः स्वेनैवैनास्तद्रूपेण समर्धयति। ......क्रोशं भवति। एतेन वा इन्द्र इन्द्रक्रोशे विश्वामित्रजमदग्नी इमा गाव इत्याक्रोशत् पशूनामवरुध्यै क्रोशं क्रियते - पञ्चविंशब्रा. १३.५.३

प्राणा शिशुर्महीनाम् इति प्राणवत्यो भवन्ति प्राणानेव तद्यजमाने दधाति - तांब्रा. १४.११.३