सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ५/अग्नेस्त्रिणिधनम्

विकिस्रोतः तः
अग्नेस्त्रिणिधनम्.
अग्नेस्त्रिणिधनम्.

सोम उ ष्वाणः सोतृभिरधि ष्णुभिरवीनां ।
अश्वयेव हरिता याति धारया मन्द्रया याति धारया ॥ ९९७॥ ऋ. ९.१०७.८
अनूपे गोमान्गोभिरक्षाः सोमो दुग्धाभिरक्षाः ।
समुद्रं न संवरणान्यग्मन्मन्दी मदाय तोशते ॥ ९९८॥

[सम्पाद्यताम्]

टिप्पणी

अथाग्नेयं त्रिणिधनं सवनानां क्लृप्त्यै। पवमानेन वै देवेभ्यो ऽन्नाद्यं प्रदीयते। तन् मध्येनिधनं भवति अन्नाद्यस्य विशेषाय। अग्निर् वा अकामयत अन्नाद एव श्रेष्ठः स्वानां स्याम इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽन्नाद एव श्रेष्ठ स्वानाम् अभवत्। तद् एतद् अन्नाद्यस्यावरुद्धिस्साम। अवान्नाद्यं रुन्द्धे ऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद। यद् व् अग्निर् अपश्यत् तस्माद् आग्नेयं त्रिणिधनम् इत्य् आख्यायते॥जैब्रा. ३.१००

सोमसामानि षट् (ग्रामगेयः)

मानवोत्तरम्

आनूपम्

वाम्रम्

अग्नेस्त्रिणिधनम्