सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ५/इषोवृधीयम्

विकिस्रोतः तः
इषोवृधीयम्.
इषोवृधीयम्.

११
इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः |
अर्कस्य योनिमासदं || १०७६ || ऋ. ९.६४.२२
तं त्वा विप्रा वचोविदः परिष्कृण्वन्ति धर्णसिं |
सं त्वा मृजन्त्यायवः || १०७७ ||
रसं ते मित्रो अर्यमा पिबन्तु वरुणः कवे |
पवमानस्य मरुतः || १०७८ ||





१९. इषोवृधीयम् ।। प्रजापतिः । गायत्री । पवमानस्सोमः ।

इन्द्रायेन्दाउ ।। मरुत्वताइ। । पवस्वामाऽ२ । धुमत्तमाः ।। अर्कस्यायोऽ२ ।। निमा । साऽ२दाऽ२३४औहोवा ।।श्रीः।। तन्त्वाविप्राः ।। वचोविदाः । परिष्कार्ण्वाऽ२ । तिधर्णसाइम् ।। सन्त्वामार्जाऽ२ ।। तिआ । याऽ२वाऽ२३४औहोवा ।। श्रीः ।। रसन्तेमाइ ।। त्रोअर्यमा । पिबन्तूवाऽ२ । रुणᳲकवाइ ।। पवमानाऽ२ ।। स्यम । रूऽ२ताऽ२३४औहोवा ।। इषोवृधेऽ१ ।।

दी. १६. उत्. १६. मा. १४. की. ।।९९।।


[सम्पाद्यताम्]

टिप्पणी

इषोवृधीयम् (ग्रामगेयः)


तद् आहुर् जामीव वा एतत् क्रियते यद् एता इळाभिर् इळा उपयन्ति। इषोवृधीयेनैवारभ्यम् अजामिताया इति। - जैब्रा ३.१४५

अथेषोवृधीयं बहिर्निधनं बार्हतम्। तस्माद् बार्हते ऽहन् क्रियते। इषो वै षष्ठम् अहर्, वृधे सप्तमम्। षष्ठाद् वा अह्नस् सप्तमम् अहः प्रजातम्। तद् यद् इष इति षष्ठाद् एवैतद् अह्नस् सप्तमम् अहः प्रजनयन्ति। यद् वृध इत्य् अवर्धन्त इव ह्य् एतर्हि। प्रजापतिः प्रजा असृजत। ता अनशना - अनशना असृजत। ता अशनायन्तीर् अन्यान्याम् आदन्। स प्रजापतिर् ऐक्षत - कथं नु म इमाः प्रजा नाशनायेयुर् इति। स एतत् सामापश्यत्। तेनैना इषोवृधीय इत्य् एवाभ्यमृशत्। ता अस्येषा समक्ता अवर्धन्त। - जैब्रा ३.१४८

इषशब्दोपरि टिप्पणी


अर्कशब्दोपरि टिप्पणी